62096: उदकेऽकेवले¶
Padacheda: उदके | S | 7 | 1 |
अकेवले | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
Before the word उदक when the compound denotes a mixture, the last syllable of the first member has the acute accent (उदात्त).
Vasu English Translation¶
Before the word उदक when the compound denotes a mixture, the last syllable of the first member has the acute accent (उदात्त). Thus गुडो꣡दकम् or गुडो॑दकम्, तिलो꣡दकम् or तिलो॑दकम् ॥ When we have already made the उ and ल acute by this rule, then the svarita accent may result optionally, by the combination of the acute अ of guda and tila and the subsequent grave उ of उदक, by Rule (8.2.6). The word अकेवल in means mixture. When mixture is not meant, this rule does not apply. As शीतोदकम्, उष्णोदकम् ॥
Kashika¶
अकेवलं मिश्रम्, तद्वाचिनि समास उदकशब्द उत्तरपदे पूर्वपदमन्तोदात्तं भवति। गुडमिश्रमुदकं गु॒डोद॑कम्, गु॒डो॑दकम्। ति॒लोद॑कम्, ति॒लो॑दकम्। स्वरे कृत एकादेशः स्वरितो वानुदात्ते पदादौ (८.२.६) इति पक्षे स्वरितो भवति। अकेवल इति किम्? शी॒तो॒द॒कम्। उ॒ष्णो॒द॒कम्॥
Siddhanta Kaumudi¶
अकेवलं मिश्रं तद्वाचिनि समासे उदके परे पूर्वमन्तोदात्तम् । गुहोदकम् । स्वरे कृतेऽत्र एकादेशः । स्वरितो वानुदात्तेपदादौ (SK3659) इति पक्षे स्वरितः । अकेवले किम् । शीतोदकम् ॥
Padamanjari¶
असन्देहार्थम् केवल उदके इत्यवचनाद् अकेवले इति पदच्छेदः । मश्रम् - द्रव्यान्तरसंयुक्तम् ॥
Nyaas¶
मिश्रम् इति। द्रव्यान्तरसम्पृक्तमित्यर्थः। गुडमिश्रम् इति। शाकपार्थिवादित्वा(वा।83)दुत्तरपदलोपिसमासः। शीतोदकम् इति। विशेषणसमासः। पूर्वपदमत्र गुणोपसर्जनमुदकं ब्रूते। उत्तरपदमपि जात्युपसर्जनम्। तथैव तेनैकमेव वस्तु जातिगुणाब्यामुच्यत इति केवलोदकवाचिसमासः॥
Prakriyasarvasvam¶
अस्मिन्परे मिश्रार्थे समासे प्राक्पदमन्तोदात्तं स्यात् । तिलोदकम् । एकादेशे “स्वरितो वानुदात्ते—’ (८-२-६) इति स्वरः । केवले तु उष्णोदकम् ।