63045: उगितश्च

Padacheda: उगितः | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The feminine ङी (ई) added to a word formed by a तद्धित affix having an indicatory उ or ऋ is optionally shortened before the घ etc. – घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः (6.3.43).

Vasu English Translation

The feminine ङी (ई) added to a word formed by a तद्धित affix having an indicatory उ or ऋ is optionally shortened before the घ etc. – घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः (6.3.43). Thus श्रेयसितरा or श्रेयसीतरा, or श्रेयस्तरा, विदुषितरा or विदुषीतरा or विद्वत्तरा ॥ The first is formed by the Taddhita affix ईयसुन्, and the second by क्वसु ॥ In one alternative, there is masculisation also when we get the forms श्रेयस्तरा &c. Or this latter form may be considered to have been evolved from श्रेयस्, to which is added the affixes denoting comparison, and then the feminine affix, in denoting a feminine.

Kashika

उगितश्च परस्या नद्या घादिष्वन्यतरस्यां ह्रस्वो भवति। श्रेयसितरा, श्रेयसीतरा, श्रेयस्तरा। विदुषितरा, विदुषीतरा, विद्वत्तरा। पुंवद्भावोऽप्यत्र पक्षे वक्त व्यः। प्रकर्षयोगात् प्राक् स्त्रीत्वस्याविवक्षितत्वाद् वा सिद्धम्॥

Siddhanta Kaumudi

उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् । विदुषितरा । ह्रस्वाभावपक्षे तु तसिलादिषु- (SK836) इति पुंवत् । विद्धत्तरा । वृत्त्यादिषु विदुषीतरेत्यप्युदाहृतम् तन्निर्मूलम् ॥

Balamanorama

उगितश्च - उगितश्च । विदुषितरेति ।विदेः शतुर्वसुरिति वसुप्रत्ययः । उगिदन्तमिदम् । अनेकाच्त्वान्नद्याः शेषत्वस्याऽप्राप्तेरिदमिति भावः । विद्वत्तरेति । पुंवत्त्वे ङीपो निवृत्तौ विद्वत्तरेति रूपमित्यर्थः । तन्निर्मूलमिति । पुंवत्त्वस्य दुर्वारत्वादित्यर्थः ।विद्वच्छ्रेयसो पुंवत्त्वं न वक्तव्य॑मिति वृत्तिः । परन्तु वचनमिदं भाष्याऽदृष्टत्वादुपेक्ष्यमिति भावः । अत्रोगितः परा या नदीति मूलं वर्णयोरेव नदीसंज्ञेति मताभिप्रायकम् ।

Tattvabodhini

उगितश्च - उगितः परा या नदीति । ईदूतोः केवलयोरपि नदीसंज्ञेत्याश्रित्येदमुक्तम् । विदुषितरेति । उगितश्चेति ङीपि वसोः संप्रसारणम् । वृत्त्यादिष्विति । प्रक्रियातद्व्यख्यानानि चादिशब्दग्राह्राणि ।

Padamanjari

एपुंवद्भावोऽप्यत्र पत्रे वक्तव्य इति । भाष्ये नैतद् दृष्टम् । प्रकर्षयोगात्प्रागित्यादिना वक्तव्यं प्रत्याचष्टे । विवक्षा हि शब्दव्युत्पतेः प्रधानं कारणम्। न चेह प्रकणयोगात्प्राक्स्त्रीत्वविवक्षायां स्त्रीप्रत्यय इति मन्यते ॥

Nyaas

श्रेयसितरा इति। ईयसुनि परतः प्रशस्यस्य श्रः (5.3.60) इति प्रशस्यशब्दस्य श्रादेशः, उगितश्च (6.3.45) इति ङीप्। विदुषीतरा इति। विदेः परस्य लटः शत्रादेशः, तस्य विदेः शतुर्वसुः (7.1.36) इति वस्वादेशः, वसोः सम्प्रसारणम् (6.4.131) परपूर्वत्वम्, पूर्ववन्ङीप्। पुंवद्भावोऽप्यत्र पक्षे वक्तव्यः इति। श्रेयस्तरा, विद्बत्तरेति पक्षे यथा स्यात्। विद्बत्तरा इति। वसुरुआंसु (8.2.72) इति सकारस्य दकारः खरि च (8.4.54) इति तकारः। प्रकर्षयोगात् इत्यादिनोपसंख्यानं प्रत्याचष्टे। शब्दानां व्युत्पत्तौ प्रवृत्तौ च न वस्तुसन्निधानं प्रधानं कारणम्, अपि तु विवक्षैव। न चैवं पूर्वं प्रकर्षयोगात्? स्त्रीत्वं विवक्षितम्। तस्मादस्त्रीप्रत्ययान्तादेवातिशायिकेन भवितव्यम्। आतिशायिकप्रत्ययान्तात्तु स्त्रीप्रत्ययेनेति सिद्धं श्रेयस्तरेत्यादि रूपम्। ननु च ङ्याब्ग्रहणं तदन्तात् तद्धितविधानार्थमित्युक्तम्, तत्कथमस्त्रीप्रत्ययान्तात्? तद्धितप्रकर्षप्रत्ययो युज्यते? नैतत; अत्र विषये स्त्रोत्वतद्धितार्थयोर्युगपद्विवक्षामभिप्रेत्य तदुक्तम्, न तु यत्र विषये प्राक्? प्रकर्षार्थेन सम्बन्धात्? स्त्रीत्वस्य विवक्षा नास्ति तमभिप्रेत्येति किमत्र न युज्यते॥

Prakriyasarvasvam

उगितो नदीसंज्ञात् घादौ ह्रस्वो वा स्यात् । उगितः शत्रादयः । लसन्तिरा, लसन्तीतरा । ईयसुन् श्रेयसितरा, श्रेयसीतरा । धिनुण् सम्पर्किणितरा, सम्पर्किणी- तरा ।<!उगितः पुंवत्त्वं वा वाच्यम्!> (वा०) । लसत्तरा, श्रेयस्तरा ।