61191: सर्वस्य सुपि

Padacheda: सर्वस्य | S | 6 | 1 |

सुपि | S | 7 | 1 |

Sutrartha


Vasu English Summary

The acute is on the first syllable of सर्व when the case-endings follow.

Vasu English Translation

The acute is on the first syllable of सर्व when the case-endings follow. Thus सर्वः, सर्वाः꣡ स꣡र्वे ॥ Why do we say when the case-endings follow? Observe सर्व꣡तरः, सर्व꣡तमः the acute is on र्व ॥ The word सर्व has acute on the final, as it is so taught in the Unadi list by निपातन् ॥ It thus being anudattadi takes the affix अञ् and forms सार्वः (सर्वस्य विकारः) This rule applies even when the case affix is elided in spite of the prohibition of न लुमताङ्गस्य (I.I.63): as स꣡र्वस्तोमः ॥

Vart:- The rule does not apply when the affix अकच् is put in : as सर्वकः꣡ ॥ Here the accent is on the final by चित् accent (6.1.163).

Bhashya

सर्वस्य सुपि (2628) (6312 उपसंख्यानवार्तिकम् ॥ 1 ॥) - सर्वस्वरोऽनकच्कस्य - सर्वस्वरोऽनकच्कस्येति वक्तव्यम् । इह मा भूत् - सर्वके ॥

Kashika

सर्वशब्दस्य सुपि परत आदिरुदात्तो भवति। सर्वः॑, सर्वौ॑, सर्वे॑। सुपीति किम् ? स॒र्वत॑रः। स॒र्वत॑मः। प्रत्ययलक्षणेनाप्ययं स्वर इष्यते — सर्व॑स्तोमः (तै० सं० ५.४.१२.३) इति॥ सर्वस्वरोऽनकच्कस्येति वक्त व्यम्॥ स॒र्व॒कः। चित्स्वरेणान्तोदात्तो भवति ॥

Siddhanta Kaumudi

सुपि परे सर्वशब्दस्यादिरुदात्तः स्यात् । सर्वे नन्दन्ति यशसा (सर्वे॑ नन्दन्ति य॒शसा॑) ॥

Padamanjari

सर्वशब्द उणादिषु अन्तोदातो निपातितः, सर्वस्य विकारः सार्व इत्यनुदातादिलक्षणोऽञ् यथा स्यादिति। प्रत्ययलक्षणेनापीत्यादि।’न लुमताङ्गस्य’ इत्यत्रैतदुपपादितम्। सर्वस्वरोऽनकच्कस्येति। भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति ॥ आद्यौदातस्यापवादोऽयम्। जागरामिति सौत्रौ निर्देशः। अत्र मदिर्दिवादिः, दरिद्राजाग्रावदादी, अन्ये जुहोत्यादयः। पञ्चमे लकार इति। लस्येत्वत्र दर्शितक्रमे पञ्चमकलकारो लेट्। लेट्शब्दस्तु वृत्तिकारदेशे जुगुप्सितः, यथाऽत्र द्रविहदेशे नीवीशब्दः। दधनदिति। ठितश्च लोपः परस्मैपदेषुऽ,’लेटो’ डाटौऽ इत्यट्। दरिद्रतीति। अत्र परत्वादाकारलोपे कृते इकारस्योदातत्वप्रसङ्गः। अथ प्रत्ययग्रहणं किमर्थम्, यावता भ्यादिभ्यः परः पित्प्रत्यय एव सम्भवति, ननु चायमस्ति -ठाडुतमस्य पिच्चऽ, बिभयाति, अत्रापि लोडुतमस्यैव पित्वं विधीयते, न त्वाट् इति, आटसहितो लोडुतमः पिद्भवति स च प्रत्यय एव। अत एव लोङदेशात्पितः पूर्वमाड् भवति, प्रत्ययातु पूर्वो न भवति, आटसहितस्याप्रत्ययत्वादिति तन्निवृत्यर्थं प्रत्ययग्रहणमिति न वाच्यम्, कथण्? यथैव प्रत्ययत्वमाट्सहितस्य , तथा पित्तवमपि तस्यैव। इहं तर्हि प्रयोजनम् - प्रत्ययात्पूर्वस्याच उदातत्वं यथा स्यात्सङ्घातस्य मा भूदिति, एतदेव ज्ञापकम् -स्वरविधौ सङ्घातः कार्यीति, तेन’तास्यनुदातेत्’ इति निघातः’पचमानः’ इत्यादौ चित्स्वरं परत्वाद्बाधत इति यदुक्तं तदुपपन्नं भवति। अथ पूर्वग्रहणं किमर्थम्, प्रत्यये पितीति वक्तव्यम्, तत्र’तस्मिन्निति निर्दिष्टे पूर्वस्य’ इति पूर्वस्यैव भविष्यति ? इदं तर्हि प्रयेजनम् -पिति पूर्वं कार्यभाग्यथा स्यात्, पिदन्तं मा भूदिति। कथं पुनः सप्तमीनिर्द्देशे तदन्तस्य प्रसङ्ग? एतदेव ज्ञायति -स्वरविधौ सप्तम्यस्तदन्तसप्तम्य इति । किं सिद्धं भवति ? उपोतमं रिति, रित्प्रत्यययान्ते उपोतममुदातं भवति, न तु रिति परतः पूर्वस्य;’चङ्यन्यतरस्याम्’ चङ्न्तस्य। यद्येवम्,’चतुरः शसि’ इति शसन्तस्य प्राप्नोति, शस्ग्रहणसामर्थ्यान्न भविष्यति। यदि हि’चतुरः शसि’ इत्यनेन शस उदातत्वमिष्ट्ंअ स्यात्, ततः ठूडिदम्ऽ इत्यस्यानन्तरम्’चतुरश्च’ इति ब्रूयात् तत्रासर्वनामस्थानग्रहणानुवृत्या’षट्त्रिचतुर्भ्यो हलादिः’ इति हलादेरुदातत्वविधानाच्च शस एव भविष्यति ॥

Nyaas

इष्शीभ्यां वन्? (द।उ।8।126) इति प्रकृत्य `सर्वनीधृधरिष्वलष्वशिवपट्वप्रेष्वा अस्वतन्त्रे [सर्वनिधृष्वरिष्वलिष्पशिपह्रस्वपद्वप्रहेष्वा अतन्त्रे -द।उ।] (द।उ।8।127) इति सर्वशब्दोऽन्तोदात्तो निपातितः। तेन तस्य सुप्याद्युदात्तत्वं विधीयते। अन्तोदात्तत्वनिपातनं तु सर्वस्य विकारः सार्वं इत्यत्र अनुदात्तादेरञ् (4.2.44) यथा स्यात्। प्रत्ययलक्षणेनापि इत्यादि। कथं पुनरिष्यमाणोऽपि लभ्यते, यावता सर्वस्तोम इत्यत्र सुपो धातुप्रातिपदिकयोः (2.4.71) इति लुमता लुप्तम्, ततश्च न लुमताङ्गस्य (1.1.63) इति प्रत्ययलक्षलस्य प्रतिषेधेन भवितव्यम्? नैष दोषः; पूर्वसूत्राच्चकारोऽनुवर्तते, स च समुच्चयार्थः। तेन प्रतिषेधविषयेऽप्येष स्वरो भविष्यति। सर्वस्वरोऽनकच्कस्य इत्यादि। योऽयं सर्वशब्दस्य स्वरो विधीयते स तस्याविद्यमानाकच्कस्य भवतीत्येतदर्थरूप् व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -आदिः सिचोऽन्यतरस्याम् (6.1.187) इत्यतोऽन्य तरस्यांग्रहणमिह मण्डूकप्लुतिन्यायेनानुर्तते, सा च व्यवस्थितविभाषा, तेनानकच्कस्य भवति॥