61176: ह्रस्वनुड्भ्यां मतुप्

Padacheda: ह्रस्व-नुड्भ्याम् | S | 5 | 2 |

मतुप् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The otherwise unaccented मत् (वत्) takes the acute accent, when an oxytoned stem ends in a light vowel, or the affix has before it the augment न् (8.2.16).

Vasu English Translation

The otherwise unaccented मत् (वत्) takes the acute accent, when an oxytoned stem ends in a light vowel, or the affix has before it the augment न् (8.2.16). The word अन्तोदात्तात् is understood here also. Thus अग्निमा꣡न्, वायुमा꣡न्, कर्तृमा꣡न्, हर्तृमा꣡न् ॥ So also when मतुप् takes नुट्, as अक्ष॒ण्व꣡ता, शी॒र्ष॒ण्व꣡ता ॥ Here by (7.1.76), the word अक्षि takes अनङ् and becomes अक्षन्, then is added नुट् by (8.2.16), and we have अक्षन् न् मतुप् ॥ The preceding न् is elided. When the stem is not oxytone (antodatta) this rule does not apply: as व꣡सुमान् ॥ The word व꣡सु has acute on the first syllable, as it is formed from वस् with the affix उ (Un I.10) which is नित् (Un 1.9) so the मतुप् retains its anudatta here. So also in the case of मरुत्वान्, the affix does not become acute, though the word मरु꣡त् has acute on the final as the intervening त् makes the उ of रु heavy when the affix is added: the general maxim स्वरर्विधौ व्यंजनमविद्यमानवत् does not apply here, because the very fact that न् is only taken as an exception, shows this.

Vart:- The affix मतुप् becomes acute after the heavy vowel of रे : as आरेवा꣡न् = रयिरस्यास्ति ॥ There is vocalisation of य of रयि, as र इ इ then substitution of one, as र इ, then guna, रे ॥

Vart:- The prohibition should be stated after त्रि : as त्रि꣡वतीर्याज्यानुवाक्या भवन्ति ॥

Bhashya

ह्रस्वनुड्भ्यां मतुप् (2613) (6297 उपसंख्यानवार्तिकम् ॥ 1 ॥) - मतुबुदात्तत्वे रेग्रहणम् - मतुबुदात्तत्वे रेग्रहणं कर्तव्यम् । आरेवानेतु नो विशः ॥ (6298 उपसंख्यानवार्तिकम् ॥ 2 ॥) - त्रिप्रतिषेधश्च - त्रेश्च प्रतिषेधो वक्तव्यः । त्रिवतीर्याज्यानुवाक्या भवन्ति ॥

Kashika

अन्तोदात्तादित्येव। ह्रस्वान्तादन्तोदात्ताद् नुटश्च परो मतुब् उदात्तो भवति। अ॒ग्नि॒मान्। वा॒यु॒मान्। क॒र्तृ॒मान्। ह॒र्तृ॒मान्। नुटःखल्वपि — अ॒क्ष॒ण्वता॑। शी॒र्ष॒ण्वता॑। अन्तोदात्तादित्येव — वसु॑मान् (तै० सं० १.६.६.२)। वसुशब्द आद्युदात्तः, तस्माद् मतुब् अनुदात्त एव भवति। अत्र च स्वरविधौ व्यञ्जनमविद्यमानवद्० इत्येषा परिभाषा नाश्रीयते नुड्ग्रहणात्, तेन म॒रुत्वा॑न् इत्यत्र न भवति ॥ रेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम्॥ आ रे॒वान्॥ त्रेश्च प्रतिषेधो वक्त व्यः॥ त्रिव॑तीर्याज्यानुवाक्या भवन्ति (काठ० सं० ११.१) इति॥

Siddhanta Kaumudi

ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुबुदात्तः । यो अब्दि माँउदनिमाँइयर्ति (यो अ॑ब्दि॒माँउ॑दनि॒माँइय॑र्ति) । नुटः । अक्षण्वन्तः कर्णवन्तः सखायः (अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा॑यः) । अन्तोदात्तात्किम् । मात्वा विदषुमान् (मात्वा॑ विद॒दिषु॑मान्) । स्वरविधौ व्यञ्जनविद्यमानवदित्येतदत्र न । णरुत्वानिन्द्र (म॒रुत्वा॑निन्द्र) । नियुत्वान्वायवा गहि (नि॒युत्वा॑न्वाय॒वा ग॑हि) ॥ रेशब्दाच्च ॥ रेवाँइद्रेवतः (रे॒वाँइद्रे॒वतः॒) ॥

Padamanjari

अक्षण्वतेति।’च्छन्दस्यपि दृश्यते’ इत्यनङ्, ठनो नुट्ऽ इति नुडागमः, पूर्वस्य नकारस्य लोपः। शीर्षत्वतेति।’शीर्षञ्च्छन्दसि’ इति निपातितः। वसुशब्द्र आद्यौदात इति। वसेरुप्रत्ययः,’धान्ये नित्’ इत्यधिकारे। अथेहकस्मान्न भवति - मरुतोऽस्य सन्ति मरुत्वानिति ? मरुच्छब्दो हि’मृग्रोरुतिः’ इति उतिप्रत्ययान्तत्वात्प्रत्ययस्वरेणान्तोदातः। न च तकारेण व्यवधानम्, स्वरविधौ व्यञ्जनस्याविद्यमानत्वात् ? इत्यत आह - अत्रेति। कथं पुनर्ज्ञायते नाक्षी यते इति ? नुड्ग्रहणात्। तद्ध्यक्षण्वतेत्यादौ यथा स्यादित्येवमर्थम्, अन्यथा नकारस्य लुप्तस्यापि स्वरविधावसिद्धेर्नकारेण व्यवधानान्न स्यादिति। यदि चात्र व्यञ्जनमविद्यमानवत्स्यात्, ततोऽसिद्धलोपस्यापि तस्यावविद्यमानत्वादेव स्वरः सिद्ध इति नुड्ग्रहणमनर्थकं स्यात् ? नैतद्यौक्तमुच्यते; यदि हि नकारलोपस्यासिद्धत्वेऽपि नकारोऽविद्यमानवत्स्यात्, स्वरविधौ नकारलोपस्यासिद्धवद्वचनमनर्थकं स्यात्। तस्मान्नलोपविषयेऽविद्यमानवद्भावो न प्रवर्तत इति कर्तव्यमेव नुड्ग्रहणम्। एवं तर्हीष्टिरेवेयम् - ठत्र स्वरेऽविद्यमानवत्परिभाषा न प्रवर्ततेऽ इति। रेशब्दाच्चेति पाठः। आरेवानिति। रयि अस्यास्तीति मतुपि रर्येर्मतौ बहुलम्ऽ इति सम्प्रसारणम्, पूर्वत्वम्, आद्ग्रणः, ततो ह्रस्वाभावाद्वचनम्। त्रिवतीरिति।’च्छन्दसीरः’ इति वत्वम्,’वा च्छन्दसि’ इति पूर्वसवर्णदीर्घः ॥

Nyaas

पित्वान्मतुपोऽनुदात्तत्वे प्राप्तेऽयं विधिरारभ्यते। अक्षण्वता इति। अक्षमस्यास्तीति मतुप्, छन्दस्यपि दृश्यते (7.1.76) इत्यनङ्, अनो नुट् (8.2.16) इति नुडागमः, पूर्वसय नकारस्य नलोपः प्रातिपदिकान्तस्य (8.2.7) इति लोपः। शीर्षण्वता इति। शीर्षन्निति शीर्षञ्शब्दः शीर्षश्चन्दसि` (6.1.59) इति निपातितः। वसुशब्द आद्युदात्तः इति। स हि भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः (द।उ।1।92) इति वर्तमाने धान्ये नित् (द।उ।1।94) इत्यतो निद्ग्रहणे शृस्वृस्विहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च (द।उ।1।95) इति व्युत्पाद्यते। तेन नित्स्वरेणाद्युदात्तो भवति। अथेह कस्मान्न भवति - मरुतोऽस्य सन्ति मरुत्वानिति, मरुच्छब्दोऽपि मृग्रेरुतिः (द।उ।6।1) इत्युतिप्रत्ययान्तत्वात्? प्रत्ययस्वरेणान्तोदात्त इत्यस्त्यत्र प्राप्तिः, अतो नकारेम व्यवधानान्न भवतीति चेत्? न; तस्य लुप्तत्वात्। अथापि स्वरसिद्धौ नलोपस्यासिद्धत्वम्? एवमपि `स्वरविधौ व्यञ्जनमविद्यमानवत् (व्या।पा।37) इति नास्ति व्यवधानम्? इत्यत आह - स्वरिविधौ इत्यादि। कथं पुनज्र्ञायते - नाश्रीयत इति? नुङ्ग्रहणात्। नुडागमो ह्रयं मतुप एव भक्त इति तद्ग्रहणेनैव गृह्रते। यद्येषा परिभाषाऽऽश्रीयेत, तदा नकारस्य व्यञ्जनस्याविद्यमानत्वाद्? ह्रस्वादित्येव सिध्यति नुङ्ग्रहणं न कुर्यात्, कृतं च। ततो ज्ञायते - नेयमिह परिभाषाश्रीयत इति। वक्तव्यः इति। व्याख्येय इत्यर्थः। उत्तरत्रापि वक्तव्यशब्दस्यायमेवार्थः। व्याख्यानं तु पूर्ववद्बहुलग्रहणानुवृत्तिमाश्रित्य कर्तव्यम्॥

Prakriyasarvasvam

ह्रस्वान्तान्तोदात्ताच्छब्दान्नुटश्च परो मतुबुदात्तः स्यात् । चक्षुरग्निर्वा इव । अग्निः निप्रत्ययान्तत्वादन्तोदात्तः नुटः - अक्षण्वन्तः । ‘छन्दस्यपिदृश्यते, (७-१-७६) इत्यनङ् । ‘अनो नुट्’ (८-२-१६) अन्तोदात्तादित्युक्तेः क्रतुमाँ अनेनेत्यत्र न अक्षण्वन्त इत्यादौ ह्रस्वादित्येव सिद्धे नुड्ग्रहः स्वरविधौ व्यञ्जनमसद्वदित्येतदत्र नेति ज्ञापनार्थः । तेन मरुत्वां इन्द्रेत्यत्रान्तोदात्तत्वं न ।<!रेशब्दान्मतुबुदात्तो वाच्यः!> (वा. ६-१-१७६) रेवन्तं३हित्वा४ । त्रर्नैति वाच्यम्’ (वा. ६-१-१७६) । त्रिवतीर्यज्यानुवाक्या भवन्ति । ह्रस्वत्वेऽपि प्रथमैकवचनेऽवर्णान्तत्वात्साववर्ण— (६-१-१८२) इति वक्ष्यमाणनिषेधेन सगुणानो अद्भिर्देववान् इत्यादौ मतुबुदात्तो न स्यात् । पितृमानहं भूयासम् इत्यादौ तु पितेति साववर्णान्तत्वेऽपि ‘न गोश्वन्—’ (६-१-१८२) इत्यत्र शुनो नलोपे ‘साववर्ण’त्येव निषेधे सिद्धे श्वन्ग्रहणादस्मिन् निषेधेऽपि न लोपोऽसिद्ध इति ज्ञापनान्मतुबुदात्त इति हरः ।