61177: नामन्यतरस्याम्

Padacheda: नाम् | S | 1 | 1 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

After an oxytoned stem which ends in a light vowel, the genitive ending नाम् has optionally the acute accent.

Vasu English Translation

After an oxytoned stem which ends in a light vowel, the genitive ending नाम् has optionally the acute accent. Thus अग्नी॒ना꣡म् or अग्नी꣡नाम्, वायूना꣡म् or वायू꣡नाम्, कर्तॄणा꣡म् or कर्तॄ꣡णाम् (see (6.1.54). It might be objected, that नाम् is not preceded by a short vowel, as is shown in the above examples, then how can the anuvritti of ह्रस्व ‘short or light vowel’ be read into this sutra ? The reply is that the anuvritti of मतुप् should also be read into this sutra, the meaning being “a stem which has a light vowel when followed by मतुप्, will cause the नाम् acute, though the light vowel may become heavy before this ending, in its present form”. Otherwise, this rule will apply to forms like तिसॄणा꣡म्, चतसॄणा꣡म् having light vowels before नाम् and not to the forms above given. Why do we read नाम् with the सुट् augment (7.1.54) and not आम्? The rule will not apply to धेन्वाम्꣡ शकट्याम् which get the acute on the final by (6.1.174). Why do we say ‘after a stem ending in a light vowel’? Observe कुमारीणा꣡म् (the word कुमार꣡ is end-acute by Un III.138 and so is कुमारी꣡ by (6.1.161). Why do we say after an oxytoned word? Observe त्र꣡पूणाम्, व꣡सूनाम् the words त्रपु and वसु have acute on the first syllable.

Bhashya

नामन्यतरस्याम् (2614) (उद्देश्यतावच्छेदकनिर्णायकभाष्यम्) इह कस्मान्न भवति - किशोरीणाम्, कुमारीणाम् ? ह्रस्वादिति वर्तते । इहापि तर्हि न प्राप्नोति - अग्नीनाम्, वायूनाम् । किं कारणम् ? दीर्घत्वे कृते ह्रस्वाभावात् । इदमिह संप्रधार्यम् - दीर्घत्वं क्रियतां स्वर इति, किमत्र कर्तव्यम् ? परत्वाद्दीर्घत्वम् । एवं तर्हि - (6299 ह्रस्वोपसंख्यानवार्तिकम् ॥ 1 ॥) - नाम्स्वरे मतौ ह्रस्वग्रहणम् - नाम्स्वरे मतौ ह्रस्वग्रहणं कर्तव्यम् - मतौ ह्रस्वान्तात् इति ॥ (ह्रस्वग्रहणे प्रत्याख्यानभाष्यम्) तत्तर्हि वक्तव्यम् । न वक्तव्यम् । आहायम् - ह्रस्वान्तादिति, न च नामि ह्रस्वान्तोऽस्ति, तत्र भूतपूर्वगतिर्विज्ञास्यते - ह्रस्वान्तं भूतपूर्वमिति ॥ सांप्रतिकाभावे भूतपूर्वगतिर्विज्ञायते । अयं चास्ति सांप्रतिकः - तिसृणाम्, चतसृणामिति । नैतदस्ति । षटि्त्रचतुर्भ्यो हलादिः (6.1.179) इत्यनेनात्र भवितव्यम् । तस्मिन्नित्ये प्राप्ते इयं विभाषाऽऽरभ्यते । एवं तर्हि योगविभागः करिष्यते - षटि्त्रचतुर्भ्यः, नामुदात्तो भवति । ततः - हलादिः, हलादिश्च विभक्तिरुदात्ता भवति षटि्त्रचतुर्भ्य इति ॥ इदं तर्हि - त्वं नृणां नृपते जायसे शुचिः । ननु चात्रापि नृ चान्यतरस्याम् (6.1.184) इत्येष स्वरोऽत्र बाधको भविष्यति । न सिद्ध्यति । किं कारणम् ? झल्ग्रहणं तत्रानुवर्तते । किं पुनः कारणं झल्ग्रहणं तत्रानुवर्तते ? इह मा भूत् - न्रा. न्रे । उदात्तयणो हल्पूर्वात् (6.1.174) इत्येष स्वरोऽत्र बाधको भविष्यति ॥ इदं तर्हि - नरि । नैकमुदाहरणं ह्रस्वग्रहणं प्रयोजयति । यद्येतावत्प्रयोजनं स्यात् नाम् इत्येव ब्रूयात् । तत्र वचनात् भूतपूर्वगतिर्विज्ञास्यते - ह्रस्वान्तं यद्भूतपूर्वमिति ॥ अथवा नैवं विज्ञायते - नाम्स्वरे मतौ ह्रस्वग्रहणं कर्तव्यमिति । कथं तर्हि ? नाम्स्वरे मतौ ह्रस्वादिति वर्तत इति ॥

Kashika

ह्रस्वग्रहणमनुवर्तते, मतुब्ग्रहणं च । तेन मतुपा ह्रस्वो विशेष्यते। मतुपि यो ह्रस्वस्तदन्तादन्तोदात्तादन्यतरस्यां नाम् उदात्तो भवति। अ॒ग्नी॒नाम्, अ॒ग्नीना॑म्। वा॒यू॒नाम्, वा॒यूना॑म्। क॒र्तृृ॒णाम् ,क॒र्तृृणा॑म्। मतुपा ह्रस्वविशेषणं किम्? भूतपूर्वेऽपि ह्रस्वे यथा स्यात्। अन्यथा हि साम्प्रतिक एव स्यात् — ति॒सृ॒णां च॒त॒सृ॒णामिति। सनुट्कस्य ग्रहणं किम् ? धे॒न्वाम्। श॒क॒ट्याम्। उदात्तयणो हल्पूर्वात् (६.१.१७४) इत्ययमन्तोदात्तः। ह्रस्वादित्येव — कु॒मा॒रीणा॑म्। अन्तोदात्तादित्येव — त्रपू॑णाम्। वसू॑नाम्॥

Siddhanta Kaumudi

मतुपि यो ह्रस्वस्तदन्तादन्तोदात्तात्परो नामुदात्तो वा । चेतन्ती सुमतीनाम् (चेत॑न्ती सुमती॒नाम्) ॥

Padamanjari

मतुबिति चेति। चच्चार्थात्सप्तम्यन्तं सम्पद्यते। अन्यथा हि साम्प्रतिक एव स्यादिति। साम्प्रतिकाभावे हि भूतपूर्वगतिर्भवति, न तु तस्मिन्सत्यपि; ततस्तिसृणाम्, चतसृणामित्यत्र’न तिसृचतसृ’ इति दीर्घप्रतिषेधात्साम्प्रतिक एव ह्रस्वो विद्यते इति तत्रेव स्यात्; अग्नीनाम्, वायूनामित्यादौ परत्वान्नित्यत्वाच्च दीर्घत्वे कृते ह्रस्वाभावान्न स्यात्, तस्मान्मतुपा ह्लस्वो विशेष्यते। यद्येवम्,’मतौ बह्वचो’ नजिरादीनाम्ऽ,’शरादीनां च’ इति येषां मतौ दीर्घत्वमुच्यते तेषां न स्यात् ? नैष दोषः; संज्ञायामिति वर्तते, ततश्चातुरर्थिक एव मतौ दीर्घत्वम्, न तु’तदस्यास्यास्मिन्’ इत्यत्र; तत्र मतौ ह्रस्वान्तत्वाद्भविष्यति। एवमपि तिसृणाम्, चतसृणामित्यत्र न स्यात्, तिसृचतसृभावस्यैव तत्राभावात् ? इष्टमेवैतत्संगृहीतम्। अत्र हि’षष्टत्रिचतुर्भ्यो हलादिः’ इति नित्यमेव विभक्तेरुदातत्वमिष्यते। धेन्वाम्, शकट।लमिति।’धेट इच्च’ इति नुप्रत्ययान्तो धेनुशब्दोऽन्तोदातः,’शकटिशकट।लेरक्षरमक्षरं पर्यायेण’ इति शकटीशब्दोऽपि पक्षेऽन्तोदातः। त्रपुशब्दो वसुशब्दश्चाद्यौदातः ॥

Nyaas

नाम् इति। सनुट्कस्य षष्ठीबहुवचनस्य ग्रहणम्। किं पुनः कारणं मतुपा ह्रस्वो विशेष्यते? इत्याह -अन्यथा हि इत्यादि। सम्प्रति भवः साम्प्रतिकः, अध्यात्मादित्वट्ठञ्। तिसृणाम् इति। अत्र न तिसृचतसृ (6.4.4) इति दीर्घत्वप्रतिषेधात्? साम्प्रतिकः, अध्यात्मादित्वट्ठञ्। तिसृणाम् इति। अत्र न तिसृचतसृ (6.4.4) इति दीर्घत्वप्रतिषेधात्? साम्प्रतिक एव ह्रस्वो विद्यते। न तु साम्प्रतिके सति भूतपूर्वगतिर्युक्ता। अत्र यदि मतुपा ह्रस्वो न विशेष्येत? इह नैव स्यात् -अग्नीनामिति। नामि (6.4.3) इति दीर्घत्वे कृते न स्यात्; ह्रस्वाभावात्। तस्माद्भूतपूर्वेऽपि ह्रस्वो यथा स्यादित्येवमर्थं मतुपा ह्रस्वो विशेष्यते। धेन्वाम्, शकट्याम् इति। यदि सनुट्कस्य ग्रहणं न क्रियेत तदानीं सप्तम्यादेशस्याप्यामो ग्रहणं स्यात्, ततश्च धेन्वामित्यादावपि स्यात्। सनुट्कस्य ग्रहणे तुन भवति, तस्मिन्नसति धेनुशकटिशब्दयोः प्रातिपदिकस्वरेणान्तोदात्तयोरन्त्यस्य यणादेशे कृते उदात्तयणो हल्पूर्वात् (6.1.174) इत्यादनान्तोदात्तो नित्यो भवति। त्रपूणाम् इति। त्रपुशब्दो वसुशब्दवदाद्युदात्तः॥

Prakriyasarvasvam

मतुपि ह्रस्वरूपादन्तोदात्तात्परो नाम् उदात्तो वा स्यात् । वायूनाम् ।