62149: इत्थम्भूतेन कृतमिति च¶
Padacheda: इत्थम्भूतेन | S | 3 | 1 |
कृतम् | S | 1 | 1 |
इति | S | 0 | 0 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The Participle in क्त has acute accent (उदात्त) on the final when the compound denotes ‘done by one in such a condition’.
Vasu English Translation¶
The Participle in क्त has acute accent (उदात्त) on the final when the compound denotes ‘done by one in such a condition’. The word इत्थंभूत means ‘being in such a condition’. Thus सुप्तप्रलपित꣡म्, उन्मत्तप्रलपित꣡म्, प्रमत्तगीत꣡म्, विपन्नश्रुत꣡म् as Adjectives and Abstract verbal nouns. This is an exception to (6.2.48). When the words प्रलपित &c are used to denote Noun of Action (भाव, then by (6.2.144) they get of course acute on the final.
Kashika¶
इमं प्रकारमापन्न इत्थंभूतः। इत्थंभूतेन कृतमित्येतस्मिन्नर्थे यः समासो वर्तते, तत्र क्तान्तमुत्तरपदमन्तोदात्तं भवति। सु॒प्त॒प्॒रल॒पि॒तम्। उ॒न्म॒त्त॒प्॒रल॒पि॒तम्। प्॒रम॒त्त॒गी॒तम्। वि॒प॒न्न॒श्र्ाुतम्। कृतमिति क्रियासामान्ये करोतिर्वर्तते, नाभूतप्रादुर्भाव एव। तेन प्रलपिताद्यपि कृतं भवति। तृतीया कर्मणि (६.२.४८) इत्यस्यायमपवादः। भावे तु यदा प्रलपितादयस्तदा थाथादिस्वरेणैव (६.२.१४४) सिद्धमन्तोदात्तत्वं भवति॥
Siddhanta Kaumudi¶
इत्थम्भूते कृतमित्येतस्मिन्नर्थे यः समासस्तत्र क्तान्तमुत्तरपदमन्तोदात्तं स्यात् । सुप्तप्रलपितम् । प्रमत्तगीतम् । कृतमिति क्रियासामान्ये करोतिर्नाभूतप्रादुर्भाव एव । तेन प्रलपिताद्यपि कृतं भवति । तृतीया कर्मणि-(SK3782) इत्यस्यापवादः ॥
Padamanjari¶
सप्तप्रलपितमित्यादि । कथं पनरेतान्युदाहरणानि, यावता कृतामित्युच्यते, न च प्रलपितादीनि कृतानि, अभूतप्रादुर्भाव एव हि करोतिर्वर्तते, ततश्च सुप्रकृतं सुप्रभाषितं सुप्रोत्पादितमित्यादिकमेवोदाहर्तव्यमत आह - कृतमिति क्रियासामान्ये करोतिर्वर्तत इति । ततश्च यथा क्रियावचनो धातुः क्रियायां क्रियार्थायाम् इत्यादौ विशेषाणामपि ग्रहणं भवति, तद्वदत्रापि । अभूतप्रादुर्भावः - निष्पादनम् ॥
Nyaas¶
इतिकरणोऽर्थनिर्देशार्थः। आपन्नः इति। प्राप्त इत्यर्थः। सुप्तप्रलपितम् इति। रप लप व्यक्तायां वाचि (धातुपाठः-401,402), अत्र सुप्तत्वं प्रकारमापन्नम्, तेन प्रलपितं कृतम्, तत्र समासो वर्तते। उन्मत्तप्रलपितम् इति। अत्राप्युन्मत्तत्वं प्रकारमापन्नं तेन प्रलपितं कृतम्। प्रमत्तगीतम् इति। अत्रापि प्रमत्तत्वं प्रकारमापन्नं तेन गीतं कृतम्। कै गै शब्दे (धातुपाठः-916,917), घुमास्था (6.4.66) इत्यादिसूत्रेणेत्त्वम्। विपन्नश्रुतम् इति। अत्रापि विपन्नत्वं प्रकारमापन्नं तेन श्रुतं कृतम्। सर्वत्र कर्तृकरणे कृता बहुलम् (2.1.32) इति समासः। तत्र सुप्तशब्दः प्रत्ययस्वरेणान्तोदात्तः। प्रलपितशब्दो यदि कर्मणि निष्ठा, ततः गतिरन्तरः (6.2.49) इति गतिस्वरेणाद्युदात्तः; अथ भावे, ततस्थाथादि (6.2.143) स्वरेणान्तोदात्तः। एवमुत्पन्नप्रकारा आपन्नविपन्नादिशब्दा अपि थाथादिस्वरेणै (6.2.143) वान्तोदात्ताः। गतिरनन्तरः (6.2.49) इत्येतत्त्विह न प्रवर्तते; तत्र कर्मणीत्यनुवृत्तेः। इहाकर्मकाद्धातोः कर्मणि क्तप्रत्ययस्यानुपपत्तेः। गीतश्रुतशब्दौ सुप्तशब्दवदन्तोदात्तौ। अथ कथमेतान्युदाहरणाध्युपलभ्यन्ते, य#आवतेत्यम्भूतेन कृतमित्येतस्मिन्नर्थ एतत्? कार्यमुच्यते, न चायमत्रार्थः सम्भवति, प्रलपितादीनामकृतार्थत्वात्? प्रकृते प्रलपनादौ करोतेरप्रवृत्तेः। अभूतप्रादुर्भाव एव हि करोतिर्वर्तते, न प्रलपनादौ। कस्मान्न प्रलपनादिकृतम्? इत्येतच्चोद्यमपाकर्त्तुमाह -कृतमिति क्रियासामान्याम् इत्यादि। न हि करोतिरभूतप्रादुर्भाव एव वर्तते? किं तर्हि? क्रियासामान्येऽपि। तच्च क्रियासामान्यं प्रलपनादप्यस्ति। तेन तेन प्रलपनाद्यपि कृतं भवति। तृतीया कर्मणीत्यस्य इति। पूर्वपदप्रकृतिस्वरभाव इति। यदीत्यादिना यदा भावे निष्ठा, तदास्यानुपयोगं दर्शयति॥