63116: नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ

Padacheda: नहि-वृति-वृषि-व्यधि-रुचि-सहि-तनिषु | S | 7 | 3 |

क्वौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

A long vowel is substituted for the final vowel of the preceding word, before the verbs 1. नह् 2. वृत् 3. वृष् 4. व्यध् 5. रुच् 6. सह् and 7. तन् when these roots take the affix क्वि।

Vasu English Translation

A long vowel is substituted for the final vowel of the preceding word, before the verbs 1. नह् 2. वृत् 3. वृष् 4. व्यध् 5. रुच् 6. सह् and 7. तन् when these roots take the affix क्वि। Thus उपानह् (उपानत् Nominative Singular), so also, परीणत्, नीवृत्, उपावृत्, (with vrt) प्रावृट्, उपावृट्, (with vrsh) ममावित्, हृदयावित्, श्वावित् (with vyadh) नीरुक्, अभीरुक्, (with ruch) ऋताषट्, (with sah) तरीतट् (with tan). The nasal is elided after गम् before क्वि (6.4.40), by an extension of that rule, it is elided after तम् also. Why do we say when क्वि follows? Observe परिणहनम् ॥

Bhashya

नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ (2975) (पूर्वपदादेशाधिकरणम्) (क्विग्रहणानर्थक्यबोधकभाष्यम्) किमर्थमञ्चतिनह्यादिषु क्विग्रहणं क्रियते । इह मा भूत् - समञ्चनम्, उपनहनम् । नैतदस्ति प्रयोजनम् । उत्तरपदे इति वर्तते । न चान्तरेण क्विपमञ्चतिनह्यादय उत्तरपदानि भवन्ति । तत्रान्तरेण क्विब्ग्रहणं क्विबन्त एव भविष्यति । तदादिविधिना प्राप्नोति । अत उत्तरं पठति - (6486 क्विब्ग्रहणस्य ज्ञापकत्वबोधकवार्तिकम् ॥ 1 ॥) - अञ्चतिनह्यादिषु क्विब्ग्रहणानर्थक्यं यस्मिन् विधिस्तदादावल्ग्रहणे - अञ्चतिनह्यादिषु क्विब्ग्रहणमनर्थकम् । किं कारणम् ? यस्मिन् विधिस्तदादावल्ग्रहणे । अल्ग्रहणेष्वेतद्भवति । न चेदमल्ग्रहणम् । एवं तर्हि सिद्धे सति यदञ्चतिनह्यादिषु क्विब्ग्रहणं करोति तज्ज्ञापयत्याचार्यः - अन्यत्र धातुग्रहणे तदाविधिर्भवतीति । किमेतस्य ज्ञापने प्रयोजनम् ? अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य इत्यत्र अयस्कृत् अयस्कार इत्यपि सिद्धं भवति ॥

Kashika

नहि वृति वृषि व्यधि रुचि सहि तनि इत्येतेषु क्विप्रत्ययान्तेषूत्तरपदेषु पूर्वपदस्य दीर्घो भवति संहितायां विषये। नहि — उपानत्। परीणत्। वृति — नीवृत्। उपावृत्। वृषि — प्रावृट्। व्यधि — मर्मावित्। हृदयावित्। श्वावित्। रुचि — नीरुक्। अभीरुक्। सहि — ऋतीषट्। तनि — परीतत्२। गमःक्वौ (६.४.४०) इति गमादीनामिष्यते। ततस्तनोतेरप्यनुनासिकलोपः। क्वाविति किम्? परिणहनम्॥

Siddhanta Kaumudi

क्विबन्तेषु एषु परेषु पूर्वपदस्य दीर्घः । उपानत् । नीवृत् । प्रावृट् । मर्मावित् । नीरुक् । अभीरुक् । ऋतीषट् । परीतत् । क्वौ इति किम् । परिणहनम् । विभाषा पुरुषे (SK1032) इत्यतो मण्डूकप्लुत्या विभाषानुवर्तते सा च व्यवस्थिता । तेन गतिकारकयोरेव । नेह । पटुरुक् । तिग्मरुक् ॥

Laghu Siddhanta Kaumudi

क्विबन्तेषु पूर्वपदस्य दीर्घः । उपानत्, उपानद् । उपानहौ । उपानत्सु ॥ क्विन्नन्तत्वात् कुत्वेन घः । उष्णिक्, उष्णिग् । उष्णिहौ । उष्णिग्भ्याम् ॥ द्यौः । दिवौ । दिवः । द्युभ्याम् ॥ गीः । गिरौ । गिरः ॥ एवं पूः ॥ चतस्रः ॥ चतसृणाम् ॥ का । के । काः । सर्वावत् ॥

Balamanorama

नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ - नहिवृति । उपानदिति । ‘णह बन्धने’ ‘णो नः’ सम्पदादित्वात्कर्मणि क्विप् । उपनह्रते इत्युपानत् । पूर्वपदस्य दीर्घः ।नहो धः॑ । निवर्तते इति नीवृत् । ‘वृतु वर्तने’ कर्तरि क्विप्, दीर्घः । प्रवर्षतीति प्रावृट् ।वृषु सेचने॑क्विप् । दीर्घः ।नहो धः॑ । निवर्तते इति नीवृत् । ‘वृतु वर्तने’ कर्तरि क्विप्, दीर्घः । प्रवर्षतीति प्रावृट् । ‘वृषु सेचने’ क्विप् । दीर्घः । मर्माणि विध्यतदीति मर्मावित् । क्विप् ।ग्रहिज्ये॑ति संप्रसारणम् । उपपदसमासः, सुब्लुक्, नलोपः, दीर्घः । निरोचते इचि नीरुक्,रुच दीप्तौ॑क्विप्, दीर्घः । ऋति सहते इति ऋतीषट् ।षह मर्षणे॑क्विप् । दीर्घः,हो ढः॑, ‘सात्पदाद्योः’ इति षत्वनिषेधे प्राप्तेपूर्वपदा॑दिति षत्वमिति हरदत्तः । सुषामादित्वादित्यपरे । परितनोतीति परीतत् । ‘तनु विस्तारे’ क्विप्, ‘गमः क्वौ’ इत्यत्र गमादीनामित्युपसङ्ख्यानादनुनासिकलोपः । तुक्, दीर्घः । अथ पटुरुक्, तिग्मरुगित्यादौ दीर्घमाशङ्क्याह विभाषेति । पटुरुगिति । पटु रोचत इति विग्रहः । उभयत्र कर्तरि क्विप् । पूर्वपदयोर्गतिकारकान्यतरत्वाऽभावान्न दीर्घः । व्यवस्थिविभाषाश्रयणे व्याख्यानमेव शरणम् ।

Tattvabodhini

नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ - नहिवृति ।णह बन्धने॑,वृतु वर्तने॑,॒वृषु सेचने॑,व्यध ताडने॑,रुच दीप्तौ॑,षह मर्षणे॑,तनुविस्तारे॑ । क्विबन्तोष्विति ।उत्तरपदेषु॑इति शेषः । तेनदिवसेषु रुक् इत्यादौ नातिप्रसङ्गः । उपानदिति । संपदादित्वात्कर्मणि क्विप् । निवर्तते इति निवृत् । प्रवर्षतीति प्रावृट् । मर्माणि विध्यतीति मर्मावित् । व्यधेःग्रहिज्ये॑ति संप्रसारणम् । निरोचते इति नीरुक् । ऋतिं सहते ऋतीषट् ।पूर्वपदा॑दिति षत्वमिति हरदत्तः ।सहेः पृतनतीभ्यां चे॑त्यत्रसहे॑रिति योगविभागाच्चकारस्यानुक्तसमुच्चयाद्वेत्यन्ये । सुषामादेराकृतिगणत्वादित्यपरे । परितनोतीति परीतत् ।गमः क्वौ॑इत्यत्रगमादीनामिति वाच्य॑मित्युक्तेर्नलोपः ।

Padamanjari

उपनह्यते इत्युपानत्, सम्पदादित्वात्कर्मणि क्वप्, नहो धः । परीणदिति । उपसर्गादसमासेऽपि णत्वम् । नीवृदीति । नीवृदादौ कर्तरि क्विप्, व्यधेर्ग्रहिज्यादिसम्प्रसारणम् । ऋतीषाहमिति । पूर्वपदात् इति षत्वम् । परीतदिति । अनुदातेति लोपस्य क्ङ्ज्झिल्निमितकत्वात् क्वौ च तदभावाद् गमादीनामितीत्यनुनासिकलोपे तुक् ॥

Nyaas

अप्राप्ते विभाषेऽयम् इति। ईषदर्थस्य निवृत्तत्वात्। ननु चानीषदर्थे केनचिदप्राप्ते, ईषदर्थे पूर्वेण प्राप्त इत्युभयत्र विभाषेऽयं युक्तेत्याह -ईषदर्थे तु पूर्वविप्रतिषेधेन इत्यादि। ईषदर्थे (6.3.105) इत्यस्यावकाश ईषन्मधुरं कामधुम्, विभाषा पुरुषे इत्यस्यावकाशः -कुत्सितः पुरुषः कापुरुष इति; इह चोभयं प्राप्नोति -ईषत्पुरुषः कापुरुष इति। अत्रेषदर्थ इत्यनेनैव भवति पूर्वविपरतिषेधेन॥

Prakriyasarvasvam

क्विबन्तेषु नहादिषु परेषु पूर्वस्याणो दीर्घः स्यात् । पदत्वे नहो धः । उपनह्यत इत्युपानत् । नीवृत् । प्रावृष् । पदत्वे पस्य जश्त्वचत्वे । प्रावृट् । विप्रुट् । संयत् । इणः तुक् । समित् । द्वे युद्धाख्ये । प्रभृत्युक्तेः समिध्यतेऽनयेति समित् । क्रुधियुधिक्षुधितृषित्विषिरुहिरुजिरुचिशुचिमुदिमृदिगृधादिभ्यश्च । कृत् क्रोधः । युत् युद्धम् । क्षुत् । तृट् । त्विट् । रुट् । रुग् रोगः । रुक् शोभा । शुक् । मुत् । मृत् । ऋत इत् । गिर् । पदत्वे गीः । त्राणमेव त्राः । ह्रीभीलूभूकृञ् भिदिच्छिदिनुदिदृशि- नशियुजिज्वरत्वरास्रिवृमवादिभ्यश्च । ह्रीः । भीः । लूः । भूः । करणं कृत् । भित् । छित् । नुत् दृश् । पदत्वे ‘त्यदादिषु दृशः—’ (३-२-६०) इति क्विन्प्रत्ययत्वात् ‘क्विन्प्रत्ययस्य कुः’ (८-२-६२) इति कुत्वम् । दृक् । छशां षः । नट् । योगो युक् । ज्वरादेरूठ् । जूः । तूः । ऊः । सूः । मूः । वेत्युक्तेः ह्रीतिर्भीतिरित्यादि । आद्युक्तेरूर्जेरूर्क् । ऋच्यतेऽनयेति ऋक् । आकृतिगणत्वात् सर्वधातुभ्य इत्यन्ये ।।

Sudha

उपानत् । णह – बन्धने । णो नः इति नत्वे उपनह्यते इति विग्रहे उपपूर्वात् सम्पदादित्वात् कर्मणि क्विप् । नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ इत्यादिना पूर्वपदस्य दीर्घः । उपानहशब्दः स्त्रीलिङ्गः, - ‘पादुका । पादूरुपानत्स्त्री’ इत्यमरः । कृदन्तत्वात्प्रातिपदिकसंज्ञायां सावागते “उपानह्+सु” इति स्थिते सोरुकारे गते ‘स्’ इत्यस्य हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इति लोपे नहो धः इति हकारस्य धत्वे झलां जशोऽन्ते इति धकारस्य दत्वे वाऽवसाने इति चर्त्वे ‘उपानत्’ इति । पक्षे - ‘उपानद्’ इति । उपानत्सु । “उपानह + सुप्” इत्यत्र पकारस्येत्संज्ञायां लोपे च नहो धः इति हस्य धत्वे झलां जशोऽन्ते इति धस्य दत्वे खरि च इति चर्त्वे ‘उपानत्सु’ इति रूपं सिद्धम् । उष्णिक् । उत्पूर्वात् ष्णिह् धातोः ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च इत्यादिना क्विनि तस्य सर्वस्य लोपे निपातनाद्दलोपषत्वे च निष्पन्नः – उष्णिह् शब्दः । कृदन्तत्वात्प्रातिपदिकसंज्ञायां सावागते तस्य हल्ङ्यादिना लोपे क्विन्प्रत्ययस्य कुः इति कुत्वेन हकारस्य घत्वे झलां जशोऽन्ते इति जश्त्वेन गत्वे वाऽवसाने इति चर्त्वेन वा कत्वे ‘उष्णिक्’ इति । पक्षे - ‘उष्णिग्’ इति । उष्णिग्भ्याम् । “उष्णिह् + भ्याम्” इत्यत्र क्विन्प्रत्ययस्य कुः इति कुत्वेन घत्वे तस्य जश्त्वे च कृते रूपम् । सुपि - ‘उष्णिक्षु’ इति । द्यौः । “दिव्+सु” इत्यत्र दिव औत् इति वकारस्य औकारे इको यणचि इति यणि सस्य रुत्वे रेफस्य विसर्गत्वे च ‘द्यौः’ इति सिद्धम् । द्युभ्याम् । “दिव्+भ्याम्” इत्यत्र दिव उत् इति वस्योत्वे इको यणचि इति यणि ‘द्यभ्याम्’ इति रूपं सिद्धम् । गीः । ‘गॄ-निगरणे’ क्विप् ॠत इद्धातोः इति इत्वम्, उरण् रपरः इति रपरत्वम् । गिर् शब्दात्सुयुत्पत्तिः, सोर्लोपः, र्वोरुपधाया दीर्घ इकः इति दीर्घे, रेफस्य विसर्गः, इति भावः । एवं पूरिति । गीर्वदित्यर्थः । ‘पृ-पालनपूरणयोः’ क्विप् उदोष्ठ्यपूर्वस्य इत्युत्वं रपरत्वम् । पुर् शब्दात् सोर्लोपः र्वोरुपधाया दीर्घ इकः इति दीर्घः, रेफस्य विसर्ग इति भावः । चतस्रः । “चतुर् + जस्” इत्यत्र त्रिचतुरोः स्त्रियां तिसृचतसृ इति चतुरशब्दस्य चतस्रादेशे विहिते जसो जकारस्य चुटू इतीत्संज्ञायां तस्य लोपः इति लोपे च अचि र ऋतः इति ऋकारस्य रेफत्वे, सस्य रुत्वे रेफस्य विसर्गत्वे च कृते ‘चतस्रः’ इति सिद्धम् । एवं शस्यपि - ‘चतस्रः’ इति । चतसृणाम् । “चतुर् + आम्” इति स्थिते त्रिचतुरोः स्त्रियां तिसृचतसृ इति चतस्त्रादेशे “चतस् + आम्” इति जाते अत्र अचि र ऋतः इति ऋकारस्य रेफादेशे प्राप्ते <!नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन!> इति पूर्वविप्रतिषेधेन तं बाधित्वा ह्रस्वनद्यापो नुट् इति नुटि, उटि गते टित्त्वादाद्यावयवे जाते “चतसृ + नाम्” इति स्थिते नामि इति दीर्घ प्राप्ते न तिसृचतसृ इति निषिद्धे <!ऋवर्णान्नस्य णत्वं वाच्यम्!> इति णत्वे ‘चतसृणाम्’ इति रूपं सिद्धम् । का ।”किम् + सु” अत्र ‘किमः कः’ इति कादेशे अनेकाल्शित्सर्वस्य इति सर्वस्य स्थाने जाते अजाद्यतष्टाप् इति टापि चुटू इति टकारस्य हलन्त्यम् इति पकारस्य चेत्संज्ञायां तस्य लोपः इति लोपे अकः सवर्णे दीर्घः इति दीर्घादेशे ‘का सु’ इति भूते उकारस्य उपदेशेऽजनुनासिक इत् इति इत्सज्ञायां तस्य लोपः इति लोपे हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इति स् लोपे ‘का’ इति सिद्धम् । के । “किम् + औ” इत्यत्र ‘किमः कः’ इति कादेशे अजाद्यतष्टाप् इति टापि टकारपकारयोरित्संज्ञायां लोपे च अकः सवर्णे दीर्घः इति दीर्घे औङ आपः इति ‘शी’ आदेशे शकारस्येत्संज्ञायां लोपे च आद्गुणः इति गुणे ‘के’ इति रूपम् । काः। “किम् + जस्” अत्र कादेशे टापि, सवर्णदीर्घे, रुत्वे विसर्गे च रूपम् । सर्वावदिति । सर्वाशब्दवदित्यर्थः ।

Sutra Prayogas

  • तुरासाहं (कुमारसम्भवम्): नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ इति पूर्वपदस्य दीर्घः।

  • परस्यमर्मविधमुज्झतां (शिशुपालवधम्): नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ इति पूर्वस्य दीर्घः।

  • मृगावित् (भट्टिकाव्यम्): नहि वृति इत्यादिना दीर्घः।

  • मर्मा-विद्रामो (भट्टिकाव्यम्): नहि-वृति इत्यादिना पूर्वपदस्य दीर्घत्वम्।

  • हृदयाविधम् (भट्टिकाव्यम्): नहि - वृति इति पूर्वपदस्य दीर्घः।

  • मर्मा-विद्भिस् (भट्टिकाव्यम्): नहि-वृति इति।