63047: द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः ============================================ **Padacheda:** द्वि-अष्टनः | S | 6 | 1 | संख्यायाम् | S | 7 | 1 | अबहुव्रीहि-अशीत्योः | S | 7 | 2 | Sutrartha --------- **द्वि-शब्दस्य अष्टन्-शब्दस्य च सङ्ख्याशब्दे परे आकारादेशः भवति । परन्तु 'अशीतिः' शब्दस्य विषये, तथा च बहुव्रीहिसमासे अयमादेशः न भवति ।** यस्मिन् समासे उत्तरपदम् सङ्ख्यावाची शब्दः अस्ति, तस्मिन् समासे पूर्वपदस्थस्य द्विशब्दस्य अष्टन्-शब्दस्य च आकारादेशः भवति । परन्तु, यदि उत्तरपदम् 'अशीति' इति अस्ति तर्हि एतादृशः आदेशः न भवति । तथा च यदि अयं समासः बहुव्रीहिसमासः अस्ति तर्हि अपि एतादृशः आदेशः न भवति । उदाहरणानि एतानि - 1) 'द्वौ च दश च' इत्यर्थे 'द्वि + दशन्' इत्यत्र अयं द्वन्द्वसमासः भवति, अतः अत्र 'द्वि' इत्यत्र इकारस्य आकारादेशं कृत्वा द्वादशन् इति रूपं सिद्ध्यति । तथेैव, 'अष्ट + विंशति' इत्यत्रापि अष्टाविंशतीति रूपं सिद्ध्यति । 2) द्वि + अशीति इत्यत्र तु आकारादेशः न भवति, यतः अस्मिन् सूत्रे 'अबहुव्रीह्यशीत्योः' इति निर्दिष्टमस्ति । अतः अत्र यणादेशं कृत्वा 'द्व्यशीति' इति रूपं सिद्ध्यति । 3) 'द्वौ त्रयः यस्य' इत्यस्मिन् अर्थे 'द्वि + त्रि' अयं बहुव्रीहिसमासः सिद्ध्यति । अत्रापि 'अबहुव्रीह्यशीत्योः' इति निर्देशत्वात् द्वि-शब्दस्य आकारादेशः न भवति, अतः द्वित्राः इति रूपं सिद्ध्यति । अत्र एकं वार्तिकमपि ज्ञातव्यम् - । इत्युक्ते, अयमाकारादेशः शतम् (100) इत्यस्मात् पूर्वमेव भवति । अतः द्विशतम्, अष्टशतम् इत्यत्र आकारादेशः न जायते । Sutrartha (English) ------------------- The words द्वि and अष्टन् get an आकारादेश in presence of a सङ्ख्याशब्द, provided that there is no बहुव्रीहि समास and the word अशीति is not present. Vasu English Summary -------------------- आत् (आ) is substituted for the final of द्वि and अष्टन् when another numeral follows but not in a बहुव्रीहि समास or before आशीतिः। Vasu English Translation ------------------------ आत् (आ) is substituted for the final of द्वि and अष्टन् when another numeral follows but not in a बहुव्रीहि समास or before आशीतिः। Thus द्वादश, द्वाविंशतिः, द्वात्रिंशत्, अष्टादश, अष्टाविंशतिः, अष्टात्रिंशत् ॥ Why do we say द्वि and अष्टन् ॥ Observe पञ्चदश ॥ Why do we say 'when followed by a Numeral'? Observed द्वै मातुरः, अष्टमातुरः ॥ Why do we say 'not when the compound is a *Bahuvrihi*, or the word अशीति follows'? Observe द्वित्राः, त्रिदशाः, द्व्यशीतिः ॥ Vart:- This rule applies upto one hundred. Therefore not here, द्विशतम्, द्विसहस्रम्, अष्टशतम्, अष्टसहस्रम् ॥ Bhashya ------- द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः (2906) (मर्यादाकरणभाष्यम्) प्राक्शतादिति वक्तव्यम् । इह मा भूत् - द्विशतम्, अष्टशतम्, द्विसहस्रम्, अष्टसहस्रम् ॥ Kashika ------- द्वि अष्टन् इत्येतयोराकारादेशो भवति संख्यायामुत्तरपदेऽबुहव्रीह्यशीत्योः। द्वादश। द्वाविंशतिः। द्वात्रिंशत्। अष्टादश। अष्टाविंशतिः। अष्टात्रिंशत्। द्व्यष्टन इति किम्? पञ्चदश। संख्यायामिति किम्? द्वैमातुरः। आष्टमातुरः। अबहुव्रीह्यशीत्योरिति किम्? द्वित्राः। द्विदशाः। द्व्यशीतिः॥ प्राक् शतादिति वक्तव्यम्॥ इह मा भूत् — द्विशतम्। द्विसहस्रम्। अष्टशतम्। अष्टसहस्रम्॥ Siddhanta Kaumudi ----------------- आत्स्यात् । द्वौ च दश च द्वादश । द्व्यधिका दशेति वा । द्वाविंशतिः । अष्टादश । अष्टाविंशतिः । अबहुव्रीह्यशीत्योः किम् । द्वित्राः । द्व्यशीतिः । (वार्तिकम्) ॥ नेह । द्विशतम् । द्विसहस्त्रम् ॥ Laghu Siddhanta Kaumudi ----------------------- आत्स्यात्। द्वौ च दश च द्वादश। अष्टाविंशतिः॥ Balamanorama ------------ **त्रेस्त्रयः** - त्रेस्त्रयः । सन्धिवेलादिषु त्रयोदशीति पाठात्सकारान्तोऽयमादेश इत्याह — त्रयस्स्यादिति । पूर्व विषये इति । प्राक्शतात्सङ्ख्याशब्दे उत्तरपदे परतो, न तु बहुव्रीह्रशीत्योरित्यर्थः । त्रयोदशेति । त्रयश्च दश चेति, त्र्यधिका दशेति वा विग्रहः । सुब्लुकि त्रिशब्दस्य त्रयस्, रुत्वम्, उत्वम्, आद्गुणः । एवं त्रयोविंशतिरित्यपि । त्रिदशा इति । त्रिरावृत्ता दशेत्यर्थः ।बहुव्रीहौ सह्ख्येये डच् इति डच् । नन्वत्र त्रिरित्यस्यसङ्ख्यायाः क्रियाभ्यावृत्तिगणने कुत्वसुच्द्वित्रिचतुभ्र्यः सुच् इति सुजन्तत्वात्समासेऽपि सुचः श्रवणापत्तिरित्यत आह — सुजर्थे बहुव्रीहिरिति । सुजर्थे क्रियाभ्यावृत्तौ लक्षणया विद्यमानस्य त्रिशब्दस्यैवात्रसङ्ख्ययाव्यये॑ति बहुव्रीहिर्न तु सुजन्तस्येत्यर्थः । त्र्यशीतिरिति । त्रयश्चाऽशीतिश्चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । त्र्यधिकाऽशीतिरिति वा । त्रिशतमिति । त्र्यश्च शतं चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । त्र्यधिकाऽसीतिरिति वा । त्रिशतमिति । त्रयश्च शतं चेति समाहारद्वन्द्वः, त्र्यधिकं शतिमिति वा । एवं त्रिसहरुआमित्यपि । Tattvabodhini ------------- **त्रेस्त्रयः** - त्रेस्त्रयः । सन्धिवेलादिषु त्रयोदशीति पाठात्सान्तोऽयमादेशः इति ध्वनयन्नाह -त्रयस्स्यादिति । सुजर्थे बहुव्रीहिरिति ।संङ्ख्यायाव्यये॑त्यादिने ति शेषः ।षष उत्वं दतृदशधासूत्तरपदादे[#ः]ष्टुत्वं च, धासु वेति वाच्यम् । षोडन्निति । षड् दन्ता अस्य षोडन् ।वयसि दन्तस्ये॑ति दत्रादेशः । Padamanjari ----------- अत्र संख्यातानुदेशो न भवति । यदि स्याद्, अष्टनोऽशीतौ प्रतिषेधः स्यात्, तथा च तस्य वैयर्थ्यम् । प्रतिषिद्धेऽप्यात्वे सवर्णदीर्घत्वेन भवितव्यम् । द्वादश, द्वाविशतिरित्यादौ समाहारे द्वन्द्वः । स नपुंसक्म् इत्येत्त्उ न भवति लोकाश्रयत्वाल्लिङ्गस्य । द्वित्रा इति । द्वौ वा त्रयो वेति वार्थे संख्ययाव्ययासन्न इति समासः, बहुव्रीहौ संख्येये डच् । द्विर्दश द्विदशाः । सुजर्थे समासः ॥ Nyaas ----- संख्यातानुदेशोऽत्र न भवति। यदि हि स्यादष्टनोऽशीतौ प्रतिषेधः स्यात्, तथा च तस्य वैयथ्र्यं स्यात्। प्रतिषिद्धे ह्रात्त्वे सवर्णदीर्घत्वेन भवितव्यम्। अल्पाच्तरत्वाच्चाशीतिशब्दस्य पूर्वनिपातेकर्तव्ये परनिपातेन लक्षणव्यभिचारचिह्नेन सख्यातानुदेशाभावः सूचितः। `द्वादश` इति। द्वौ च दश चेति द्वन्द्वः। अथ वा द्वाभ्यामधिकादशेति समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च` (वा।83) इत्युत्तरपदलोपी तत्पुरुष समासः। एवं `द्वाविंशतिः` इत्यादावपि वेदितव्यम्। `द्वौमातुरः` इति। द्वयोर्मात्रोरपत्यमिति विगृह्र तद्धितार्थे समासः, ततः `मातुरुत्संख्यासम्भद्रपूर्वायाः` (4.1.115) इत्यण्; उकारश्चान्तादेशः। `द्वित्राः` इति। द्वौ वा त्रयो वेति विगृह्र `सङ्ख्ययाव्यय` (2.2.25) इत्यादिना बहुव्रीहिः, `बहुव्रीहौ संख्येये` (5.4.73) इत्यादिना डच्? समासान्तः, टिलोपः। `द्विदशाः` इति। पूर्ववड्डच्, बहुव्रीहिः। द्विर्दशेति विग्रहः। सुबर्थेऽयं समासः। अत्र हि दशसम्बन्धिन्यावृत्तिर्दशशब्देन लक्ष्यमाणा द्विशब्देन संख्यायते। तेन द्वौ दशकावित्ययमर्थो वेदितव्यः। समासः सुबर्थं गमयितुं समर्थ इति वृत्तौ सुज्? न प्रयुज्यते। `द्व्यशीतिः` इति। पूर्ववद्द्वन्द्वः; उत्तरपदलोपी वा तत्पुरुषः। `प्राक्? शतात्` इत्यादि। शतात्? प्रागया संख्या तद्वाचिन्युत्तरपदे द्व्यष्टन आत्त्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - `विभाषा चत्वरिंशत` (6.3.48) इत्यत्र वक्ष्यमाणविभाषाग्रहणं सिंहावलोकिनतन्यायेनेहाप्युपतिष्टते, सा च व्यवस्थितविभाषा। तेन प्राक्? शताद्या संख्या तद्वाचिन्यत्तरपदे भविष्यति। शतादिवाचिनि तु न भविष्यति। एवमुत्तरयोरपि योगयोः प्राक्शतात्? कार्यं भवतीति वेदितव्यम्। Prakriyasarvasvam ----------------- संख्यायामुत्तरपदे द्व्यष्टनोरात् स्यात् । द्व्यधिका दश द्वादश । शाकपार्थिवादिः । एवं द्वाविंशतिः । द्वात्रिंशत् । अष्टादश । अष्टाविंशतिः । अष्टात्रिंशत् । बहुव्रीह्यशीत्योस्तु न । द्वित्राः । द्व्यशीतिः । एकादशेत्यत्र तु 'प्रागेकादशभ्य—' (५–३–४९) इति निपातनादात्वम् । Vartika ------- प्राक्शतादिति वक्तव्यम् । Sutra Prayogas -------------- * **पञ्च-विंशतिभिर्नृपम्** (भट्टिकाव्यम्): `व्यष्टनः संख्यायाम्` इत्यात्वं न।