62041: गौः सादसादिसारथिषु¶
Padacheda: गौः | S | 1 | 1 |
साद-सादिसारथिषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
The word गो retains its accent before 1. साद 2. सादि and 3. सारथि।
Vasu English Translation¶
The word गो retains its accent before 1. साद 2. सादि and 3. सारथि। Thus गोःसादः or गां सादयति = गो꣡सादः, गोः सादिः गो꣡ सादिः, and गो꣡ सारथिः ॥ साद is formed from सद् with the affix घञ् and forms a Genitive compound (गोः सादः). Or from the causative verb सादयति, we get गोसादः by adding अण् (3.9.1) गोसादी is formed by णिनि from the same causative root. The Krit-accent is debarred in the case of साद and सादिन्, the Samasa-accent (6.1.223) in the case of सारथि ॥
Kashika¶
गोशब्दः पूर्वपदं साद सादि सारथि इत्येतेषूत्तरपदेषु प्रकृतिस्वरं भवति। गोः सादो गोसा॑दः। गां सादयतीति वा गोसा॑दः। गोः सादिर्गोसा॑दिः। गोसा॑रथिः॥
Siddhanta Kaumudi¶
गोसादः । गोसादिः । गोसारथिः ॥
Padamanjari¶
गोसादा इति । सदेर्घञ्, ततः, षष्ठीसमासः । गां सादयतीति वेति । सदेर्ण्यन्तात्कर्मण्यण्, तस्मादेव णिनिः - गोसादी । अत्र सादसादिनोः कृत्स्वरस्यापवादः, सारथौ तु समासस्वरस्य॥
Nyaas¶
गोः सादः इत्यनेन वाक्यशेषेण गोसादशब्दस्य षष्ठीसमासत्वं दर्शयति। गां सादयतीति च [वा -काशिका] इति। एतेनाप्युपदसमासत्वम्; सवेर्विशरणार्थत्वात्? गोशब्दे कर्मण्युपपदे कृते गोसाद इति भवति। गोशब्दः गमेर्डोस् (द।उ।2।11) [गमेर्डोः -पं।उ;द।उ।] इति डोस्प्रत्ययान्तत्वात्? प्रत्ययसवरेणान्तोदात्तः॥
Prakriyasarvasvam¶
एषु परेषु गौः प्रकृत्या स्यात् । गोसादः । षञ् कर्मण्यण् वा । गोसादी । णिनिः । गोसारथिः ।