63045: उगितश्च ============== **Padacheda:** उगितः | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The feminine ङी (ई) added to a word formed by a तद्धित affix having an indicatory उ or ऋ is optionally shortened before the घ etc. -- घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः (6.3.43). Vasu English Translation ------------------------ The feminine ङी (ई) added to a word formed by a तद्धित affix having an indicatory उ or ऋ is optionally shortened before the घ etc. -- घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः (6.3.43). Thus श्रेयसितरा or श्रेयसीतरा, or श्रेयस्तरा, विदुषितरा or विदुषीतरा or विद्वत्तरा ॥ The first is formed by the *Taddhita* affix ईयसुन्, and the second by क्वसु ॥ In one alternative, there is masculisation also when we get the forms श्रेयस्तरा &c. Or this latter form may be considered to have been evolved from श्रेयस्, to which is added the affixes denoting comparison, and then the feminine affix, in denoting a feminine. Kashika ------- उगितश्च परस्या नद्या घादिष्वन्यतरस्यां ह्रस्वो भवति। श्रेयसितरा, श्रेयसीतरा, श्रेयस्तरा। विदुषितरा, विदुषीतरा, विद्वत्तरा। पुंवद्भावोऽप्यत्र पक्षे वक्त व्यः। प्रकर्षयोगात् प्राक् स्त्रीत्वस्याविवक्षितत्वाद् वा सिद्धम्॥ Siddhanta Kaumudi ----------------- उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् । विदुषितरा । ह्रस्वाभावपक्षे तु तसिलादिषु- (SK836) इति पुंवत् । विद्धत्तरा । वृत्त्यादिषु विदुषीतरेत्यप्युदाहृतम् तन्निर्मूलम् ॥ Balamanorama ------------ **उगितश्च** - उगितश्च । विदुषितरेति ।विदेः शतुर्वसुरिति वसुप्रत्ययः । उगिदन्तमिदम् । अनेकाच्त्वान्नद्याः शेषत्वस्याऽप्राप्तेरिदमिति भावः । विद्वत्तरेति । पुंवत्त्वे ङीपो निवृत्तौ विद्वत्तरेति रूपमित्यर्थः । तन्निर्मूलमिति । पुंवत्त्वस्य दुर्वारत्वादित्यर्थः ।विद्वच्छ्रेयसो पुंवत्त्वं न वक्तव्य॑मिति वृत्तिः । परन्तु वचनमिदं भाष्याऽदृष्टत्वादुपेक्ष्यमिति भावः । अत्रोगितः परा या नदीति मूलं वर्णयोरेव नदीसंज्ञेति मताभिप्रायकम् । Tattvabodhini ------------- **उगितश्च** - उगितः परा या नदीति । ईदूतोः केवलयोरपि नदीसंज्ञेत्याश्रित्येदमुक्तम् । विदुषितरेति । उगितश्चेति ङीपि वसोः संप्रसारणम् । वृत्त्यादिष्विति । प्रक्रियातद्व्यख्यानानि चादिशब्दग्राह्राणि । Padamanjari ----------- एपुंवद्भावोऽप्यत्र पत्रे वक्तव्य इति । भाष्ये नैतद् दृष्टम् । प्रकर्षयोगात्प्रागित्यादिना वक्तव्यं प्रत्याचष्टे । विवक्षा हि शब्दव्युत्पतेः प्रधानं कारणम्। न चेह प्रकणयोगात्प्राक्स्त्रीत्वविवक्षायां स्त्रीप्रत्यय इति मन्यते ॥ Nyaas ----- `श्रेयसितरा` इति। ईयसुनि परतः **प्रशस्यस्य श्रः** (5.3.60) इति प्रशस्यशब्दस्य श्रादेशः, **उगितश्च** (6.3.45) इति ङीप्। `विदुषीतरा` इति। विदेः परस्य लटः शत्रादेशः, तस्य **विदेः शतुर्वसुः** (7.1.36) इति वस्वादेशः, **वसोः सम्प्रसारणम्** (6.4.131) परपूर्वत्वम्, पूर्ववन्ङीप्। `पुंवद्भावोऽप्यत्र पक्षे वक्तव्यः` इति। श्रेयस्तरा, विद्बत्तरेति पक्षे यथा स्यात्। `विद्बत्तरा` इति। `वसुरुआंसु` (8.2.72) इति सकारस्य दकारः `खरि च` (8.4.54) इति तकारः। `प्रकर्षयोगात्` इत्यादिनोपसंख्यानं प्रत्याचष्टे। शब्दानां व्युत्पत्तौ प्रवृत्तौ च न वस्तुसन्निधानं प्रधानं कारणम्, अपि तु विवक्षैव। न चैवं पूर्वं प्रकर्षयोगात्? स्त्रीत्वं विवक्षितम्। तस्मादस्त्रीप्रत्ययान्तादेवातिशायिकेन भवितव्यम्। आतिशायिकप्रत्ययान्तात्तु स्त्रीप्रत्ययेनेति सिद्धं श्रेयस्तरेत्यादि रूपम्। ननु च ङ्याब्ग्रहणं तदन्तात् तद्धितविधानार्थमित्युक्तम्, तत्कथमस्त्रीप्रत्ययान्तात्? तद्धितप्रकर्षप्रत्ययो युज्यते? नैतत; अत्र विषये स्त्रोत्वतद्धितार्थयोर्युगपद्विवक्षामभिप्रेत्य तदुक्तम्, न तु यत्र विषये प्राक्? प्रकर्षार्थेन सम्बन्धात्? स्त्रीत्वस्य विवक्षा नास्ति तमभिप्रेत्येति किमत्र न युज्यते॥ Prakriyasarvasvam ----------------- उगितो नदीसंज्ञात् घादौ ह्रस्वो वा स्यात् । उगितः शत्रादयः । लसन्तिरा, लसन्तीतरा । ईयसुन् श्रेयसितरा, श्रेयसीतरा । धिनुण् सम्पर्किणितरा, सम्पर्किणी- तरा । (वा०) । लसत्तरा, श्रेयस्तरा ।