62149: इत्थम्भूतेन कृतमिति च ============================ **Padacheda:** इत्थम्भूतेन | S | 3 | 1 | कृतम् | S | 1 | 1 | इति | S | 0 | 0 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The Participle in क्त has acute accent (उदात्त) on the final when the compound denotes 'done by one in such a condition'. Vasu English Translation ------------------------ The Participle in क्त has acute accent (उदात्त) on the final when the compound denotes 'done by one in such a condition'. The word इत्थंभूत means 'being in such a condition'. Thus सुप्तप्रलपित꣡म्, उन्मत्तप्रलपित꣡म्, प्रमत्तगीत꣡म्, विपन्नश्रुत꣡म् as Adjectives and Abstract verbal nouns. This is an exception to (6.2.48). When the words प्रलपित &c are used to denote Noun of Action (भाव, then by (6.2.144) they get of course acute on the final. Kashika ------- इमं प्रकारमापन्न इत्थंभूतः। इत्थंभूतेन कृतमित्येतस्मिन्नर्थे यः समासो वर्तते, तत्र क्तान्तमुत्तरपदमन्तोदात्तं भवति। सु॒प्त॒प्॒रल॒पि॒तम्। उ॒न्म॒त्त॒प्॒रल॒पि॒तम्। प्॒रम॒त्त॒गी॒तम्। वि॒प॒न्न॒श्र्ाुतम्। कृतमिति क्रियासामान्ये करोतिर्वर्तते, नाभूतप्रादुर्भाव एव। तेन प्रलपिताद्यपि कृतं भवति। **तृतीया कर्मणि** (६.२.४८) इत्यस्यायमपवादः। भावे तु यदा प्रलपितादयस्तदा थाथादिस्वरेणैव (६.२.१४४) सिद्धमन्तोदात्तत्वं भवति॥ Siddhanta Kaumudi ----------------- इत्थम्भूते कृतमित्येतस्मिन्नर्थे यः समासस्तत्र क्तान्तमुत्तरपदमन्तोदात्तं स्यात् । सुप्तप्रलपितम् । प्रमत्तगीतम् । कृतमिति क्रियासामान्ये करोतिर्नाभूतप्रादुर्भाव एव । तेन प्रलपिताद्यपि कृतं भवति । तृतीया कर्मणि-(SK3782) इत्यस्यापवादः ॥ Padamanjari ----------- सप्तप्रलपितमित्यादि । कथं पनरेतान्युदाहरणानि, यावता कृतामित्युच्यते, न च प्रलपितादीनि कृतानि, अभूतप्रादुर्भाव एव हि करोतिर्वर्तते, ततश्च सुप्रकृतं सुप्रभाषितं सुप्रोत्पादितमित्यादिकमेवोदाहर्तव्यमत आह - कृतमिति क्रियासामान्ये करोतिर्वर्तत इति । ततश्च यथा क्रियावचनो धातुः क्रियायां क्रियार्थायाम् इत्यादौ विशेषाणामपि ग्रहणं भवति, तद्वदत्रापि । अभूतप्रादुर्भावः - निष्पादनम् ॥ Nyaas ----- इतिकरणोऽर्थनिर्देशार्थः। `आपन्नः` इति। प्राप्त इत्यर्थः। `सुप्तप्रलपितम्` इति। `रप लप व्यक्तायां वाचि` (धातुपाठः-401,402), अत्र सुप्तत्वं प्रकारमापन्नम्, तेन प्रलपितं कृतम्, तत्र समासो वर्तते। `उन्मत्तप्रलपितम्` इति। अत्राप्युन्मत्तत्वं प्रकारमापन्नं तेन प्रलपितं कृतम्। `प्रमत्तगीतम्` इति। अत्रापि प्रमत्तत्वं प्रकारमापन्नं तेन गीतं कृतम्। `कै गै शब्दे` (धातुपाठः-916,917), `घुमास्था` (6.4.66) इत्यादिसूत्रेणेत्त्वम्। `विपन्नश्रुतम्` इति। अत्रापि विपन्नत्वं प्रकारमापन्नं तेन श्रुतं कृतम्। सर्वत्र **कर्तृकरणे कृता बहुलम्** (2.1.32) इति समासः। तत्र सुप्तशब्दः प्रत्ययस्वरेणान्तोदात्तः। प्रलपितशब्दो यदि कर्मणि निष्ठा, ततः `गतिरन्तरः` (6.2.49) इति गतिस्वरेणाद्युदात्तः; अथ भावे, ततस्थाथादि (6.2.143) स्वरेणान्तोदात्तः। एवमुत्पन्नप्रकारा आपन्नविपन्नादिशब्दा अपि थाथादिस्वरेणै (6.2.143) वान्तोदात्ताः। **गतिरनन्तरः** (6.2.49) इत्येतत्त्विह न प्रवर्तते; तत्र कर्मणीत्यनुवृत्तेः। इहाकर्मकाद्धातोः कर्मणि क्तप्रत्ययस्यानुपपत्तेः। गीतश्रुतशब्दौ सुप्तशब्दवदन्तोदात्तौ। अथ कथमेतान्युदाहरणाध्युपलभ्यन्ते, य#आवतेत्यम्भूतेन कृतमित्येतस्मिन्नर्थ एतत्? कार्यमुच्यते, न चायमत्रार्थः सम्भवति, प्रलपितादीनामकृतार्थत्वात्? प्रकृते प्रलपनादौ करोतेरप्रवृत्तेः। अभूतप्रादुर्भाव एव हि करोतिर्वर्तते, न प्रलपनादौ। कस्मान्न प्रलपनादिकृतम्? इत्येतच्चोद्यमपाकर्त्तुमाह -`कृतमिति क्रियासामान्याम्` इत्यादि। न हि करोतिरभूतप्रादुर्भाव एव वर्तते? किं तर्हि? क्रियासामान्येऽपि। तच्च क्रियासामान्यं प्रलपनादप्यस्ति। तेन तेन प्रलपनाद्यपि कृतं भवति। `तृतीया कर्मणीत्यस्य` इति। पूर्वपदप्रकृतिस्वरभाव इति। यदीत्यादिना यदा भावे निष्ठा, तदास्यानुपयोगं दर्शयति॥