61150: विष्किरः शकुनौ वा ======================== **Padacheda:** विष्किरः | S | 1 | 1 | शकुनौ | S | 7 | 1 | वा | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The word विषिकर is formed with सुट् optionally when denoting a kind of bird, the other form being विकार। Vasu English Translation ------------------------ The word विषिकर is formed with सुट् optionally when denoting a kind of bird, the other form being विकार। *Verse* सर्वे शकुनयो भक्ष्या विष्किराः कुक्कुटादृते । This word is formed by adding the affix क (3.1.135) to कृ with the preposition वि and the augment सुट् ॥ The word विकिर also refers to birds only, a kind of cock. The phrase शकुनिर्विकिरा वा is added from the *Vartika* and is no part of the original *sutra*. Thus सर्वे शकुनयो भक्ष्या विष्किराः कुक्कुटादृत ॥ Though the *sutra* विष्किरोवाशकुनौ would have given the optional form विकिर, the specific mention of this form in the *sutra* indicates that विकिर always means 'bird' and nothing else. Otherwise विकिर would have referred to some thing other than a bird. Bhashya ------- विष्किरः शकुनौ वा (2583) (6255 उपसंख्यानवार्तिकम् ॥ 1 ॥) - विष्किरः शकुनौ विकिरो वा - विष्किरः शकुनौ विकिरो वेति वक्तव्यम् । शकुनौ वेत्युच्यमाने शकुनौ वा स्यादन्यत्रापि नित्यम् ॥ (उपसंख्यानानर्थक्यबोधकभाष्यम्) तत्तर्हि वक्तव्यम् । न वक्तव्यम् । न वावचनेन शकुनिरभिसंबध्यते । किं तर्हि ? निपातनमभिसंबध्यते - विष्किर इत्येतन्निपातनं शकुनौ वा निपात्यत इति ॥ Kashika ------- विष्किर इति किरतेर्विपूर्वस्य **इगुपधज्ञाप्रीकिरः कः** (३.१.१३५) इति कप्रत्यये विहिते सुट् निपात्यते शकुनिश्चेद् भवति। विकिरशब्दाभिधेयो वा शकुनिर्भवति। सर्वे शकुनयो भक्ष्या विष्किराः कुक्कुटादृते। विष्किरो वा शकुनाविति वा ग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणमिह तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत्॥ Siddhanta Kaumudi ----------------- पक्षे विकिरः । वावचनेनैव सुड्विकल्पे सिद्धे विकिरग्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत् इति वृत्तिस्तन्न । भाष्यविरोधात् ॥ Balamanorama ------------ **कास्तीराजस्तुन्दे नगरे (कारस्करो वृक्षः)** - कारस्करो वृक्ष । कारं करोतीति विग्रहः ।कृञो हेतुताच्छील्ये॑ इति टः । Tattvabodhini ------------- **कास्तीराजस्तुन्दे नगरे (कारस्करो वृक्षः)** - कातीरमिति ।ईषदर्थे॑ इति कोः कादेशः । Padamanjari ----------- विष्किरो वेत्यादि। शकुनावभिधेये विष्किर इति वा सुण्निपात्यत इत्येतावतैव सुङ्विकल्पः सिद्ध इत्यर्थः। विकिरग्रहणमित्यादि। असति तस्मिन् कप्रत्ययान्तस्य विकिरशब्दस्य शकुनौ विकल्पार्थमेवेदं वचनं स्यादिति विकिरशब्दस्यान्यत्र प्रयोगो न निवर्तितः स्यादिति। पुनर्विकिरग्रहणे तु सति भवति। यथा तु भाष्यं तथा'विष्किरः शकुनौ वा' इत्येतावत् सूत्रम् ॥ Nyaas ----- ननु च `विष्किरः शकुनौ वा` इत्येतावतैव सुङ्विक्लपः सिद्धः, तत्र किमर्थं विकिरग्रहणम्? इत्यत आह -`शकुनावेव विकिरशब्दस्य प्रयोगो यथा स्यादन्यत्र मा भूदित्येवमर्थं विकिराग्रहणम्` (इति)॥