62041: गौः सादसादिसारथिषु ========================= **Padacheda:** गौः | S | 1 | 1 | साद-सादिसारथिषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The word गो retains its accent before 1. साद 2. सादि and 3. सारथि। Vasu English Translation ------------------------ The word गो retains its accent before 1. साद 2. सादि and 3. सारथि। Thus गोःसादः or गां सादयति = गो꣡सादः, गोः सादिः गो꣡ सादिः, and गो꣡ सारथिः ॥ साद is formed from सद् with the affix घञ् and forms a Genitive compound (गोः सादः). Or from the causative verb सादयति, we get गोसादः by adding अण् (3.9.1) गोसादी is formed by णिनि from the same causative root. The *Krit*-accent is debarred in the case of साद and सादिन्, the *Samasa*-accent (6.1.223) in the case of सारथि ॥ Kashika ------- गोशब्दः पूर्वपदं साद सादि सारथि इत्येतेषूत्तरपदेषु प्रकृतिस्वरं भवति। गोः सादो गोसा॑दः। गां सादयतीति वा गोसा॑दः। गोः सादिर्गोसा॑दिः। गोसा॑रथिः॥ Siddhanta Kaumudi ----------------- गोसादः । गोसादिः । गोसारथिः ॥ Padamanjari ----------- गोसादा इति । सदेर्घञ्, ततः, षष्ठीसमासः । गां सादयतीति वेति । सदेर्ण्यन्तात्कर्मण्यण्, तस्मादेव णिनिः - गोसादी । अत्र सादसादिनोः कृत्स्वरस्यापवादः, सारथौ तु समासस्वरस्य॥ Nyaas ----- `गोः सादः` इत्यनेन वाक्यशेषेण गोसादशब्दस्य षष्ठीसमासत्वं दर्शयति। `गां सादयतीति च` [वा -काशिका] इति। एतेनाप्युपदसमासत्वम्; सवेर्विशरणार्थत्वात्? गोशब्दे कर्मण्युपपदे कृते गोसाद इति भवति। गोशब्दः `गमेर्डोस्` (द।उ।2।11) [गमेर्डोः -पं।उ;द।उ।] इति डोस्प्रत्ययान्तत्वात्? प्रत्ययसवरेणान्तोदात्तः॥ Prakriyasarvasvam ----------------- एषु परेषु गौः प्रकृत्या स्यात् । गोसादः । षञ् कर्मण्यण् वा । गोसादी । णिनिः । गोसारथिः ।