63097: द्व्यन्तरुपसर्गेभ्योऽप ईत्

Padacheda: द्वि-अन्तर्-उपसर्गेभ्यः | S | 5 | 3 |

अपः | S | 6 | 1 |

ईत् | S | 1 | 1 |

Sutrartha


Vasu English Summary

After 1. द्वि 2. अन्तर and prepositions, long ई is the substitute of अप्।

Vasu English Translation

After 1. द्वि 2. अन्तर and prepositions, long ई is the substitute of अप्। By (1.1.54), ई replaces the first-letter of अप् viz अ only. Thus द्वीपः, अन्तरीपः, नीपम्, वीपम्, समीपम् ॥ The samasanta अ is added by (5.4.74).

Vart:- Prohibition should be stated with regard to समाप ॥ समापं नाम देवयजनम् ॥ Others say after a Preposition in अ, the long ई substitution does not take place. Thus प्रापम्, परापम् ॥ The word upasarga strictly speaking denotes adverbs, and cannot be applied to nouns like अप्; here however, this word is used in a loose sense in the sutra. It means प्र &c.

Bhashya

द्व्यन्तरुपसर्गेभ्योऽप इर्त् (2956) (6488 प्रतिषेधोपसंख्यानवार्तिकम् ॥ 1 ॥) - समाप इर्त्वप्रतिषेधः - समाप इर्त्वप्रतिषेधो वक्तव्यः । समापं नाम देवयजनम् ॥ अपर आह - इर्त्वमनवर्णादिति वक्तव्यम् । समीपम्, अन्तरीपम् । इह मा भूत् - प्रापम्, परापम् ॥

Kashika

द्वि अन्तरित्येताभ्यामुपसर्गात् चोत्तरस्याबित्येतस्य ईकारादेशो भवति। द्वीपम्। अन्तरीपम्। उपसर्गात् — नीपम्। वीपम्। समीपम्॥ समाप ईत्वे प्रतिषेधो वक्त व्यः॥ समापं नाम देवयजनम् (काठ०सं० २५.२)। अपर आह — ॥ ईत्वमनवर्णादिति वक्त व्यम्॥ इह मा भूत् — प्रापम्। परापम्। अप्शब्दं प्रति क्रियायोगाभावाद् उपसर्गग्रहणं प्राद्युपलक्षणार्थम्॥

Siddhanta Kaumudi

अप इति कृतसमासान्तस्यानुकरणम् । षष्ठ्यर्थे प्रथमा । एभ्योऽपस्य ईत्स्यात् । द्विर्गता आपो यस्मिन्निति द्वीपम् । अन्तरीपम् । प्रतीपम् । समीपम् । समापो देवयजनमिति तु समा आपो यस्मिन्निति बोध्यम् । कृतसमासान्तग्रहणान्नेह । स्वप् । स्वपी ।<!अवर्णान्ताद्वा !> (वार्तिकम्) ॥ प्रेपम् । परेपरम् । प्रापम् । परापम् ॥

Balamanorama

द्व्यन्तरुपसर्गेभ्योऽप ईत् - द्व्यन्तरुप । कृतसमासान्तस्येति । अकारप्रत्ययान्तस्येत्यर्थः । एभ्य इति । द्वि अन्तर् उपसर्ग-एतेभ्य इत्यर्थः । अपस्येति । अकारप्रत्ययान्तस्याऽप्शब्दस्येत्यर्थः । ईत्स्यादिति ।आदेः परस्ये॑ति परिभाषया आदेरकारस्येत्यर्थः । द्वयोर्गता इति । द्वयोः पार्सयोर्गता आपो यस्मिन्निति विग्रहः । व्यधिकरणपदो बहुव्रीहिः । अकारप्रत्ययः,ईत्त्वं, सवर्णदीर्घश्च । अन्तरीपमिति । अन्तर्गता आपो यस्मिन्निति विग्रहः । प्तीपमिति । प्रतिकूला आपो यस्मिन्निति विग्रहः । उपसर्गात्परत्वादीत्त्वम् । समीपमिति । सङ्गता आपो यस्मिन्निति विग्रहः । उपसर्गात्परस्योदाहरणान्तरमिदम् । समापो देवयजनमिति । श्रुतिरेषा । अत्र उपसर्गात्परत्वाऽभावादीत्त्वं नेति भावः । देवा इज्यन्ते यस्मिन्निति देवयजनं यज्ञभूमिः । ‘समाप’ इति पुंस्त्वं छान्दसम् । भाष्ये तुसमाप ईत्त्वं ने॑त्युक्त्वा समापं नाम देवयजनमित्युदाहृतम् । तत्र समापशब्दो देवयजनविशेषवाच्येव विवक्षितः,समीपसमृद्धी॑ति निर्देशात्,समीप॑मिति भाष्ये उदाहरणाच्च । स्वविति । शोभना आपो यस्येति विग्रहः ।न पूजना॑दिति समासान्तनिषेधः । अकृतसमासान्तत्वादीत्त्वं न । स्वपी इति । प्रथम#आद्विवचनमिदम् । अवर्णान्ताद्वेति । अवर्णान्तादुपसर्गात्परस्याऽपस्य ईत्त्वं वा वक्तव्यमित्यर्थः । प्रेपं प्रापमिति । प्रगता आपो यस्येति विग्रहः । परेपं परापमिति । परागता आपो यस्येति विग्रहः ।

Tattvabodhini

द्व्यन्तरुपसर्गेभ्योऽप ईत् - कृतसमासान्तस्येति ।येन विधि॑रिति सूत्रेआपस्तिष्टन्ति स्वापस्तिष्ठन्ती॑ति भाष्यादिति भावः । अन्तरीपमित्यादि । अन्तर्गताः, प्रतिकूलाः, सङ्गताश्चपो अस्मिन्निति विग्रहः । उपसर्गग्रहणं प्रादेरुपलक्षणार्थम् । समाप इति । अनुपसर्गत्वान्नेत्वमिति भावः । भाष्ये तुसमाप ईत्वप्रतिषेधो वक्तव्यः॑इत्युक्तम् । स च देवयजनरूपविशेषार्थपरःसमीपसमृद्धी॑ति निर्देशात्,समीपे॑मिति भाष्योदाहरणाच्चेति ज्ञेयम् । देवयजनमिति । देवा इज्यन्ते अस्मिन्निति व्युत्पत्त्या यज्ञभूमिः । स्वबिति ।न पूजना॑दिति समासान्ताऽभावः ।अवर्णान्ताद्वा । अवर्णान्ताद्वेति ।व्द्यन्त॑रिति सूत्रेईत्वमनवर्णा॑दिति वक्तव्यम् । इह माभूत्प्रापं पराप॑मिति भाष्योक्तेः,गतिश्चे॑ति सूत्रेप्रेपं परेप॑मिति भाष्योक्तेश्चेति भावः ।

Padamanjari

उदाहरणेषु द्विर्गता आपोऽस्मिन्नित्यादिविग्रहः, ऋक्पूब्धूः इत्यकारः समासान्तः । समापं नामेति । ईत्वे प्रतिषिद्वे अन्येषामपि दृश्यते इत्यकारस्य दीर्घः । अपर आह - समशब्दस्यात्र प्रयोगः, समा आपोऽस्मिन्निति समाप इति । अप्शब्दं प्रतीत्यादि । इह यत्क्रिंयायुक्ताः प्रादयस्तं तेषामुपसर्गत्वम्, अप्शब्दश्च न क्रियावचनः, तस्माद्यस्य प्रादेरन्यत्रोपसर्गत्वं तदुपलक्षणार्थमुपसर्गग्रहणं विज्ञायते ॥

Nyaas

सतीर्थ्यः इति। पूर्ववत्? कर्मधारयं कृत्वा तद्धितः कर्तव्यः। समाने तीर्थे वसतीति सतीर्थ्यः॥

Prakriyasarvasvam

एभ्यः परस्याप आदेरीत् स्यात् । द्विर्गता आपोऽस्मिन्निति द्वीपम् । अन्तर्हिता आपोऽत्रेत्यन्तरीपम् । प्रतीपम् । समीपम् । <karika>एतौ प्रतिमुखापञ्च तीरं सन्निहिताम्बु च । आचक्षाणौ लक्षणया विरोध्यन्तिकवाचिनौ ॥ ४११ ॥ नावर्णादीत्वमित्येके परापं प्रापमित्यतः । यज्ञदेशः समापाख्यः समशब्दात्तु सिध्यति ॥ ४१२ ॥</karika>

Vartika

अवर्णान्ताद्वा ।

Sutra Prayogas

  • प्रतीपनाम्नीः (शिशुपालवधम्): द्व्यन्तरुपसर्गेभ्योऽप ईत् इतीकारः।