64011: अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्¶
Padacheda: अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्तॄणाम् | S | 6 | 3 |
Sutrartha¶
तृन्-प्रत्ययान्तशब्दाः, तृच्-प्रत्ययान्तशब्दाः, तथा अप्, स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ, तथा प्रशातृ - एतेषामङ्गस्य उपधायाः असम्बुद्धिवाचके सर्वनामस्थानपरे दीर्घः भवति ।
अप् (= जलम्), तृच् (= तृच्-प्रत्ययान्तशब्दः), तृन् (= तृन्-प्रत्ययान्तशब्दः), स्वसृ ( = भगिनी), नप्तृ ( = पौत्रः / दौहित्रः), नेष्टृ ( = ऋत्विग्विशेषः), त्वष्टृ (= प्रजापतिः ), क्षत्तृ ( = सारथिः), होतृ (= ऋत्विग्), पोतृ (= ऋत्विग्विशेषः), प्रशास्तृ ( = राजा) एतेषां शब्दानां सर्वनामस्थानवाचके प्रत्यये परे अङ्गस्य उपधायाः दीर्घः भवति । परन्तु सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अयं दीर्घादेशः न भवति । कानिचन उदाहरणानि पश्यामः - 1) तृच्-प्रत्ययान्तशब्दः यथा ‘कर्तृ’ - अस्य प्रथमा-द्विवचनस्य रूपम् - कर्तृ + औ [प्रथमा-द्विवचनस्य औ-प्रत्ययः] → कर्तर् + औ [ऋतो ङिसर्वनामस्थानयोः (7.3.110) इत्यनेन सर्वनामस्थाने परे ऋकारान्तस्य अङ्गस्य गुणः । उरण् रपरः इत्यनेन सः च रपरः] → कर्तार् + औ [अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् (6.4.11) इत्यनेन उपधादीर्घः] → कर्तारौ । 2) त्वष्टृ + जस् [प्रथमाबहुवचनस्य प्रत्ययः] इति स्थिते - → त्वष्टर् + अस् ऋतो ङिसर्वनामस्थानयोः (7.3.110) इत्यनेन ऋकारस्य गुणः रपरः अकारः] → त्वष्टारः [अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् (6.4.11) इत्यनेन उपधादीर्घः] 3) स्वसृ + अम् [द्वितीयैकवचनस्य प्रत्ययः] इति स्थिते - → स्वसर् + अम् ऋतो ङिसर्वनामस्थानयोः (7.3.110) इत्यनेन ऋकारस्य गुणः रपरः अकारः] → स्वसारम् [अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् (6.4.11) इत्यनेन उपधादीर्घः] 4) अप्-शब्दस्य प्रथमाबहुचनस्य रूपमप् + जस् → आपः इति भवति । इत्यत्रापि उपधादीर्घः अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् (6.4.11) अनेन सूत्रेण विधीयते । सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अयं दीर्घादेशः न भवति । यथा - दातृ + सुँ [सम्बुद्धिः] = दातः । ज्ञातव्यम् - भाष्यकारेण उद्गातृ (= यज्ञेषु यः सामगायनं करोति सः) अयं शब्दः अपि अस्यामावल्याम् स्वीकृतः अस्ति । अतः अस्य शब्दस्य अपि सर्वनामस्थाने परे उपधादीर्घः भवति । यथा - उद्गातारौ, उद्गातारः ।
Sutrartha (English)¶
The उपधा letter of the words अप्, स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ, and प्रशातृ, and also of the words ending in a तृन् or तृच् प्रत्यय becomes दीर्घ in presence of a प्रत्यय that is also a सर्वनामस्थान, other than सम्बोधन-एकवचन.
Vasu English Summary¶
In the strong cases, with the exception of the Vocative Case singular, the penultimate vowel is lengthened in अप् in stems formed by तृन् and तृच् affixes and in 1. स्वसृ 2. नप्तृ 3. नेष्टृ 4. त्वष्टृ 5. क्षत्तृ 6. होतृ 7. पोतृ and 9. प्रशास्तॄ।
Vasu English Translation¶
In the strong cases, with the exception of the Vocative Case singular, the penultimate vowel is lengthened in अप् in stems formed by तृन् and तृच् affixes and in 1. स्वसृ 2. नप्तृ 3. नेष्टृ 4. त्वष्टृ 5. क्षत्तृ 6. होतृ 7. पोतृ and 9. प्रशास्तॄ। Thus आपः तिष्ठन्ति ॥ Some would have it even in compounds; as बह्वाम्पि तडागानि ॥ The Samasanta rule is not applied here, because it is anitya. If it be considered nitya, then also there is lengthening, but without the addition of the nasal. तत्र समासान्तो विधिरनित्य इति समासान्तो न क्रियते । नित्यमपि च नुममकृत्वा दीर्घत्वमिष्यते । तृन् । कर्त्तारौ कटान् । वदितारौ जनापवादान् । कर्त्तारः । तृच् । कर्त्तारौ कटस्य । कर्त्तारः । हर्त्तारौ भारस्य, हर्त्तारः । स्वसृ । स्वसा । स्वसारौ । स्वसारः । नप्तृ । नप्ता । नप्तारौ । नप्तारः । नेष्टृ । नेष्टारौ । नेष्टारः । त्वष्टृ । त्वष्टारौ । त्वष्टारः । क्षत्तृ । क्षत्तारौ । क्षत्तारः । होतृ । होतारौ । होतारः । पोतृ । पोतारौ । पोतारः । प्रशास्तृ । प्रशास्तारौ । प्रशास्तारः । नप्त्रादीनां ग्रहणमप्युत्पत्तिपक्षे विध्यर्थम् । व्युत्पत्तिपक्षे नियमार्थम् । एवंभूतानामन्येषां संज्ञाशब्दानां दीर्घो मा भूदिति । पितरौ । पितरः । मातरौ । मातरः । असंबुद्धाविति किम् । हेकर्त्तः । हेस्वसः ॥
If the words नप्तृ &c. be considered as रूढि, not derived from any root, then their enumeration is here for the sake of Vidhi (injunction); if they be considered as derivative words formed by Unadi affixes, then their enumeration is for the sake of niyama (restriction), so that other words formed similarly are not to be governed by this rule. As पितरौ, पितरः, मातरौ, मातरः ॥ Why do we say ‘not in the Vocative Singular’? Observe हे कर्त्तः, हे स्वसः ॥ In the above examples अर् is substituted for ऋ by (7.3.110).
Kashika¶
अप् इत्येतस्य तृनन्तस्य स्वसृ नप्तृ नेष्टृ त्वष्टृ क्षत्तृ होतृ पोतृ प्रशास्तृ इत्येतेषां चाङ्गानामुपधाया दीर्घो भवति सर्वनामस्थाने परतोऽसंबुद्धौ। अप् — आपः। बह्वाम्पि तडागानीति केचिदिच्छन्ति। तत्र समासान्तो विधिरनित्यः (परि० ८४) इति समासान्तो न क्रियते। नित्यमपि च नुममकृत्वा दीर्घत्वमिष्यते। तृन् — कर्तारौ कटान्। वदितारौ जनापवादान्। कर्तारः। तृच् — कर्तारौ कटस्य। कर्तारः। हर्तारौ भारस्य। हर्तारः। स्वसृ — स्वसा, स्वसारौ, स्वसारः। नप्तृ — नप्ता, नप्तारौ, नप्तारः। नेष्टृ — नेष्टा, नेष्टारौ, नेष्टारः। त्वष्टृ — त्वष्टा, त्वष्टारौ, त्वष्टारः। क्षत्तृ — क्षत्ता, क्षत्तारौ, क्षत्तारः। होतृ — होता, होतारौ, होतारः। पोतृ — पोता, पोतारौ, पोतारः। प्रशास्तृ — प्रशास्ता, प्रशास्तारौ, प्रशास्तारः। नप्त्रादीनां ग्रहणमव्युत्पत्तिपक्षे विध्यर्थम्। व्युत्पत्तिपक्षे नियमार्थम्, एवंभूतानामन्येषां संज्ञाशब्दानां दीर्घो मा भूदिति। पितरौ, पितरः। मातरौ, मातरः। असंबुद्धाविति किम्? हे कर्तः। हे स्वसः॥
Siddhanta Kaumudi¶
अबादीनामुपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम् । उणादिनिष्पन्नानां तृन्तृजन्तानां चेद्भवति तर्हि नप्त्रादीनामेव ॥ तेन पितृभ्रातृप्रभृतीनां न । उद्गातृशब्दस्य तु भवत्येव । समर्थ (SK647) सूत्रे उद्गातार इति भाष्यप्रयोगात् । क्रोष्टा । क्रोष्टारौ । क्रोष्टारः । क्रोष्टारम् । क्रोष्टारौ । क्रोष्टून् ॥
Laghu Siddhanta Kaumudi¶
अबादीनामुपधाया दीर्घः असंबुद्धौ सर्वनामस्थाने। क्रोष्टा। क्रोष्टारौ। क्रोष्टारः। क्रोष्टून्॥
Balamanorama¶
अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतॄ- प्रशास्तॄणाम् - अप्तृन् । ‘नोपधायाः’ इत्यत ‘उपधाया’ इत्यनुवर्तते ।सर्वनामस्थाने चासंबुद्धौ॑ इति चकारवर्जमनुवर्तते । तदाह — अबादीनामिति । अत्र अष्टाध्यायां तावत् ‘तृन्’ इति सूत्रेण, ‘ण्वुल्तृचौ’ इति सूत्रेण च कर्तरि तृन्तृचौ विहितौ । तथा उणादिषुतृन्तृचौ शंसिक्षादादिभ्यः संज्ञायां चाऽनिटौ॑ ‘बहुलमन्यत्रापि’ इति सूत्राभ्यां तृन्तृचो विधाय,नप्तृनेष्ट्टत्वष्ट्टहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ॑ इति सूत्रेण नप्त्रादयो निपातिताः । ततश्च संज्ञाशब्दास्तृन्तृजन्ता औणादिका इति स्थितिः । तत्र तृजन्तत्वादेव सिद्धे नप्तार्दिग्रहणं व्यर्थमित्यत आह — नप्त्रादिग्रहणमिति । नियमशरीरमाह — उणादीति । तेनेति । औणादिकेषु नप्त्रादिसप्तानामेव तृन्तृजन्तानां दीर्घ इति नियमेव तदितरेषां पितृभ्रात्रादीनां न दीर्घ इति भावः । नच प्रशास्तृशब्द औणादिको न भवतीति भ्रमितव्यं, तस्यापि संज्ञाशब्दस्य शंसिक्षदादिगणप्रविष्टत्वेन ओणादिकत्वात् । अत्र मूले ‘व्युत्पत्तिपक्षे’ इत्युक्त्या अव्युत्पत्तिपक्षे नप्त्रादिसप्तानां तृन्तृजन्तत्वाऽभावादप्राप्तौ नप्त्रादिग्रहणमर्थवत् । तदितरपितृमात्रादिशब्दानां तु औणादिकानामव्युत्पन्नतया तृन्तृजन्तत्वाऽभावादेव न दीर्घ इति सूचितम् । नन्वेवं सति उद्गातृशब्दस्यापि संज्ञाशब्दस्य शंसिक्षदादित्वेन औणादिकत्वात्तस्य च नुप्त्रादिसप्तस्वनन्तर्भावात्कथं दीर्घ इत्यत आह — उद्गातृशब्दस्येति । ‘ण्वुल्तृचौ’ इति सूत्रस्थ भाष्ये तु ‘अप्तृ’ इत्येवास्तु, तृन्तृचोग्र्रहणं मास्त्विति प्रपञ्चितम् ।तृ॑न्निति भाष्ये तु तृन्विधौऋच्विक्षु चानुपसर्गस्ये॑ति वक्तव्यम् । होता । पोता । अनुपसर्गस्य किम् । प्रशास्ता । प्रतिहर्ता । औणादिकतृजन्त एवायम् ।नयतेस्तृन् वक्तव्यः षुक्च॑ । नेष्टा ।त्विषेर्देवतायां तृन् वक्तव्यः । अकारश्चोपधाया अनिट्त्वं च॑ । त्वष्टा ।क्षदेश्च युक्ते तृन् वक्तव्यः॑ । क्षत्ता । इत्येवं होतृपोतृनेष्टृत्वष्टृक्षत्तृशब्दास्तृन्नन्ता व्युत्पादिताः । तन्मते तु तेषां पञ्चानामिहग्रहणं प्रपञ्चार्थम् । नप्तृप्रशास्तृग्रहणमेवोक्तनियमार्थमित्यन्यत्र विस्तरः । क्रोष्टेति । क्रोष्टन् स् #इति स्थिते एकदेशाविकृतस्यानन्यतया तृजन्तत्वाद्दीर्घः । हल्ङ्यादिना सुलोपः । नलोपः । यद्यपिसर्वनामस्थाने चे॑त्येवात्र दीर्घः सिध्यति तथापि परत्वादप्तृन्नित्येव दीर्घो न्याय्यः । क्रोष्टाराविति । क्रोष्टु-औ इति स्थिते तृज्वद्भावः । क्रोष्टु-आ इति स्थिते ।
Padamanjari¶
आप इति । अप्शब्दस्य नित्यं बहुवचनान्तत्वाद् द्विवचनैकवचनयोरसम्भवः । बह्वाम्पीति । बहुव्रीहिः । अङ्गाधिकारे तस्य च तदुतरपदस्य चेति तदन्तविधिरभ्युपगतः । किं पुनरत्रेष्टव्यम्, न तावद् ऋक्पूरब्धूः इति प्राप्तस्य समासान्तस्याभावः इत्याह - तत्रेति । यत्पुनरेष्टव्यं तद्दर्शयति - नित्यमपीति । कृताकृतप्रसङ्गित्वान्नित्यो नुम् । जनापवादानिति । न लोकाव्यय इत्यादिना तृन्योगे षष्ठीप्रतिषेधात् कर्मणि द्वितीयैव भवति । एतच्च तृन्नन्तत्वाभिव्यक्तये प्रयुक्तम् , एतेन कटस्येतिव्याख्यातम् । तुरिष्ठेमेयस्सु, तुश्च्छन्दसि इतिवत् सामान्यनिर्द्देशे कर्तव्ये, तृन्तृचोर्नेदेनोपादाने प्रयोजनं चिन्त्यम् । अव्युत्पत्तिपक्षे इति । नावश्यं व्युत्पत्तिकार्यं भवतीत्येतद् अतः कृकमिकंस इत्यत्र कंसग्रहणाल्लभ्यते, ज्ञापकादिति भावः । व्युत्पत्तिपक्ष इति । नमेस्तृचि मकारस्य पकारः - नप्ता, नयतेस्तृनि षुक् गुणश्च - नेष्टा, त्विषेरच्चोपधायाः - त्वाष्टा क्षदेस्तृन्यनिट्त्वम् - क्षता होता, पोता - तृनेव प्रपूर्वाच्छासेस्तृच्, अनिट्त्वं च - प्रशास्ता । एवम्भूतानामिति । एवम्भूतानामिति । अस्यैव विवरणम् - संज्ञाशब्दानामिति ॥
Nyaas¶
आपः इति। अप्शब्दस्य बहुत्वादेकवचनद्विवचने न सम्भवत इति बहुवचनमुपन्यस्तम्। बह्वाम्पि इति। बहव आप एष्विति बहुव्रीहिः। तदन्तविधेरिष्टत्वात्? तदन्तस्यापि दीर्घत्वं भवति। तथा हि येन विधिस्तदन्तस्य (1.1.72) इत्यत्र सूत्रे कानि पुनरत्र प्रयोजनानि इति प्रश्ने इदमुक्तं प्रयोजनम् -महदपस्वसृनप्तृनेष्टृत्वष्टृ इति। कथं पुनरिष्यमाणोऽपि तदन्तविधिर्लभ्यते यावता ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते (व्या।पा।89)? नैष दोषः; सर्वनामस्थाने चासम्बृद्धौ (6.4.8) इत्यतश्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः। तेन तदन्तस्यापि दीर्घत्वं भविष्यति। केचित् इति वचनात्? केचिन्नेच्छन्तीत्युक्तम्। तन्मतेन बह्वम्पीत्येवं भवति। कस्मात्? पुनरत्र ऋक्पूरब्धूःपथामानक्षे (5.4.74) इत्यनेनाकारः समासान्तो न क्रियते? इत्याह -तत्र समासान्तो विधिरनित्यः इत्यादि। इयञ्च परिभाषा स्फिगपूतवीणाऽञ्जोऽध्वकुक्षिसीरनामनाम च (6.2.187) इत्यत्राध्वग्रहणेन ज्ञापिता। यथाध्वग्रहणं ज्ञापकं तथा तत्रैदोक्तम्। नन्वेवमपि बह्वाम्पीति नैव सम्भवति, तथा हि -बह्वप्+शि इति स्थितेऽनेन दीर्घत्वं प्राप्नोति, नपुसकस्य झलचः (7.1.72) इति नुम्? च, तत्र कृतकृतप्रङ्गित्वेन नित्यत्वात्? परत्वाच्च नुम्? कर्तव्यः, तस्मिन्? कृत उपधाया अदीर्घभाविनीत्वाद्दीर्घत्वं न प्राप्नोति? इत्यत आह -नित्यमपि च इत्यादि। नित्यमपीत्यपिशब्दात्? परमपि। कथं पुनरिष्यमाणं नुममकृत्वा दीर्घत्वं लक्ष्यते? वा षपूर्वस्य निगमे (6.4.9) इत्यतः पूर्वग्रहणानुवृत्तेः। तस्यैतदेव प्रयोजनम् -यदन्यत्? कार्यं प्राप्नोति तदकृत्वा दीर्घत्वमेव पूर्व कर्तव्यमिति। अन्यस्त्वाह -नपुंसकस्य झलचः (7.1.72) इति नुम्? विधीयते, नपुंसकञ्चार्थधर्मः, अर्थे च शब्दानुशासनेऽस्मिन्? कार्याभावान्नपुंसकामिधायी शब्दो नुम्विधावाश्रयणीयः। तञ्च शब्दं ग्रहीतुं प्रयोगोऽनुगमनीय इति नुमो बहिरङ्गत्वम्। अयं तु दीर्घः साक्षादप्शब्दमुच्चार्य विधीयमानो यथोच्चारितस्यैव क्रियमाणोऽल्पाश्रयत्वादन्तरङ्ग इति पूर्वं दीर्घः प्रवर्तते, पश्चान्नुमिति। एतच्चायुक्तम्, अनेन हि न्यायेन बह्वाम्पीति न सिध्येत्। एवदपि कैश्चिदिष्यते -अस्य च न्यायस्य साधारणत्वादिहापि पर्वमेव दीर्घत्वेन भवितव्यम्, पश्चान्नुमा। पूर्वस्मस्तु परिहारे न दोषः। ये हि बह्वम्पीतीच्छन्ति ते पूर्वग्रहणमिह नानुवर्तयन्ति। कर्तारः इति। तच्छीलादावर्थे तृन्निति ऋतो ङिसर्वनामस्थानयोः (7.3.110) इति गुणः। जनापवादान् इति। द्वितीयान्तस्यानुप्रयोगस्तृन्नन्ततां दर्शयितुम्। तृनो हि प्रयोगे न लोकाव्ययनिष्ठा (2.3.69) इत्यादिना षष्ठआं प्रतिषिद्धायाम्, द्वितीयैव भवति। एकवचनं नोदाहृतम्। तत्र ऋदुशनस्पुरुदंशोऽनेहसाञ्च (7.1.94) इत्यनङादेशे कृते नोपधायाः (6.4.7) सर्वनामस्थाने च (6.4.8) इत्यादिना दीर्घस्य सिद्धत्वात्। कटस्य इति षष्ठन्तस्यानुप्रयोगस्तृचोऽभिव्यक्तये। तस्य प्रयोगे कर्मणि षष्ठी भवति कर्त्तृ कर्मणोः कृति (2.3.65) इत्यनेन। अथ यथा तुरिष्ठेमेयस्सु (6.4.154) इत्यत्र तुरिति तृंस्तृचोर्यत्? समानं रूपं तस्यैव ग्रहणं कृतम्, न तु तयोर्भेदेन, ततेहापि किमर्थं न कृताम्? अर्वणस्त्रसावनञः (6.4.127) इत्यर्वादेशस्य तृशब्दस्य ग्रहणं मा भूदित्येवमर्थमिति चेत्, नैतत्? प्रयोजनम्; अर्थवद्ग्रहणपरिभाषयैव (व्या।प।1) हि तस्य ग्रहणं न भविष्यति। एवं तृंस्तृचोर्भेदेनोपादानमस्याः परिभाषाया अनित्यत्वज्ञापनार्थम्। तेन अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च प्रयोजयन्ति (व्या।प।129) इत्युपपन्नं भवति। अथ वा -सामान्यनिर्देशे क्वचिद्विशेष एव गृह्रते इति ज्ञापनार्थम्। तेन न कोपधायाः (6.3.37) इत्यत्र सामान्योक्तावपि तद्धितवुसम्बन्ध्येव ककारो गृह्रते, न ककारमात्रम्।अथ नप्त्रादीनां ग्रहणं किमर्थम्, यावता ते हि केचित्? तृजन्ता व्युत्पाद्यन्ते केचित्? तृन्नन्ताः। तत्र तृस्तृज्ग्रहणेनैव सिदधम्? इत्याह -नप्त्रादीनाम् इत्यादि। केचिदार्या नप्त्रादीन्यक्ष्युत्पन्नानि प्रातिपदिकानीच्छन्ति, केचिद्व्युत्पन्नानि। तत्रैषा व्युत्पत्तिः -नप्त्रिति नमेस्तृचि मकारस्य पकारो निपात्यते। नेष्ट्रति -नयतेस्तृचि षुक्? च। त्वष्ट्रिति -त्विषेस्तत्रैवाकार उप(धाया अनिट्त्वञ्च। क्षित्रिति -क्षदेस्तृच्। होतृपोत्रिति-जृहोतेः पुनातेश्च स एव। प्रशास्त्रिति -शासेः [तृन्तृचौ शंसिक्षदादिब्यः संज्ञायां चानिटौ -पं।उ।2।94] प्रपूर्वाच्छसिक्षदादिभ्यः संज्ञायां चानिट्त्वञ्चेति तृन्ननिट्त्वञ्च। तत्राव्युत्पत्तिपक्ष एषां तृन्तृजन्तत्वाभावात्? तृंस्तृज्ग्रहणेन ग्रहणं न भवतीति विध्यर्थ पृथगुपादानम्। व्युत्पत्तिपक्षे तु तृंस्तृजन्तादेव सिद्धे नियमार्थम् -एषामेव संज्ञाशब्दानां यथा स्यात्, अन्ये य एवम्भूताः संज्ञाशब्दास्तेषां मा भूदिति। तेन मातरौ मातरः इत्यादौ न भवति। अथ प्रशास्तृणामित्यत्र केन णत्वम्, रषाभ्याम् (8.4.1) इत्यादिनेति चेत्? न; यस्मात्? रषाभ्याम् इत्युच्यते, न च#आत्र रषौ स्तः। एवं तह्र्रेष निर्देशी ज्ञापयति -यतो विहितं णत्वं ततोऽन्यत्रापि भवतीति। तेन मातृणाम्? पितृणाम्, ग्रामणीः अग्रणोरित्यादौ णत्वं सिद्धं भवति। ततश्च रषाभ्यां णत्वे ऋवर्णाच्चचेति वक्तव्यम् (वा।946) न वक्तव्यं भवति॥
Praudhamanorama¶
नियमार्थमिति। अन्येषां संज्ञाशब्दानां मा भूदित्येतदर्थमित्यर्थः। क्रोष्टेति। अनङ्। हल्ङ्यदिलोपात्परत्वादुपधादीर्घः। स च ‘सर्वनामस्थाने च’ इत्यनेन यद्यपि लभ्यते तथापि परत्वात् ‘अप्तृन्’ इत्येव न्याय्यः। कृतेऽप्यनङि एकदेशविकृतस्यानन्यत्वेन तृच्त्वात्। अन्यथा गुणे कृतेऽपि दीर्घो न स्यादिति भावः।
Prakriyasarvasvam¶
अप्शब्दस्य तृन्तृजन्तयोः स्वस्रादीनामप्यसम्बुद्धौ सर्वनामस्थाने परे उपधादीर्घः स्यात् । ‘सर्वनामस्थाने च-’ (६-४-८) इति दीर्घे सिद्धेऽपि परत्वादस्योक्तिः । हल्ङ्यादिलोपः । नलोपः । क्रोष्टा । क्रोष्टृ औ ।।
Sudha¶
अप्तृन्निति । नोपधायाः**(6.4.7) इत्यत उपधाया इत्यनुवर्तते । **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति चकारवर्ज सर्वमनुवर्तते । तदाह - **अदादीनामिति । नप्ता - पौत्रो दौहित्रो वा, नेष्टा-अध्वर्युगणीय ऋत्विक् । पोता - ब्रह्मगणीय ऋत्विक्, होता-ऋग्वेदीय ऋत्विक्, प्रशास्ताऽपि - ऋत्विक्, इति बोध्यम् । क्रोष्टा । क्रोष्टुशब्दात्प्रथमैकवचने सावागते तस्य सर्वनामस्थानत्वात् तृज्वत् क्रोष्टुः**(7.1.95) इति तृजज्वद्भावे विहिते **ऋतो ङिसर्वनामस्थानयोः**(7.3.110) इति सर्वनामस्थानपरत्वात् गुणे प्राप्ते परन्त्वत्र **विप्रतिषेधे परं कार्यम्**(1.4.2) इत्यस्मिन् सूत्रे “इष्टवाची परशब्द” इति भाष्ये ध्वनितत्वात्पूर्वविप्रतिषेधं मत्वा **ऋदुशनस्पुरुदंसोऽनेहसां च**(7.1.94) इत्यनङि प्राप्ते **ङिच्च**(1.1.53) इत्यन्तादेशे विहिते ङकारस्येत्सञ्ज्ञायां लोपे च ‘क्रोष्टन् + सु’ इति जाते **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति सस्य लोपे **अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्**(6.4.11) इति सम्बुद्धिभिन्नसर्वनामस्थानपरत्वादुपधादीर्घत्वे **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नस्य लोपे च कृते “क्रोष्टा” इति रूपम् । **क्रोष्टारौ २ । ‘क्रोष्टु + औ’ इत्यत्र तृज्वत् क्रोष्टुः**(7.1.95) इति तृज्वद्भावे कृते **ऋतो ङिसर्वनामस्थानयोः**(7.3.110) इति गुणेन अकारे, तस्य **उरण् रपरः**(1.1.51) इति रपरत्वे च कृते “क्रोष्टर् औ” इति जाते **अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्**(6.4.11) इत्यनेनोपधाया दीर्घत्वे संयोगे च विहिते “क्रोष्टारौ” इति रूपम् । एवमेव क्रोष्टारः इति । **क्रोष्टारमिति । क्रोष्टुशब्दात् द्वितीयैकंवचनविवक्षायाम् अमि समागते तृज्वत् क्रोष्टुः**(7.1.95) इत्यनेन तृजन्तेन तुल्यत्वे कृते **अमि पूर्वः**(6.1.107) इति पूर्वरूपे प्राप्ते तं प्रबाध्य **ऋतो ङिसर्वनामस्थानयोः**(7.3.110) इति गुणे अकारे, कृते **उरण् रपरः**(1.1.51) इति रपरे च ‘क्रोष्ट् अर् अम्’ इति जाते **अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्**(6.4.11) इत्यनेनोपधाया दीर्घत्वे संयोगे च विहिते “क्रोष्टारम्” इति रूपम् । एवमेव “क्रोष्टारौ” इति बोध्यम् । **क्रोष्टून् इति । क्रोष्टुशब्दाच्छसि समागते शसोऽसर्वनामस्थानत्वात् क्रोष्टुशब्दस्य तृज्वद्भावे शसः शस्येत्सञ्ज्ञायां लोपे च **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वसवर्णदीर्घादेशे **तस्माच्छसो नः पुंसि**(6.1.103) इति सस्य नत्वे “क्राष्टून्” इति रूपं सम्पन्नम् ।
Sutra Prayogas¶
स्थ (भट्टिकाव्यम्): नसोरल्लोपः इत्यकारलोपः।