62089: अमहन्नवं नगरेऽनुदीचाम्¶
Padacheda: अ-महन्नवम् | S | 1 | 1 |
नगरे | S | 7 | 1 |
अनुदीचाम् | S | 6 | 3 |
Sutrartha¶
Vasu English Summary¶
The first member has an acute accent (उदात्त) on the first syllable before the word नगर but not when it is the word महत् or नव , nor when it refers to a city in the lands of the Northern People.
Vasu English Translation¶
The first member has an acute accent (उदात्त) on the first syllable before the word नगर but not when it is the word महत् or नव , nor when it refers to a city in the lands of the Northern People. Thus सु꣡ह्मनगरम्, पु꣡ण्ड्रनगरम्, वि꣡राटनगरम् ॥ But not in महानगरम् and नवनगरम्, Why do we say “but not of Northern People”? Observe नान्दीनगरम् कान्तीनगरम् ॥
Kashika¶
नगरशब्द उत्तरपदे महन्नवशब्दवर्जितं पूर्वपदमाद्युदात्तं भवति, तत् चेदुदीचां न भवति। सुह्म॑नगरम्। पुण्ड्॑रनगरम्। अहमन्नवमिति किम्? म॒हा॒न॒ग॒रम्। न॒व॒न॒ग॒रम्। अनुदीचामिति किम्? न॒दी॒न॒ग॒रम्। का॒न्ती॒न॒ग॒रम्॥
Siddhanta Kaumudi¶
नगरे परे महन्नवन्वर्जितं पूर्वमाद्युदात्तं स्यात् तच्चेदुदीचां न । ब्रह्मनगरम् । अमेति किम् । महानगरम् । नवनगरम् । अनुदीचां किम् । कार्तिकनगरम् ॥
Nyaas¶
सुह्रनगरम् इत्यादयोऽपि षष्ठीसमासा एव। किमर्थं प्राचामित्येवं नोच्यते, [नोच्येत -मुद्रितः पाठः] लधु हि प्राचामिति वचनमनुदीचामिति वचनात्? नैवं शक्यम्; मध्यदेशनगरे विराटनगरमित्यत्र न स्यात्। पूर्वपदाद्युदात्तत्वे प्राप्ते प्रतिषेधोऽमुच्यते, न समास एव भवति॥
Prakriyasarvasvam¶
नगरे परे महन्नवर्जितं प्राक्पदमाद्युदात्तं स्यात् । विराटनगरम् । उदीचां तु-नन्दिनगरम् ।