62003: वर्णो वर्णेष्वनेते ========================= **Padacheda:** वर्णः | S | 1 | 1 | वर्णेषु | S | 7 | 3 | अनेते | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The first member of a तत्-पुरुष समास preserves its original accent when a word denoting colour is compounded with another colour denoting word but not so when it is the word एत। Vasu English Translation ------------------------ The first member of a तत्-पुरुष समास preserves its original accent when a word denoting colour is compounded with another colour denoting word but not so when it is the word एत। Thus कृष्ण꣡सारङ्गी, लो꣡हितसारङ्गी, कृष्ण꣡कल्माषः, लो꣡हितकल्माषः ॥ कृष्ण is formed by मक् affix (*Unadi*. III.4) and has acute on the final (3.1.3). लोहित is formed by the affix तन् added to रुह् (*Unadi*, III.94) and has accent on the first (6.1.197). Why do we say 'color-denoting word'? Observe परमकृष्णः꣡ (6.1.223). Why do we say 'with another color denoting word'? Observe कृष्णतिलाः꣡ (6.1.223). Why do we say 'but not when it is एत'? Observe कृष्णेतः꣡, लोहितैतः꣡ ॥ The compounding takes place by (2.1.69). Kashika ------- प्रकृत्या पूर्वपदं तत्पुरुष इति च वर्तते। वर्णं वर्णवाचि पूर्वपदं वर्णवाचिष्वेवोत्तरपदेषु एतशब्दवर्जितेषु परतस्तत्पुरुषे समासे प्रकृतिस्वरं भवति। कृ॒ष्णसा॑रङ्गः, लोहि॑तसारङ्गः। कृष्णक॑ल्माषः। लोहि॑तकल्माषः। **कृषेर्वर्ण** (प०उ० ३.४) इति कृष्णशब्दो नक्प्रत्ययान्तोऽन्तोदात्तः। लोहितशब्दोऽपि **रुहे रश्च लो वा** (प०उ० ३.९४) इतीतन्प्रत्ययान्त आद्युदात्तः। वर्ण इति किम् ? प॒र॒म॒कृ॒ष्णः। वर्णेष्विति किम् ? कृ॒ष्ण॒ति॒लाः। अनेत इति किम् ? कृ॒ष्ण॒ैतः। लो॒हि॒त॒ैतः॥ Siddhanta Kaumudi ----------------- वर्णवाचिन्युत्तरपदे एतवर्जिते वर्णवाचि पूर्वपदं प्रकृत्या तत्पुरुषे । कृष्णसारङ्गः । लोहितकल्पमाषः । कृष्णशब्दो नक्प्रत्ययान्तः लोहितशब्द इतन्नन्तः । वर्णः किम् । परमकृष्णः । वर्णेषु किम् । कृष्णतिलाः अनेते किम् । कृष्णैतः ॥ Padamanjari ----------- अनेते तैति प्रतिषेधाद्वहुवचननिर्देशाच्चोतरपदे स्वरूग्रहणं न भवति, तत्साहचर्यात्पूर्वपदेऽपि। कृष्णाशब्दो नक्प्रत्ययान्तोऽन्तोदात इति । फिषि तु कृष्णस्यामृगाख्या चेत् ति च्छन्दस्यन्तोदातत्वम्, अन्यत्राद्यौदातत्वं व्यवस्थितम्॥ Nyaas ----- `रुहे रश्च लो वा` इति। अत्र `ह्मश्याभ्यामितन्` (द।उ।6।12) इतीतनोऽनुवर्तनात्। `परमकृष्णः` इति। अत्र समासान्तोदात्तत्वमेव॥ Prakriyasarvasvam ----------------- तत्पुरुषे वर्णार्थं प्राक्पदं वर्णार्थे परे प्रकृत्या स्यात् । कृष्णकल्माषः । न*गन्तः कृष्णः । एते तु कृष्णैताः ।