62078: गोतन्तियवं पाले¶
Padacheda: गो-तन्ति-यवम् | S | 1 | 1 |
पाले | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The words 1. गो 2. तन्ति and 3. यव get the acute accent (उदात्त) on the first syllable when followed by पाल।
Vasu English Translation¶
The words 1. गो 2. तन्ति and 3. यव get the acute accent (उदात्त) on the first syllable when followed by पाल। Thus गो꣡पालः, त꣡न्तिपालः, य꣡वपालः ॥ The word तन्ति is the rope with which calves are tied. (तनु विस्तारे + क्तिच्). This applies to words not denoting a functionary, which would be governed by (6.2.75). Why do we say गो &c? Observe वत्सपालः꣡ ॥ Why do we say ‘followed by पाल’? Observe गोरक्षः꣡ ॥
Kashika¶
गो तन्ति यव इत्येतानि पूर्वपदानि पालशब्द उत्तरपद आद्युदात्तानि भवन्ति। गोपा॑लः। तन्ति॑पालः। यव॑पालः। अनियुक्त ार्थ आरम्भः। गोतन्तियवमिति किम्? व॒त्स॒पा॒लः। पाल इति किम्? गो॒र॒क्षः॥
Siddhanta Kaumudi¶
गोपालः । तन्तिपालः । यवपालः । अनियुक्तार्थो योगः । गो इति किम् । वत्सपालः । पाले इति किम् । गोरक्षः ॥
Padamanjari¶
तनु विस्तारे , क्तिच्, तन्तिः - वत्सानां बन्धनरज्जुः ॥
Nyaas¶
गोपालः इति। पा रक्षणे (धातुपाठः-1056), पूर्ववदण्। अनियुक्तार्थ आरम्भः इति। नियुक्ते अणि नियुक्ते (6.2.75) इत्यनेनैव सिद्धत्वात्। गोरक्षः इति। रक्ष पालने (धातुपाठः-658)॥
Prakriyasarvasvam¶
पाले परे एतान्याद्युदात्तानि स्युः । गोपालः । तन्ति¹र्वत्संबन्धनरज्जुः । तन्तिपालः । यवपालः ।