63096: सध मादस्थयोश्छन्दसि

Padacheda: सध | S | | | 1

माद-स्थयोः | S | 7 | 2 |

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

सध is substituted for सह in the छन्दस् (Vedas) when माद and स्थ follow.

Vasu English Translation

सध is substituted for सह in the छन्दस् (Vedas) when माद and स्थ follow. Thus सधमादोद्युम्न्य एकास्ताः, सधस्थाः ॥ Another example is आत्वा वृहन्तो हरयो युजाना, अर्वागिन्द्र सधमादो वहन्तु (Rig III.3.7) सहमाद्यन्ति देवा अस्मिन् ॥

Kashika

छन्दसि विषये माद स्थ इत्येतयोरुत्तरपदयोः सहस्य सध इत्ययमादेशो भवति। स॒ध॒मादो॑ द्यु॒म्निनी॒रापः (मा०सं० १०.७)। स॒ध॒स्थाः॒ (तै०सं०५.७.७.१)॥

Siddhanta Kaumudi

सहस्य सधादेशः स्यात् । इन्द्र चास्मिन्सधमादे (इन्द्र॑ चा॒स्मिन्स॑ध॒मादे॑) । सोमः सधस्थम् (सोमः॑ स॒धस्थ॑म्) ॥

Balamanorama

सध मादस्थयोश्छन्दसि - विष्वग्देवयोश्च । ‘अद्रि’ इति लुप्तप्रथमाकम् । अनयोरिति । विष्वग्देवशब्दयोरित्यर्थः । सर्वनाम्न इति । चकारेण ‘आ सर्वनाम्नः’ इत्यतस्तदनुकर्षादिति भावः । अप्रत्ययान्ते इति । सूत्रे अप्रत्यय इत्यत्र नित्यमश्रूयमाणत्वादविद्यमानः प्रत्ययः क्विबादिर्यस्मादिति बहुव्रीह्राश्रयणादिति भावः । प्रकृते अदसष्टेरद्रआदेशमुदाहृत्य दर्शयति — अदद्रि अञ्चिति स्थिते इति । अद्रआदेशोऽयमनिदितामिति नलोपे कृते प्रवर्तते, नलोपस्य परत्वादिति बोध्यम् । यणिति ।रेफादिकारस्ये॑ति शेषः । अदद्रचित्यतः सुबुत्पत्तिः । अदसो । अदसः, असेः, दात्, उ, दः, म इति च्छेदः । ‘अदस’ इत्यवयवषष्ठन्तम् ।असे॑रिति तद्विशेषणम् । न विद्यते सिर्यस्य स असिः तस्येति विग्रहः । इकार उच्चारणार्थः । दादिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्यम् ।

Padamanjari

सधमादो द्यौम्नि इति केचिदाहुः । अस्मिन्मन्त्रेद्यौम्निरित्यादिकमपां विशेषणम्, सधमाद इत्यपि तत्समानाधिकरणं शसन्तम्, मादयतेः क्विबन्तस्य रुपम्। मादः च्छन्दसि सधादेशो दृश्यते बहुलम् - आ त्वा वृहन्तो हरयो युजानाः, अर्वागिन्द्रसघमादो वहन्तु इत्यादावपीति । अपर आह - मदनं मादः, मदोऽनुपसर्गे इत्यपि प्राप्ते छान्दसो घञ्, तेन सह वर्तत इति सधमाद इति । रेवतीस्थः सधमादः इत्यादौ तु सधमादौ यज्ञः, सह माद्यन्ति देवा अस्मिन्निति कृत्वा ॥

Nyaas

चरणशब्दोऽयमध्ययननिमित्तमुपादाय पुरुषादिषु वर्तते। ब्राहृआ चरतीति ब्राहमचारी, व्रते (3.2.80) इति णिनिः। सब्राहृचारी इति। पूर्ववत्? कर्मधारयः। सब्राहृचारीत्यस्यायमर्थोऽभिमतः - समाने ब्राहृणि व्रतं चरतीति। एष चात्रार्थो यथोपपद्यते, तथा दर्शयितुमाह - ब्राहृ वेदः इत्यादि। तदध्यनार्थ यद्व्रतं तदपि ब्राह्रेति। तादथ्र्यात्? ताच्छब्द्यम्, यथा - इन्द्रार्था स्थूणा इन्द इति। तच्चरतीति तत्? सम्पादयति, परिपालयतीत्यर्थः। केन पुनरसौ समानः? इत्याह - समानस्तस्यैव इत्यादि। तस्यैवेति वेदाख्यस्य ब्राहृणः। इतिकरणो हेतौ। यत एव मुपचारेण लब्धब्राहृव्यपदेशं व्रतं यश्चरति ब्राहृणश्च समानत्वादयः समानः स सब्राहृचारी। तेन सबहृचारीत्यस्यायमर्थो भवति - समाने ब्राहृणि व्रतचारीति। यदि ह्रसमाने ब्राहृणि व्रतं चरेत्? तदा समानत्वं न स्यात्। तथापि ब्राहृआख्यं व्रतं न चरेदेवमपि ब्राहृचारित्वं न स्यात्। तस्माद्यः समाने ब्राहृणि ब्राहृचारी, सोऽवश्यं समाने ब्राहृणि व्रतचारीति भवति। सब्राहृचारीत्ययमस्यर्थः सम्पदयते - समाने ब्राहृणि व्रतचारीति। अथ वा - तस्यैवेत्युपचारेण लब्धब्राहृव्यपदेशस्य व्रतस्यात्र पक्षे परमर्शः। समाने ब्राहृणि इत्यत्र ब्राहृशब्दो वेदे वर्तते, प्रतिवेदं हि भिद्यते, तदध्ययनार्थं यद्व्रतं तत्र यः समाने वेदेऽध्येतव्ये व्रतं चरति स एव सब्राहृचारीत्युच्यते॥ बाल-मनोरमाज्योतिर्जनपदचरणे ब्राहृचारिणि 998, 6.3.96 ज्योतिर्जनपद। अच्छन्दोऽर्थं वचनमिदम्। सज्योतिरिति। समानं ज्योतिर्यस्येति विग्रहः। एवं सजनपद इत्यादीति। सरात्रिः, सनाभिः, सनामा, सगोत्रः, सरूपः, सस्थानः, सवर्णः सवयाः, सवचनः, सबन्धुः। बाल-मनोरमाचरणे ब्राहृचारिणि 999, 6.3.96 चरणे ब्राहृचारिणि। समानस्येति स इति चानुवर्तते। उत्तरपदे इत्यधिकृतम्। तदाह - ब्राहृचारिण्युत्तरपदे समानस्य सः स्यादिति। चरणे इति सप्तमी समानस्येत्यत्राऽन्वेति। चरणे विद्यमानस्येत्यर्थः। फलितमाह - चरणे समानत्वेन गम्यमाने इति। तत्र चरणपदं व्याचष्टे - चरणः शाखेति। वैदिकप्रसिद्धिरेवात्र मूलम्। ब्राहृचारिपदं निर्वक्तुमाह - ब्राहृ वेद इति। वेदस्तत्त्वं तपो ब्राहृए`त्यमरः। तच्चरणार्थमिति। तस्य=वेदस्य, चरणम्ध्ययनं तच्चरणं, व्रतमपि ब्राहृशब्देन विवक्षितमित्यर्थः। गौण्या वृत्त्ये`ति शेषः। तच्चरतीति। तद्व्रतं चरति=अनुतिष्ठतीत्यर्थे ब्राहृचारिशब्द इत्यर्थः। `सुप्यजातौ इति णिनिः। समानस्य स इति। `समानो ब्राहृचारी`ति कर्मधारये सति प्रकृतसूत्रेण समानस्य सभावे सति `सब्राहृचारी`ति रूपमित्यर्थः। समानत्वं च वेदद्वारा बोध्यम्। तथाच समानवेदाध्ययनार्थं व्रतचारीति फलितोऽर्थः। भाष्ये तु समाने ब्राहृणि व्रतं चरतीत्यर्थे चरेर्णिनिव्र्रतशब्दस्य लोपश्चाऽत्र निपात्यत इत्युक्तम्।

Prakriyasarvasvam

घञन्ते मदौ क्विबन्ते वा मादयतौ स्थे च परे सहस्य सध स्यात् । रेवतीर्न सधमादे । मदेरपि प्राप्ते निपातनाच्छान्दसो वा घञ् । सह माद्यन्त्यत्रेति सधमादो यज्ञः । क्विपि णिलोपे अर्वागिन्द्र सधमादो वहन्तु । यो अस्कभायदुत्तरं सधस्थम् । सह तिष्ठन्त्यत्रेति घञर्थे कः ।