61198: आमन्त्रितस्य च¶
Padacheda: आमन्त्रितस्य | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The first syllable of a Vocative gets the acute accent.
Vasu English Translation¶
The first syllable of a Vocative gets the acute accent. Thus दे꣡वदत्त !, दे꣡वदत्तौ !, दे꣡वदत्ताः ॥ This debars the final accent ordained by (6.2.148). Though the affix may be elided by a लुमान् word (लुक्, लुप् or श्लु), yet the effect of the affix remains behind in spite of (1.1.63). As स꣡र्पिरागच्छ ! स꣡प्ता गच्छत ! ॥
Kashika¶
आमन्त्रितस्यादिरुदात्तो भवति। देव॑दत्त, देव॑दत्तौ, देव॑दत्ताः। अत्र कारकाद्दत्तश्रुतयोरेवाशिषि (६.२.१४८) इति प्राप्तिर्बाध्यते। लुमतापि लुप्ते प्रत्ययलक्षणमत्रेष्यते। सर्पि॑रागच्छ, सप्ता॑गच्छतेति॥
Siddhanta Kaumudi¶
आमन्त्रित स्यादिरुदात्तः स्यात् । अग्न इन्द्र वरुण मित्र देवाः (अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॑) ॥
Padamanjari¶
अत्र’कारकादतश्रुत्योरेवाशिषि’ इति प्राप्तिः प्रतिषिद्ध्यते, शेषनिधातेन बाध्य त्यिर्थः। प्रत्ययलक्षणमत्रेष्यत इति। षष्ठीनिर्देशेन तत्कार्यस्य स्पष्टत्वात्। सर्पिरिति। सृपेरिसि सर्पिः सब्दोऽन्त्योदातः,’स्वमोर्नपुंसकात्’ इति सोर्लुक्। सप्तशब्दौ घृतादित्वादन्तोदातः,’षङ्भ्यो लुक्’ इति जसो लुक् ॥
Nyaas¶
देवदत्त् इति। ददातेः क्तिच्क्तौ च संज्ञायाम् (3.3.174) इत्याशिवि क्तः, वो वद्? घोः (7.4.46) इति धातोर्ददादेशः। दत्तशब्दस्य देवशब्देन कर्तृकरणे कृता बहुलम् (2.1.32) इति समासः। सपिरागच्छ इति। स्वमोर्नपुंसकात् (7.1.23) इति विभक्तेर्लुक्। सप्तागच्छत इति। अत्रापि षङ्भ्यो लुक् (7.1.22) इति च॥