61198: आमन्त्रितस्य च ===================== **Padacheda:** आमन्त्रितस्य | S | 6 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The first syllable of a Vocative gets the acute accent. Vasu English Translation ------------------------ The first syllable of a Vocative gets the acute accent. Thus दे꣡वदत्त !, दे꣡वदत्तौ !, दे꣡वदत्ताः ॥ This debars the final accent ordained by (6.2.148). Though the affix may be elided by a लुमान् word (लुक्, लुप् or श्लु), yet the effect of the affix remains behind in spite of (1.1.63). As स꣡र्पिरागच्छ ! स꣡प्ता गच्छत ! ॥ Kashika ------- आमन्त्रितस्यादिरुदात्तो भवति। देव॑दत्त, देव॑दत्तौ, देव॑दत्ताः। अत्र **कारकाद्दत्तश्रुतयोरेवाशिषि** (६.२.१४८) इति प्राप्तिर्बाध्यते। लुमतापि लुप्ते प्रत्ययलक्षणमत्रेष्यते। सर्पि॑रागच्छ, सप्ता॑गच्छतेति॥ Siddhanta Kaumudi ----------------- आमन्त्रित स्यादिरुदात्तः स्यात् । अग्न इन्द्र वरुण मित्र देवाः (अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॑) ॥ Padamanjari ----------- अत्र'कारकादतश्रुत्योरेवाशिषि' इति प्राप्तिः प्रतिषिद्ध्यते, शेषनिधातेन बाध्य त्यिर्थः। प्रत्ययलक्षणमत्रेष्यत इति। षष्ठीनिर्देशेन तत्कार्यस्य स्पष्टत्वात्। सर्पिरिति। सृपेरिसि सर्पिः सब्दोऽन्त्योदातः,'स्वमोर्नपुंसकात्' इति सोर्लुक्। सप्तशब्दौ घृतादित्वादन्तोदातः,'षङ्भ्यो लुक्' इति जसो लुक् ॥ Nyaas ----- `देवदत्त्` इति। ददातेः **क्तिच्क्तौ च संज्ञायाम्** (3.3.174) इत्याशिवि क्तः, `वो वद्? घोः` (7.4.46) इति धातोर्ददादेशः। दत्तशब्दस्य देवशब्देन **कर्तृकरणे कृता बहुलम्** (2.1.32) इति समासः। `सपिरागच्छ` इति। `स्वमोर्नपुंसकात्` (7.1.23) इति विभक्तेर्लुक्। `सप्तागच्छत` इति। अत्रापि `षङ्भ्यो लुक्` (7.1.22) इति च॥