61174: उदात्तयणो हल्पूर्वात् ============================ **Padacheda:** उदात्तयणः | S | 5 | 1 | हल्-पूर्वात् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The same endings have the acute accent, when for the acutely accented final vowel of the stem, a semi-vowel is substituted, and which is preceded by a consonant. Vasu English Translation ------------------------ The same endings have the acute accent, when for the acutely accented final vowel of the stem, a semi-vowel is substituted, and which is preceded by a consonant. Thus क॒र्तृ꣡ + ई = क॒र्त्री꣡; क॒र्त्रा꣡, ह॒र्त्री꣡, ह॒र्त्रा꣡, प्र॒ल॒वि॒त्री꣡, प्रलवित्रा꣡ ॥ प्र॒स॒वि॒त्री꣡, प्र॒स॒वि॒त्रा꣡ ॥ All these are तृच् ending words and have consequently acute accent on the final (6.1.63). Why 'acutely accented final vowel is replaced &c'? Observe क꣡र्त्री, क꣡र्त्रा, ह꣡र्त्री, ह꣡र्त्रा, formed by तृन् having acute on the first syllable. Why do we say 'preceded by a consonant'? Observe बहुतित॒उ꣡ — बहुतित॒वा॑ ब्राह्मण्या (8.2.4) बहूनि तितऊनि अस्या इति बहुव्रीहिः ॥ This compound with बहु gets *udatta* on the final by (6.2.175). In making the Instrumental singular of बहुतितउ, the उ is replaced by व्, but as this व् is preceded by a vowel, the affix gets the *svarita* accent. Vart:- The rule applies when the stem ends in न् though not in a semi-vowel, as वाक्पत्नी꣡, चित्प॒त्नी꣡ ॥ Bhashya ------- उदात्तयणो हल्पूर्वात् (2611) (पदकृत्यभाष्यम्) हल्पूर्वादिति किमर्थम् ? अग्नये, वायवे ॥ (6294 न्यासान्तरेण लक्ष्यसिद्धिबोधकवार्तिकम् ॥ 1 ॥) - उदात्तयणि हल्ग्रहणं नकारान्तार्थम् - उदात्तयणि हल्ग्रहणं कर्तव्यम् । किं प्रयोजनम् ? नकारान्तार्थम् । नकारान्तादपि यथा स्यात् । वाक्पत्नी, चित्पत्नी ॥ (6295 हल्पूर्वग्रहणानर्थक्यबोधकवार्तिकम् ॥ 2 ॥) - हल्पूर्वग्रहणानर्थक्यं च समुदायादेशत्वात् - हल्पूर्वग्रहणं चानर्थकम् । किं कारणम् ? समुदायादेशत्वात् । समुदायोऽत्रादेशः ॥ (6296 आनर्थक्योपष्टम्भकवार्तिकम् ॥ 3 ॥) - स्वरितत्वे वावचनात् - स्वरितत्वे च हल्पूर्वग्रहणस्यावचनात् मन्यामहे - हल्पूर्वग्रहणमनर्थकमिति ॥ (वार्तिकत्रयप्रत्याख्यानभाष्यम्) यत्तावदुच्यते - उदात्तयणि हल्ग्रहणं नकारान्तार्थमिति, क्रियते न्यास एव । द्विनकारको निर्देशः - उदात्तयणो हल्पूर्वान्नोङ्धात्वोरिति ॥ यदप्युच्यते - हल्पूर्वग्रहणानर्थक्यं च समुदायादेशत्वादिति, अयमस्ति केवल आदेशः - बहुतितवा, बहुतितवे - इति ॥ Kashika ------- उदात्तस्थाने यो यण् हल्पूर्वस्तस्मात् परा नदी अजाद्यसर्वनामस्थानविभक्तिरुदात्ता भवति। क॒र्त्री। ह॒र्त्री। प्॒रल॒वि॒त्री। प्॒रस॒वि॒त्री। क॒र्त्रा। ह॒र्त्रा। प्॒रल॒वि॒त्रा। प्॒रस॒वि॒त्रा। तृजन्ता एतेऽन्तोदात्ताः। उदात्तग्रहणं किम् ? कर्त्री॑। हर्त्री॑। कर्त्रा॑। हर्त्रा॑। तृन्नन्तोऽयमाद्युदात्तः हल्पूर्वादिति किम् ? ब॒हु॒ति॒त॒वा॑ ब्राह्मण्या॥ नकारग्रहणं कर्तव्यम्॥ वा॒क्प॒त्नी इयं कन्या॥ Siddhanta Kaumudi ----------------- उदात्तस्थाने यो यण् हल्पूर्वस्तस्मात्परा नदी शसादिर्विभक्तिश्च उदात्ता स्यात् । चोदयित्री सूनृतानाम् (चो॒द॒यि॒त्री सू॒नृता॑नाम्) । एषा नेत्री (ए॒षा ने॒त्री) । ऋतं देवाय कृण्वते सवित्रे (ऋ॒तं दे॒वाय॑ कृण्वते॒ स॑वि॒त्रे) ॥ Nyaas ----- **उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य** (8.2.4) इति प्राप्ते वचनम्। `तृन्नन्तोऽयमाद्युदातः` इति। नित्स्वरेण। `बहुतितवा` इति। वहवस्तितवो यस्या इति बहुव्रीहिः, तया बहुतितवेति। तितौशब्दोऽयं **बहोर्नञ्वदुत्तरपदभूम्नि** (6.2.175) इत्यन्तोदात्तः। `नकारग्रहणं कर्तव्यम्` इति। नकारो गृह्रते येन तन्नकारग्रहणं व्याख्यानं कर्तव्यमित्यर्थः। तत्रेदं व्याख्यानम् - इहापि पूर्ववद्बहुलग्रहणमनुवर्तते। तेनोदात्तस्य स्थाने यो नकारस्ततोऽपि न भविष्यतीति। अथ वा - नकारस्यात्र प्रश्लेषः - हल्पूर्वात्? **नोङ्धात्वोः** (6.1.175) इति, तथा चायमर्थो भवति - उदात्तयण उदात्तनकारच्चेति। तेनोदात्तनकारादपि भविष्यतीति। `वाक्पत्नी` इति। पतिशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। तत्र **विभाषा सपूर्वस्य** (4.1.34) इति नकारान्तादेशः, `ऋन्नेभ्यो ङीप्` (4.1.5) इति ङीप्॥ Prakriyasarvasvam ----------------- हल् पूर्वपदस्तस्थानज यणः परा नदी उक्तसुप् चोदात्तः स्यात् । तृच् । कर्त्री । उदात्तः । (वाः) वाक्पत्नी ।