61174: उदात्तयणो हल्पूर्वात्¶
Padacheda: उदात्तयणः | S | 5 | 1 |
हल्-पूर्वात् | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The same endings have the acute accent, when for the acutely accented final vowel of the stem, a semi-vowel is substituted, and which is preceded by a consonant.
Vasu English Translation¶
The same endings have the acute accent, when for the acutely accented final vowel of the stem, a semi-vowel is substituted, and which is preceded by a consonant. Thus क॒र्तृ꣡ + ई = क॒र्त्री꣡; क॒र्त्रा꣡, ह॒र्त्री꣡, ह॒र्त्रा꣡, प्र॒ल॒वि॒त्री꣡, प्रलवित्रा꣡ ॥ प्र॒स॒वि॒त्री꣡, प्र॒स॒वि॒त्रा꣡ ॥ All these are तृच् ending words and have consequently acute accent on the final (6.1.63). Why ‘acutely accented final vowel is replaced &c’? Observe क꣡र्त्री, क꣡र्त्रा, ह꣡र्त्री, ह꣡र्त्रा, formed by तृन् having acute on the first syllable. Why do we say ‘preceded by a consonant’? Observe बहुतित॒उ꣡ — बहुतित॒वा॑ ब्राह्मण्या (8.2.4) बहूनि तितऊनि अस्या इति बहुव्रीहिः ॥ This compound with बहु gets udatta on the final by (6.2.175). In making the Instrumental singular of बहुतितउ, the उ is replaced by व्, but as this व् is preceded by a vowel, the affix gets the svarita accent.
Vart:- The rule applies when the stem ends in न् though not in a semi-vowel, as वाक्पत्नी꣡, चित्प॒त्नी꣡ ॥
Bhashya¶
उदात्तयणो हल्पूर्वात् (2611) (पदकृत्यभाष्यम्) हल्पूर्वादिति किमर्थम् ? अग्नये, वायवे ॥ (6294 न्यासान्तरेण लक्ष्यसिद्धिबोधकवार्तिकम् ॥ 1 ॥) - उदात्तयणि हल्ग्रहणं नकारान्तार्थम् - उदात्तयणि हल्ग्रहणं कर्तव्यम् । किं प्रयोजनम् ? नकारान्तार्थम् । नकारान्तादपि यथा स्यात् । वाक्पत्नी, चित्पत्नी ॥ (6295 हल्पूर्वग्रहणानर्थक्यबोधकवार्तिकम् ॥ 2 ॥) - हल्पूर्वग्रहणानर्थक्यं च समुदायादेशत्वात् - हल्पूर्वग्रहणं चानर्थकम् । किं कारणम् ? समुदायादेशत्वात् । समुदायोऽत्रादेशः ॥ (6296 आनर्थक्योपष्टम्भकवार्तिकम् ॥ 3 ॥) - स्वरितत्वे वावचनात् - स्वरितत्वे च हल्पूर्वग्रहणस्यावचनात् मन्यामहे - हल्पूर्वग्रहणमनर्थकमिति ॥ (वार्तिकत्रयप्रत्याख्यानभाष्यम्) यत्तावदुच्यते - उदात्तयणि हल्ग्रहणं नकारान्तार्थमिति, क्रियते न्यास एव । द्विनकारको निर्देशः - उदात्तयणो हल्पूर्वान्नोङ्धात्वोरिति ॥ यदप्युच्यते - हल्पूर्वग्रहणानर्थक्यं च समुदायादेशत्वादिति, अयमस्ति केवल आदेशः - बहुतितवा, बहुतितवे - इति ॥
Kashika¶
उदात्तस्थाने यो यण् हल्पूर्वस्तस्मात् परा नदी अजाद्यसर्वनामस्थानविभक्तिरुदात्ता भवति। क॒र्त्री। ह॒र्त्री। प्॒रल॒वि॒त्री। प्॒रस॒वि॒त्री। क॒र्त्रा। ह॒र्त्रा। प्॒रल॒वि॒त्रा। प्॒रस॒वि॒त्रा। तृजन्ता एतेऽन्तोदात्ताः। उदात्तग्रहणं किम् ? कर्त्री॑। हर्त्री॑। कर्त्रा॑। हर्त्रा॑। तृन्नन्तोऽयमाद्युदात्तः हल्पूर्वादिति किम् ? ब॒हु॒ति॒त॒वा॑ ब्राह्मण्या॥ नकारग्रहणं कर्तव्यम्॥ वा॒क्प॒त्नी इयं कन्या॥
Siddhanta Kaumudi¶
उदात्तस्थाने यो यण् हल्पूर्वस्तस्मात्परा नदी शसादिर्विभक्तिश्च उदात्ता स्यात् । चोदयित्री सूनृतानाम् (चो॒द॒यि॒त्री सू॒नृता॑नाम्) । एषा नेत्री (ए॒षा ने॒त्री) । ऋतं देवाय कृण्वते सवित्रे (ऋ॒तं दे॒वाय॑ कृण्वते॒ स॑वि॒त्रे) ॥
Nyaas¶
उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (8.2.4) इति प्राप्ते वचनम्। तृन्नन्तोऽयमाद्युदातः इति। नित्स्वरेण। बहुतितवा इति। वहवस्तितवो यस्या इति बहुव्रीहिः, तया बहुतितवेति। तितौशब्दोऽयं बहोर्नञ्वदुत्तरपदभूम्नि (6.2.175) इत्यन्तोदात्तः। नकारग्रहणं कर्तव्यम् इति। नकारो गृह्रते येन तन्नकारग्रहणं व्याख्यानं कर्तव्यमित्यर्थः। तत्रेदं व्याख्यानम् - इहापि पूर्ववद्बहुलग्रहणमनुवर्तते। तेनोदात्तस्य स्थाने यो नकारस्ततोऽपि न भविष्यतीति। अथ वा - नकारस्यात्र प्रश्लेषः - हल्पूर्वात्? नोङ्धात्वोः (6.1.175) इति, तथा चायमर्थो भवति - उदात्तयण उदात्तनकारच्चेति। तेनोदात्तनकारादपि भविष्यतीति। वाक्पत्नी इति। पतिशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। तत्र विभाषा सपूर्वस्य (4.1.34) इति नकारान्तादेशः, ऋन्नेभ्यो ङीप् (4.1.5) इति ङीप्॥
Prakriyasarvasvam¶
हल् पूर्वपदस्तस्थानज यणः परा नदी उक्तसुप् चोदात्तः स्यात् । तृच् । कर्त्री । उदात्तः ।<!नकाराच्च वाच्यम्!> (वाः) वाक्पत्नी ।