61190: अनुदात्ते च¶
Padacheda: अनुदात्ते | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
Also when the unaccented endings of the three persons in the singular follow, the first syllable of the reduplicate has the acute.
Vasu English Translation¶
Also when the unaccented endings of the three persons in the singular follow, the first syllable of the reduplicate has the acute. The endings तिप् सिप् and मिप् are anudatta (3.1.4). This sutra applies to those personal endings which do not begin with a vowel. Thus द꣡दाति, ज꣡हाति, द꣡धाति, जि꣡हीते, मि꣡मीते ॥ The word अनुदात्त is to be construed here as a Bahuvrihi i. e. an affix in which there is no udatta vowel, so that the rule may apply when a portion of the affix is elided or a semivowel is substituted : as मा हि द꣡धात्, and दधा꣡त्यत्र ॥
Bhashya¶
अनुदात्ते च (2627) (6311 अनुदात्ते इत्यत्र बहुव्रीहिबोधकवार्तिकम् ॥ 1 ॥) - अनुदात्ते चेति बहुव्रीहिनिर्देशो लोपयणादेशार्थः - अनुदात्ते चेति बहुव्रीहिनिर्देशः कर्तव्यः । अविद्यमानोदात्ते - अनुदात्त इति वक्तव्यम् । किं प्रयोजनम् ? लोपयणादेशार्थम् । लोपयणादेशयोः कृतयोराद्युदात्तत्वं यथा स्यात् । मा हि स्म दधात्, दधात्यत्र ॥
Kashika¶
अविद्यमानोदात्ते च लसार्वधातुके परतोऽभ्यस्तानामादिरुदात्तो भवति। अनजाद्यर्थ आरम्भः। ददा॑ति। जहा॑ति। दधा॑ति। जिही॑ते। मिमी॑ते। (तै० सं० ६.१.९.६)। अनुदात्त इति बहुव्रीहिनिर्देशो लोपयणादेशार्थः। मा हि स्म दधा॑त्। दधा॒त्यत्र॑॥
Siddhanta Kaumudi¶
अविद्यमानोदात्ते लसार्वधातुके परेऽभ्यस्तानामादिरुदात्तः । दधासि रत्नं द्रविणं च दाशुषे (दधा॑सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषे॑) ॥
Padamanjari¶
अनजाद्यर्थेमिदम्। जिहीते, मिमीत इति। ठी हल्यघोःऽ, ङ्त्वाल्लिसार्वधातुकानुदातत्वम्। ठविद्यमानोदातेऽ इति वदता ठनुदात इति बहुव्रीहिनिर्देशोऽयम्ऽ इत्युक्तम्। तत्र प्रयोजनमाह -अनुदात इति। बहुव्रीहिनिर्देश इत्यादि। न विद्यते उदातो यस्मिन्नित्यनुदातः। मा हि स्म् दधादिति। शास्त्रीयेऽनुदाते गृह्यमाणे नित्यत्वादन्तरङ्गत्वाद्वा इकारलोपे कृतेऽचोऽनुदातस्य परस्याभावादाद्यौदातत्वं न स्यात्, बहुव्रीहौ विज्ञाते तु भवति। दधात्यत्रेति। अत्र यणादेशस्य बहिरङ्गत्वेनासिद्धत्वादपि स्वरः सिद्धः ॥
Nyaas¶
अनजाद्यर्थमिदम्। अजादौ त्वनुदात्ते पूर्वणैव सिद्धम्। जिहीते, मिमीते इति। अत्र तास्यनुदात्तेत् (6.1.180) इत्यादिना लसार्वधातुकस्यानुदात्तत्वम्। भृञामित् (7.4.76) इत्यभ्यासस्येत्त्वम्। अनुदात्ते इति शास्त्रीयस्यानुदात्तस्यायं निर्देश इति कस्यचिद्भ्रान्तिः स्यात्? अतस्तन्निरासार्थमाह -अनुदात्त ति बहुव्रीहिनिर्देशः इति अविद्यमानमुदात्तमस्मिन्नित्यनुदात्तम्। किमर्थं पुनर्बहुव्रीहिनिर्देशः? इत्याह -लोपपणादेशार्थः इति। लोपयणादेशयोः कृतयोरप्याद्युदात्तत्वं यथा स्यात्। मा हि स्म दधात्। दधात्यत्र इति। स्मशब्दस्य प्रयोगः स्मोत्तरे लङ्? यथा स्यात्। अत्र यदि शास्त्रीयस्यायं निर्देशः स्यात्, इतश्च (3.4.100) इतीकारलापे कृते यणादेशे चोदात्तं न स्यात्, शास्त्रीयस्यानुदात्तस्याभावात्। बहुव्रीहिनिर्देशे चात्रापि भवति; उदात्तस्येहाविद्यमानत्वात्॥
Prakriyasarvasvam¶
उदात्तहीने लसार्वधातुके परेऽभ्यस्तानामादिरुच्चः स्यात् । दधाति पुत्रः । बहुव्रीह्युक्तिर्मा हि स्म दधादित्यादौ तिप इलोपेऽप्याद्युदात्ततार्था ।