61150: विष्किरः शकुनौ वा¶
Padacheda: विष्किरः | S | 1 | 1 |
शकुनौ | S | 7 | 1 |
वा | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The word विषिकर is formed with सुट् optionally when denoting a kind of bird, the other form being विकार।
Vasu English Translation¶
The word विषिकर is formed with सुट् optionally when denoting a kind of bird, the other form being विकार। Verse
सर्वे शकुनयो भक्ष्या विष्किराः कुक्कुटादृते ।
This word is formed by adding the affix क (3.1.135) to कृ with the preposition वि and the augment सुट् ॥ The word विकिर also refers to birds only, a kind of cock. The phrase शकुनिर्विकिरा वा is added from the Vartika and is no part of the original sutra. Thus सर्वे शकुनयो भक्ष्या विष्किराः कुक्कुटादृत ॥ Though the sutra विष्किरोवाशकुनौ would have given the optional form विकिर, the specific mention of this form in the sutra indicates that विकिर always means ‘bird’ and nothing else. Otherwise विकिर would have referred to some thing other than a bird.
Bhashya¶
विष्किरः शकुनौ वा (2583) (6255 उपसंख्यानवार्तिकम् ॥ 1 ॥) - विष्किरः शकुनौ विकिरो वा - विष्किरः शकुनौ विकिरो वेति वक्तव्यम् । शकुनौ वेत्युच्यमाने शकुनौ वा स्यादन्यत्रापि नित्यम् ॥ (उपसंख्यानानर्थक्यबोधकभाष्यम्) तत्तर्हि वक्तव्यम् । न वक्तव्यम् । न वावचनेन शकुनिरभिसंबध्यते । किं तर्हि ? निपातनमभिसंबध्यते - विष्किर इत्येतन्निपातनं शकुनौ वा निपात्यत इति ॥
Kashika¶
विष्किर इति किरतेर्विपूर्वस्य इगुपधज्ञाप्रीकिरः कः (३.१.१३५) इति कप्रत्यये विहिते सुट् निपात्यते शकुनिश्चेद् भवति। विकिरशब्दाभिधेयो वा शकुनिर्भवति।
सर्वे शकुनयो भक्ष्या विष्किराः कुक्कुटादृते।
विष्किरो वा शकुनाविति वा ग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणमिह तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत्॥
Siddhanta Kaumudi¶
पक्षे विकिरः । वावचनेनैव सुड्विकल्पे सिद्धे विकिरग्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत् इति वृत्तिस्तन्न । भाष्यविरोधात् ॥
Balamanorama¶
कास्तीराजस्तुन्दे नगरे (कारस्करो वृक्षः) - कारस्करो वृक्ष । कारं करोतीति विग्रहः ।कृञो हेतुताच्छील्ये॑ इति टः ।
Tattvabodhini¶
कास्तीराजस्तुन्दे नगरे (कारस्करो वृक्षः) - कातीरमिति ।ईषदर्थे॑ इति कोः कादेशः ।
Padamanjari¶
विष्किरो वेत्यादि। शकुनावभिधेये विष्किर इति वा सुण्निपात्यत इत्येतावतैव सुङ्विकल्पः सिद्ध इत्यर्थः। विकिरग्रहणमित्यादि। असति तस्मिन् कप्रत्ययान्तस्य विकिरशब्दस्य शकुनौ विकल्पार्थमेवेदं वचनं स्यादिति विकिरशब्दस्यान्यत्र प्रयोगो न निवर्तितः स्यादिति। पुनर्विकिरग्रहणे तु सति भवति। यथा तु भाष्यं तथा’विष्किरः शकुनौ वा’ इत्येतावत् सूत्रम् ॥
Nyaas¶
ननु च विष्किरः शकुनौ वा इत्येतावतैव सुङ्विक्लपः सिद्धः, तत्र किमर्थं विकिरग्रहणम्? इत्यत आह -शकुनावेव विकिरशब्दस्य प्रयोगो यथा स्यादन्यत्र मा भूदित्येवमर्थं विकिराग्रहणम् (इति)॥