63047: द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः

Padacheda: द्वि-अष्टनः | S | 6 | 1 |

संख्यायाम् | S | 7 | 1 |

अबहुव्रीहि-अशीत्योः | S | 7 | 2 |

Sutrartha

द्वि-शब्दस्य अष्टन्-शब्दस्य च सङ्ख्याशब्दे परे आकारादेशः भवति । परन्तु ‘अशीतिः’ शब्दस्य विषये, तथा च बहुव्रीहिसमासे अयमादेशः न भवति ।

यस्मिन् समासे उत्तरपदम् सङ्ख्यावाची शब्दः अस्ति, तस्मिन् समासे पूर्वपदस्थस्य द्विशब्दस्य अष्टन्-शब्दस्य च आकारादेशः भवति । परन्तु, यदि उत्तरपदम् ‘अशीति’ इति अस्ति तर्हि एतादृशः आदेशः न भवति । तथा च यदि अयं समासः बहुव्रीहिसमासः अस्ति तर्हि अपि एतादृशः आदेशः न भवति । उदाहरणानि एतानि - 1) ‘द्वौ च दश च’ इत्यर्थे ‘द्वि + दशन्’ इत्यत्र अयं द्वन्द्वसमासः भवति, अतः अत्र ‘द्वि’ इत्यत्र इकारस्य आकारादेशं कृत्वा द्वादशन् इति रूपं सिद्ध्यति । तथेैव, ‘अष्ट + विंशति’ इत्यत्रापि अष्टाविंशतीति रूपं सिद्ध्यति । 2) द्वि + अशीति इत्यत्र तु आकारादेशः न भवति, यतः अस्मिन् सूत्रे ‘अबहुव्रीह्यशीत्योः’ इति निर्दिष्टमस्ति । अतः अत्र यणादेशं कृत्वा ‘द्व्यशीति’ इति रूपं सिद्ध्यति । 3) ‘द्वौ त्रयः यस्य’ इत्यस्मिन् अर्थे ‘द्वि + त्रि’ अयं बहुव्रीहिसमासः सिद्ध्यति । अत्रापि ‘अबहुव्रीह्यशीत्योः’ इति निर्देशत्वात् द्वि-शब्दस्य आकारादेशः न भवति, अतः द्वित्राः इति रूपं सिद्ध्यति । अत्र एकं वार्तिकमपि ज्ञातव्यम् - <!प्राक्शतादिति वक्तव्यम् !> । इत्युक्ते, अयमाकारादेशः शतम् (100) इत्यस्मात् पूर्वमेव भवति । अतः द्विशतम्, अष्टशतम् इत्यत्र आकारादेशः न जायते ।

Sutrartha (English)

The words द्वि and अष्टन् get an आकारादेश in presence of a सङ्ख्याशब्द, provided that there is no बहुव्रीहि समास and the word अशीति is not present.

Vasu English Summary

आत् (आ) is substituted for the final of द्वि and अष्टन् when another numeral follows but not in a बहुव्रीहि समास or before आशीतिः।

Vasu English Translation

आत् (आ) is substituted for the final of द्वि and अष्टन् when another numeral follows but not in a बहुव्रीहि समास or before आशीतिः। Thus द्वादश, द्वाविंशतिः, द्वात्रिंशत्, अष्टादश, अष्टाविंशतिः, अष्टात्रिंशत् ॥ Why do we say द्वि and अष्टन् ॥ Observe पञ्चदश ॥ Why do we say ‘when followed by a Numeral’? Observed द्वै मातुरः, अष्टमातुरः ॥ Why do we say ‘not when the compound is a Bahuvrihi, or the word अशीति follows’? Observe द्वित्राः, त्रिदशाः, द्व्यशीतिः ॥

Vart:- This rule applies upto one hundred. Therefore not here, द्विशतम्, द्विसहस्रम्, अष्टशतम्, अष्टसहस्रम् ॥

Bhashya

द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः (2906) (मर्यादाकरणभाष्यम्) प्राक्शतादिति वक्तव्यम् । इह मा भूत् - द्विशतम्, अष्टशतम्, द्विसहस्रम्, अष्टसहस्रम् ॥

Kashika

द्वि अष्टन् इत्येतयोराकारादेशो भवति संख्यायामुत्तरपदेऽबुहव्रीह्यशीत्योः। द्वादश। द्वाविंशतिः। द्वात्रिंशत्। अष्टादश। अष्टाविंशतिः। अष्टात्रिंशत्। द्व्यष्टन इति किम्? पञ्चदश। संख्यायामिति किम्? द्वैमातुरः। आष्टमातुरः। अबहुव्रीह्यशीत्योरिति किम्? द्वित्राः। द्विदशाः। द्व्यशीतिः॥ प्राक् शतादिति वक्तव्यम्॥ इह मा भूत् — द्विशतम्। द्विसहस्रम्। अष्टशतम्। अष्टसहस्रम्॥

Siddhanta Kaumudi

आत्स्यात् । द्वौ च दश च द्वादश । द्व्यधिका दशेति वा । द्वाविंशतिः । अष्टादश । अष्टाविंशतिः । अबहुव्रीह्यशीत्योः किम् । द्वित्राः । द्व्यशीतिः ।<!प्राक्शतादिति वक्तव्यम् !> (वार्तिकम्) ॥ नेह । द्विशतम् । द्विसहस्त्रम् ॥

Laghu Siddhanta Kaumudi

आत्स्यात्। द्वौ च दश च द्वादश। अष्टाविंशतिः॥

Balamanorama

त्रेस्त्रयः - त्रेस्त्रयः । सन्धिवेलादिषु त्रयोदशीति पाठात्सकारान्तोऽयमादेश इत्याह — त्रयस्स्यादिति । पूर्व विषये इति । प्राक्शतात्सङ्ख्याशब्दे उत्तरपदे परतो, न तु बहुव्रीह्रशीत्योरित्यर्थः । त्रयोदशेति । त्रयश्च दश चेति, त्र्यधिका दशेति वा विग्रहः । सुब्लुकि त्रिशब्दस्य त्रयस्, रुत्वम्, उत्वम्, आद्गुणः । एवं त्रयोविंशतिरित्यपि । त्रिदशा इति । त्रिरावृत्ता दशेत्यर्थः ।बहुव्रीहौ सह्ख्येये डच् इति डच् । नन्वत्र त्रिरित्यस्यसङ्ख्यायाः क्रियाभ्यावृत्तिगणने कुत्वसुच्द्वित्रिचतुभ्र्यः सुच् इति सुजन्तत्वात्समासेऽपि सुचः श्रवणापत्तिरित्यत आह — सुजर्थे बहुव्रीहिरिति । सुजर्थे क्रियाभ्यावृत्तौ लक्षणया विद्यमानस्य त्रिशब्दस्यैवात्रसङ्ख्ययाव्यये॑ति बहुव्रीहिर्न तु सुजन्तस्येत्यर्थः । त्र्यशीतिरिति । त्रयश्चाऽशीतिश्चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । त्र्यधिकाऽशीतिरिति वा । त्रिशतमिति । त्र्यश्च शतं चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । त्र्यधिकाऽसीतिरिति वा । त्रिशतमिति । त्रयश्च शतं चेति समाहारद्वन्द्वः, त्र्यधिकं शतिमिति वा । एवं त्रिसहरुआमित्यपि ।

Tattvabodhini

त्रेस्त्रयः - त्रेस्त्रयः । सन्धिवेलादिषु त्रयोदशीति पाठात्सान्तोऽयमादेशः इति ध्वनयन्नाह -त्रयस्स्यादिति । सुजर्थे बहुव्रीहिरिति ।संङ्ख्यायाव्यये॑त्यादिने ति शेषः ।षष उत्वं दतृदशधासूत्तरपदादे[#ः]ष्टुत्वं च, धासु वेति वाच्यम् । षोडन्निति । षड् दन्ता अस्य षोडन् ।वयसि दन्तस्ये॑ति दत्रादेशः ।

Padamanjari

अत्र संख्यातानुदेशो न भवति । यदि स्याद्, अष्टनोऽशीतौ प्रतिषेधः स्यात्, तथा च तस्य वैयर्थ्यम् । प्रतिषिद्धेऽप्यात्वे सवर्णदीर्घत्वेन भवितव्यम् । द्वादश, द्वाविशतिरित्यादौ समाहारे द्वन्द्वः । स नपुंसक्म् इत्येत्त्उ न भवति लोकाश्रयत्वाल्लिङ्गस्य । द्वित्रा इति । द्वौ वा त्रयो वेति वार्थे संख्ययाव्ययासन्न इति समासः, बहुव्रीहौ संख्येये डच् । द्विर्दश द्विदशाः । सुजर्थे समासः ॥

Nyaas

संख्यातानुदेशोऽत्र न भवति। यदि हि स्यादष्टनोऽशीतौ प्रतिषेधः स्यात्, तथा च तस्य वैयथ्र्यं स्यात्। प्रतिषिद्धे ह्रात्त्वे सवर्णदीर्घत्वेन भवितव्यम्। अल्पाच्तरत्वाच्चाशीतिशब्दस्य पूर्वनिपातेकर्तव्ये परनिपातेन लक्षणव्यभिचारचिह्नेन सख्यातानुदेशाभावः सूचितः। द्वादश इति। द्वौ च दश चेति द्वन्द्वः। अथ वा द्वाभ्यामधिकादशेति समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च` (वा।83) इत्युत्तरपदलोपी तत्पुरुष समासः। एवं द्वाविंशतिः इत्यादावपि वेदितव्यम्। द्वौमातुरः इति। द्वयोर्मात्रोरपत्यमिति विगृह्र तद्धितार्थे समासः, ततः मातुरुत्संख्यासम्भद्रपूर्वायाः (4.1.115) इत्यण्; उकारश्चान्तादेशः। द्वित्राः इति। द्वौ वा त्रयो वेति विगृह्र सङ्ख्ययाव्यय (2.2.25) इत्यादिना बहुव्रीहिः, बहुव्रीहौ संख्येये (5.4.73) इत्यादिना डच्? समासान्तः, टिलोपः। द्विदशाः इति। पूर्ववड्डच्, बहुव्रीहिः। द्विर्दशेति विग्रहः। सुबर्थेऽयं समासः। अत्र हि दशसम्बन्धिन्यावृत्तिर्दशशब्देन लक्ष्यमाणा द्विशब्देन संख्यायते। तेन द्वौ दशकावित्ययमर्थो वेदितव्यः। समासः सुबर्थं गमयितुं समर्थ इति वृत्तौ सुज्? न प्रयुज्यते। द्व्यशीतिः इति। पूर्ववद्द्वन्द्वः; उत्तरपदलोपी वा तत्पुरुषः। प्राक्? शतात् इत्यादि। शतात्? प्रागया संख्या तद्वाचिन्युत्तरपदे द्व्यष्टन आत्त्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - विभाषा चत्वरिंशत (6.3.48) इत्यत्र वक्ष्यमाणविभाषाग्रहणं सिंहावलोकिनतन्यायेनेहाप्युपतिष्टते, सा च व्यवस्थितविभाषा। तेन प्राक्? शताद्या संख्या तद्वाचिन्यत्तरपदे भविष्यति। शतादिवाचिनि तु न भविष्यति। एवमुत्तरयोरपि योगयोः प्राक्शतात्? कार्यं भवतीति वेदितव्यम्।

Prakriyasarvasvam

संख्यायामुत्तरपदे द्व्यष्टनोरात् स्यात् । द्व्यधिका दश द्वादश । शाकपार्थिवादिः । एवं द्वाविंशतिः । द्वात्रिंशत् । अष्टादश । अष्टाविंशतिः । अष्टात्रिंशत् । बहुव्रीह्यशीत्योस्तु न । द्वित्राः । द्व्यशीतिः । एकादशेत्यत्र तु ‘प्रागेकादशभ्य—’ (५–३–४९) इति निपातनादात्वम् ।

Vartika

प्राक्शतादिति वक्तव्यम् ।

Sutra Prayogas

  • पञ्च-विंशतिभिर्नृपम् (भट्टिकाव्यम्): व्यष्टनः संख्यायाम् इत्यात्वं न।