62003: वर्णो वर्णेष्वनेते¶
Padacheda: वर्णः | S | 1 | 1 |
वर्णेषु | S | 7 | 3 |
अनेते | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The first member of a तत्-पुरुष समास preserves its original accent when a word denoting colour is compounded with another colour denoting word but not so when it is the word एत।
Vasu English Translation¶
The first member of a तत्-पुरुष समास preserves its original accent when a word denoting colour is compounded with another colour denoting word but not so when it is the word एत। Thus कृष्ण꣡सारङ्गी, लो꣡हितसारङ्गी, कृष्ण꣡कल्माषः, लो꣡हितकल्माषः ॥ कृष्ण is formed by मक् affix (Unadi. III.4) and has acute on the final (3.1.3). लोहित is formed by the affix तन् added to रुह् (Unadi, III.94) and has accent on the first (6.1.197).
Why do we say ‘color-denoting word’? Observe परमकृष्णः꣡ (6.1.223). Why do we say ‘with another color denoting word’? Observe कृष्णतिलाः꣡ (6.1.223). Why do we say ‘but not when it is एत’? Observe कृष्णेतः꣡, लोहितैतः꣡ ॥ The compounding takes place by (2.1.69).
Kashika¶
प्रकृत्या पूर्वपदं तत्पुरुष इति च वर्तते। वर्णं वर्णवाचि पूर्वपदं वर्णवाचिष्वेवोत्तरपदेषु एतशब्दवर्जितेषु परतस्तत्पुरुषे समासे प्रकृतिस्वरं भवति। कृ॒ष्णसा॑रङ्गः, लोहि॑तसारङ्गः। कृष्णक॑ल्माषः। लोहि॑तकल्माषः। कृषेर्वर्ण (प०उ० ३.४) इति कृष्णशब्दो नक्प्रत्ययान्तोऽन्तोदात्तः। लोहितशब्दोऽपि रुहे रश्च लो वा (प०उ० ३.९४) इतीतन्प्रत्ययान्त आद्युदात्तः। वर्ण इति किम् ? प॒र॒म॒कृ॒ष्णः। वर्णेष्विति किम् ? कृ॒ष्ण॒ति॒लाः। अनेत इति किम् ? कृ॒ष्ण॒ैतः। लो॒हि॒त॒ैतः॥
Siddhanta Kaumudi¶
वर्णवाचिन्युत्तरपदे एतवर्जिते वर्णवाचि पूर्वपदं प्रकृत्या तत्पुरुषे । कृष्णसारङ्गः । लोहितकल्पमाषः । कृष्णशब्दो नक्प्रत्ययान्तः लोहितशब्द इतन्नन्तः । वर्णः किम् । परमकृष्णः । वर्णेषु किम् । कृष्णतिलाः अनेते किम् । कृष्णैतः ॥
Padamanjari¶
अनेते तैति प्रतिषेधाद्वहुवचननिर्देशाच्चोतरपदे स्वरूग्रहणं न भवति, तत्साहचर्यात्पूर्वपदेऽपि। कृष्णाशब्दो नक्प्रत्ययान्तोऽन्तोदात इति । फिषि तु कृष्णस्यामृगाख्या चेत् ति च्छन्दस्यन्तोदातत्वम्, अन्यत्राद्यौदातत्वं व्यवस्थितम्॥
Nyaas¶
रुहे रश्च लो वा इति। अत्र ह्मश्याभ्यामितन् (द।उ।6।12) इतीतनोऽनुवर्तनात्। परमकृष्णः इति। अत्र समासान्तोदात्तत्वमेव॥
Prakriyasarvasvam¶
तत्पुरुषे वर्णार्थं प्राक्पदं वर्णार्थे परे प्रकृत्या स्यात् । कृष्णकल्माषः । न*गन्तः कृष्णः । एते तु कृष्णैताः ।