61113: अतो रोरप्लुतादप्लुते

Padacheda: अतः | S | 5 | 1 |

रोः | S | 6 | 1 |

अप्लुतात् | S | 5 | 1 |

अप्लुते | S | 7 | 1 |

Sutrartha

अप्लुत-ह्रस्व-अकारात् परस्य रुँ-इत्यस्य अप्लुत-ह्रस्व-अकारे परे उकारादेशः भवति ।

‘रुँ’ इति आदेशात् पूर्वम्, तस्माद् अनन्तरम् च यदि अप्लुतः ह्रस्वः अकारः विद्यते, तर्हि रुँ इत्यस्य भोभगोअघोअपूर्वस्य योऽशि (8.3.17) इत्यनेन प्राप्तम् यकारादेशं बाधित्वा प्रकृतसूत्रेण उकारादेशः भवति —‌ इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि — 1. ससजुषो रुँः (8.2.66) इत्यनेन पदान्तसकारस्य रुँत्वे कृते, अग्रे अकारः विद्यते चेत् प्रकृतसूत्रेण रेफस्य उत्वम् सम्भवति —

राम सुँ अस्ति
→ राम रुँ अस्ति [**ससजुषोः रुः** (8.2.66) इति रुत्वम् ]
→ राम उ अस्ति [**अतो रोरप्लुतादप्लुते** (6.1.113) इति रुँ-इत्यस्य उत्वम्]
→ रामो अस्ति [**आद्गुणः** (6.1.87) इति गुण-एकादेशः]
→ रामोस्ति [**एङः पदान्तादति** (6.1.109) इति पूर्वपरयोः एकः ओकारादेशः]
  1. अहन् (8.2.68) इत्यनेन पदान्तनकारस्य रुँत्वे कृते अग्रे अकारः विद्यते चेत् प्रकृतसूत्रेण रेफस्य उत्वम् सम्भवति —

अहन्  सुँ  अत्र [अहन्-शब्दस्य प्रथमैकवचनस्य रूपम् । ततः 'अत्र' इति शब्दः स्थापितः अस्ति ।]
→ अहन्  अत्र [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति अपृक्त-सुँ-प्रत्ययस्य लोपः ]
→ अहरुँ  अत्र [**अहन्** (8.2.68) इति रुत्वम्]
→ अह उ अत्र [**अतो रोरप्लुतादप्लुते** (6.1.113) इति रुँ-इत्यस्य उत्वम्]
→ अहो अत्र [**आद्गुणः** (6.1.87) इति गुण-एकादेशः]
→ अहोत्र [**एङः पदान्तादति** (6.1.109) इति पूर्वपरयोः एकः ओकारादेशः]
  1. सिपि धातोः रुर्वा (8.2.74) इति सूत्रेण धातोः अन्ते विद्यमानस्य सकारस्य सिप्-प्रत्यये परे विकल्पेन रुँ-आदेशः भवति । अस्मिन् आदेशे कृते अग्रे अकारः अस्ति चेत् प्रकृतसूत्रेण तस्य रुँत्वम् सम्भवति । यथा, ‘अहिनोऽत्र’ इति सन्धिः इत्थं सिद्ध्यन्ति —

हिसिँ (हिंसायाम्, रुधादिः, (7.19))
→ हिन्स् [**इदितो नुम् धातोः** (7.1.58)]
→ हिन्स्  लङ्  अत्र [**अनद्यतने लङ्** (3.2.111) इति लङ् । अग्रे 'अत्र' इति शब्देन सह अपि प्रक्रिया इष्यते अतः सः शब्दः अपि दर्शितः अस्ति ।]
→ अट्  हिन्स् लङ्  अत्र [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः]
→ अ हिन्स्  सिप् अत्र [**तिप्तस्झि..** (3.4.78) इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]।
→ अ  हिन्स्  स् अत्र [**इतश्च** (3.4.100) इति इकारलोपः]
→ अ  हि श्नम् न्स्  स् अत्र [**रुधादिभ्यः श्नम्** (3.1.78) इति श्नम्-विकरणम्]
→ अ  हि न न्स्  स् अत्र [इत्संज्ञालोपः]
→ अ हिन स्  स् अत्र [**श्नान्नलोपः** (6.4.23) इति नकारलोपः]
→ अ  हिन स् अत्र [**स्कोः संयोगाद्योरन्ते च** (8.2.29) इति सकारलोपः]
→ अ  हिन रुँ  अत्र [**सिपि धातो रुर्वा** (8.2.74) इति पाक्षिकं रुत्वम् ]
→ अ हिन उ अत्र [**अतो रोरप्लुतादप्लुते** (6.1.113) इति उत्वम्]
→ अ  हिनो अत्र [**आद्गुणः** (6.1.87) इति गुणैकादेशः]
→ अहिनोत्र [**एङः पदान्तादति** (6.1.109) इति ओकारादेशः]
  1. दश्च (8.2.75) इति सूत्रेण धातोः अन्ते विद्यमानस्य दकारस्य सिप्-प्रत्यये परे विकल्पेन रुँ-आदेशः भवति । अस्मिन् आदेशे कृते अग्रे अकारः अस्ति चेत् प्रकृतसूत्रेण तस्य रुँत्वम् सम्भवति । यथा, ‘अभिनोऽत्र’ इति सन्धिः इत्थं सिद्ध्यन्ति —

भिदिँर् (विदारणे, रुधादिः, (7.2))
→ भिद् [<! इर इत्संज्ञा वाच्या !> इति इँर्-इत्यस्य इत्संज्ञा । **तस्य लोपः**(1.3.9) इति लोपः]
→ भिद् लङ् अत्र [**अनद्यतने लङ्** (3.2.111) इति लङ् । अग्रे 'अत्र' इति शब्देन सह अपि प्रक्रिया इष्यते अतः सः शब्दः अपि दर्शितः अस्ति ।]
→ अट्  भिद्  लङ् अत्र [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः]
→ अ भिद् सिप्  अत्र [**तिप्तस्झि..** (3.4.78) इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]।
→ अ भिद्  स्  अत्र [**इतश्च** (3.4.100) इति इकारलोपः]
→ अ  भि श्नम् द् स्  अत्र [**रुधादिभ्यः श्नम्** (3.1.78) इति श्नम्-विकरणम्]
→ अ  भि न द्  स्  अत्र [इत्संज्ञालोपः]
→ अ भि न द्  अत्र [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति अपृक्त-सि-प्रत्ययस्य लोपः]
→ अ  भि न रुँ  अत्र [**दश्च** (8.2.75) इति पाक्षिकं रुत्वम् ]
→ अ  भिन उ  अत्र [**अतो रोरप्लुतादप्लुते** (6.1.113) इति उत्वम्]
→ अ भिनो अत्र [**आद्गुणः** (6.1.87) इति गुणैकादेशः]
→ अभिनोत्र [**एङः पदान्तादति** (6.1.109) इति ओकारादेशः]

प्रकृतसूत्रे स्थानीरूपेण निर्दिष्टः ‘रुँ’ इति शब्दः केवलं त्रिपादीसूत्रैः एव सिद्ध्यति, न हि कैश्चित् सपादसप्ताध्याय्याः सूत्रैः । अतः, अत्र सूत्रविधानसामर्थ्याद् एव **ससजुषोः रुः (8.2.66), अहन् (8.2.68), सिपि धातो रुर्वा (8.2.74), दश्च (8.2.75) इत्यादीनि सर्वाणि त्रिपादीसूत्राणि अतो रोरप्लुतादप्लुते (6.1.113) इति सपादसप्ताध्याय्याः सूत्रस्य कृते सिद्धानि एव सन्ति ।** रुत्वात् अनन्तरम् उत्वे कृते ततः सपादसप्ताध्याय्याः सूत्रैः पाठितम् गुणकार्यम् अपि इष्यते, अतएव इदं सूत्रम् आचार्यैः सपादसप्ताध्याय्यां संस्थाप्य, रुत्वं प्रति निर्देशसामर्थ्यात् सिद्धं ज्ञापितम् अस्ति । <note>**मतुवसो रु सम्बुद्धौ छन्दसि** (8.3.1) इत्यस्मात् आरभ्य कानाम्रेडिते (8.3.12) इति यावद्भिः सूत्रैः अपि रुत्वम् आदेशरूपेण विधीयते । अस्य रुत्वस्य विषये अपि प्रकृतसूत्रस्य प्रसक्तिः अस्ति, परन्तु तत्र अस्य सूत्रस्य प्रयोगः केवलं वैदिकसन्दर्भे एव भवति । लौकिकसंस्कृतस्य उदाहरणे तु तत्र निर्देशात् रुँ इति आदेशात् अनन्तरम् पूर्वम् वा ह्रस्वः अकारः नैव सम्भवति, अतः प्रकृतसूत्रम् अपि तत्र नैव प्रवर्तते ।</note>

दलकृत्यम्

1. अतः इत्यत्र तपरकरणम् किमर्थम् ? एवमेव अति इत्यत्र (अनुवृत्तौ) तपरकरणम् किमर्थम् ? ****तपरस्तत्कालस्य (1.1.70) इत्यनेन अकारस्य केवलम् तात्कालिकभेदानाम् (ह्रस्वभेदानाम्) ग्रहणं कर्तुम् अत्र अकारस्य तपरकरणम् कृतम् अस्ति । ‘अति’ इत्यत्र तपरकरणेन अकारस्य दीर्घभेदस्य (आकारस्य) ग्रहणं न भवति । अतः आकारात्-परस्य रुँ-आदेशस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, “देवा सुँ अत्र → देवा रुँ अत्र → देवा अत्र” — अस्याम् प्रक्रियायाम् उत्वं न भवति । एवमेव, ‘अति’ इत्यत्र तपरकरणेन अपि दीर्घभेदस्य (आकारस्य) ग्रहणं न भवति । अतः आकारे परे रुँ-आदेशस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, “राम सुँ आसीत् → राम रुँ आसीत् → राम आसीत्” — अस्याम् प्रक्रियायाम् उत्वं न भवति । 2. रोः इत्यत्र ‘रु’ इति उकारान्तस्य ग्रहणम् किमर्थम्? ** इदं सूत्रम् केवलम् ‘रुँ’ इति आदेशस्य विषये एव प्रवर्तते, ‘र्’ इत्यस्य विषये न प्रवर्तते, अतः अस्मिन् सूत्रे ‘रु’ शब्दः साक्षात् स्वीकृतः अस्ति । यथा, “पुनर् + अत्र → पुनरत्र” —‌ अस्याम् प्रक्रियायाम् उत्वं न भवति । **3. ‘अति’ इति अनुवृत्त्या ह्रस्व-अकारस्यैव ग्रहणे जाते ‘अप्लुते’ इति किमर्थम् ? एवमेव ‘अतः’ इत्यनेन ह्रस्व-अकारस्यैव ग्रहणे जाते ‘अप्लुतात्’ इति किमर्थम् ? ‘प्लुत’ इति संज्ञा केवलम् वाक्यस्य टेः प्लुत उदात्तः (8.2.82) इत्यस्मिन् अधिकारे विद्यमानैः सूत्रैः एव सम्भवति । एतानि सर्वाणि सूत्राणि त्रिपाद्याम् विद्यन्ते, अतः अतो रोरप्लुतादप्लुते (6.1.113) इत्यस्य कृते एतानि असिद्धानि सन्ति । अतः, यत्र मूलरूपेण ह्रस्वसंज्ञकस्य अकारस्य त्रिपादीसूत्रेण प्लुतादेशः भवति, तत्र अतो रोरप्लुतादप्लुते (6.1.113) इत्यनेन मूलः ह्रस्वः अकारः एव दृश्यते । अस्यां स्थितौ अतो रोरप्लुतादप्लुते (6.1.113) इत्यनेन तत्र अनिष्टं रुत्वम् सम्भवति । यथा, ‘तिष्ठतु पय-रुँ अ३ग्निदत्त’ अस्मिन् वाक्ये अग्निदत्तशब्दस्य अकारस्य गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् (8.2.86) इति सूत्रेण प्लुतसंज्ञा भवति । अस्याः असिद्धत्वात् अतो रोरप्लुतादप्लुते (6.1.113) इति सूत्रेण ‘तिष्ठतु पय-रुँ अग्निदत्त’ इति ह्रस्व-अकारघटितम् रूपम् एव दृश्यते, अतश्च रुँ-इत्यस्य उत्वम् अपि सम्भवति । तन्निवारणाय एव अस्मिन् सूत्रे ‘अप्लुते’ इति शब्दः स्वीक्रियते । ‘अप्लुते’ इति ग्रहणेन अतो रोरप्लुतादप्लुते (6.1.113) इत्यस्य सूत्रस्य कृते त्रिपादीसूत्रैः विहिता प्लुतसंज्ञा सिद्धा भवति, ततश्च प्लुत-अकारस्य विषये प्राप्तम् उत्वम् अपि निषिध्यते । एवमेव “सुस्रोत3रुँ अत्र” इत्यत्र दूराद्धूते च (8.2.84) इति सूत्रेण तकारोत्तस्य अकारस्य प्राप्तायाः प्लुतसंज्ञायाः असिद्धत्वात् तत्र ह्रस्व-अकारम् एव दृष्ट्वा उत्वम् मा भूत् इति हेतुना अस्मिन् सूत्रे ‘अप्लुते’ इति अपि स्वीक्रियते । ** वस्तुतस्तु अत्र भाष्ये ‘अप्लुतात्’ तथा ‘अप्लुते’ इत्येतयोः द्वयोः अपि शब्दयोः अस्मात् सूत्रात् एकदेशिना प्रत्याख्यानम् कृतम् अस्ति ।** तत्र आशयः अयम् — प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इति सूत्रे विद्यमानेन ‘प्लुत’ तथा ‘अचि’ इति शब्दाभ्याम् सामान्यरूपेण&nbsp; संहिताधिकारे सर्वत्र एव प्लुतशब्दस्य सिद्धत्वम् स्वीक्रियते । एतादृशं क्रियते चेत् प्रकृतसूत्रस्य कृते प्लुतसंज्ञा तादृशी एव सिद्धा भवति, अतः अत्र ‘अतः’ तथा ‘अति’ इति तपरकरणेन यथा दीर्घभेदस्य ग्रहणम् निषिध्यते, तथैव प्लुतभेदस्य ग्रहणम् अपि निषिध्येत; अतश्च अस्मिन् सूत्रे अप्लुतग्रहणम् अनावश्यम् —‌ इति । अस्मिन् सन्दर्भे विद्यमानम् भाष्यम्, तदुपरि विद्यमानम् कैयटनागेशयोः व्याख्यानम् अधः दर्शितम् अस्ति । अधिकम् पिपठिषवः मूलग्रन्थान् एव पश्येयुः । <source> **भाष्यम् — **सिद्धः प्लुतः स्वरसन्धिषु । कथं ज्ञायते ? यद् अयं प्लुतः ‘प्रकृत्या’ इति प्लुतस्य प्रकृतिभावं शास्ति । सतो हि कार्यिणः कार्येण भवितव्यम् । **प्रदीपः — ** यदयम् इति । सामान्येन संहिताधिकारविहितकार्यापेक्षम् ज्ञापकम् आश्रीयते । **उद्द्योतः — ** सामान्येन इति । तदा एवम् अत्र पक्षे ‘अप्लुतादप्लुते’ इत्येतत् प्रत्याख्यातम् । </source>

Sutrartha (English)

A रुँ letter that is sandwiched between an अप्लुत-ह्रस्व-अकार from each side is converted to an उकार.

Vasu English Summary

The उ is the substitute of रु (the र् substitute of a final स् (8.2.66)) when an अ , which is not a प्लुत, both precedes and follows it.

Vasu English Translation

The उ is the substitute of रु (the र् substitute of a final स् (8.2.66)) when an अ , which is not a प्लुत, both precedes and follows it. The phrase उत् is understood here, as well as the word आत् of (6.1.109), (6.1.111). Thus वृक्ष + सु (Ist singular) = वृक्षस् = वृक्षर् (8.2.66). वृक्षर् + अत्र = वृक्षउ + अत्र = वृक्षो + अत्र (6.1.87) = वृक्षोऽत्र (6.1.109); so also प्लक्षोऽत्र ॥ This ordains उ for र्, whereby (8.3.17), there would have been otherwise य; and this उ does not become asiddha (as it depends upon रु (8.2.66)) for the purposes of (8.3.17), as it otherwise would have been by (8.2.1).

Why do we say ‘after an अ’? Observe अग्निर् + अत्र = अग्निरत्र ॥ Why do say ‘a short अ’? Observe वृक्षाः + अत्र = वृक्षा अत्र ॥ Why do we use रु with its indicatory उ, and not use the र् generally? Observe स्वर् + अत्र = स्वरत्र, प्रातर् + अत्र = प्रातरत्र ॥ Here the final र् is part of the words, and is not produced from स् ॥ The word अति is understood here also from (6.1.109). The र must be followed by a short अ, therefore, not here: वृक्षर् + इह = वृक्ष इह ॥ The subsequent अ must be short, the rule does not apply here वृक्षर् + आश्रितः = वृक्ष आश्रितः ॥ Why do we say ‘preceded by an apluta अ’ ? The rule will not apply if a Pluta vowel precedes it. As, सुस्रोता ३ अत्र त्वमसि (8.2.84). Why do we say “when followed by an apluta अ”? Observe तिष्ठतु पय आ३ग्निदत्त (8.2.86). Here प्लुत being held asiddha, there would have been उ substitution, had not the phrase अप्लुते been used in the aphorism.

Bhashya

अतो रोरप्लुतादप्लुते (2550) (रुत्वाधिकरणम्) (पदाक्षेपभाष्यम्) किमर्थमप्लुतादप्लुत इत्युच्यते ? (समाधानभाष्यम्) प्लुतात्परस्य प्लुते वा परतो मा भूत् - इति । प्लुत्पतारस्य - सुस्रोता 3 अत्र न्वसि । प्लुते परतः - तिष्ठतु पय आ3ग्निदत्त । अतः - अति इत्युच्यते, कः प्रसङ्गः प्लुतात्परस्य प्लुते वा परतः स्यात् ? असिद्धः प्लुतः, तस्यासिद्धत्वात् प्राप्नोति ॥ (अप्लुताप्लुतपदार्थनिर्णये एकदेशिभाष्यम्) अथ अप्लुतात् - अप्लुते इत्युच्यमानेऽपि यावताऽसिद्धः प्लुतः, कस्मादेवात्र न प्राप्नोति ? अप्लुतभाविनोऽप्लुतभाविनीत्येवमेतद्विज्ञायते ॥ (एकदेशिनोज्ञापकाश्रयेण समाधानभाष्यम्) नैतदस्ति प्रयोजनम्। सिद्धः प्लुतः स्वरसंधिषु। कथं ज्ञायते? यदयं प्लुतः प्रकृत्येति प्लुतस्य प्रकृतिभावं शास्ति, सतो हि कार्यिणः कार्येण भवितव्यम्॥ (6216 एकदेशिवार्तिकम् ॥ 1 ॥) - अप्लुतादप्लुतवचनेऽकारहशोः समानपदे प्रतिषेधः - अप्लुतादप्लुतवचनेऽकारहशोः समानपदे प्रतिषेधो वक्तव्यः । पयो3ट्, पयो3द ॥ (6217 समाधानवार्तिकम् ॥ 2 ॥) - न वा बहिरङ्गलक्षणत्वात् - न वा वक्तव्यम् । किं कारणम् ? बहिरङ्गलक्षणत्वात् । बहिरङ्गः प्लुतः, अन्तरङ्गमुत्वम् । असिद्धं बहिरङ्गमन्तरङ्गे ॥ इहापि तर्हि प्राप्नोति - सुस्रोता3 अत्र न्वसि । अन्तरङ्गोऽत्र प्लुतः बहिरङ्गमुत्वम् ॥ (प्लुतोत्वयोरन्तरङ्गत्वबहिरङ्गत्वव्यवस्थापकभाष्यम्) क्व पुनरिहान्तरङ्गः प्लुतः क्व वा बहिरङ्गमुत्वम्, उत्वं वाऽन्तरङ्गम् - प्लुतो वा बहिरङ्गः ? वाक्यान्तस्य वाक्यादावन्तरङ्गः प्लुतः, बहिरङ्गमुत्वम् । समानवाक्ये पदान्तस्य पदादावुत्वमन्तरङ्गम्, बहिरङ्गः प्लुतः ॥ (सिद्धान्तभाष्यम्) किं पुनः कारणं बहिरङ्गत्वमुत्वे हेतुर्व्यपदिश्यते, न पुनरसिद्धत्वमपि ? यथैव ह्ययं बहिरङ्ग एवमसिद्धोऽपि । एवं मन्यते - असिद्धः प्लुत आश्रयात्सिद्धो भवति ॥ अथवा यस्यां नाप्राप्तायां परिभाषायामुत्वमारभ्यते, साऽऽश्रयात्सिद्धा स्यात् । कस्यां च नाप्राप्तायाम् ? असिद्धपरिभाषायाम् । बहिरङ्गपरिभाषायां पुनः प्राप्तायामप्राप्तायां च ॥

Kashika

अति, उदिति वर्तते। अकारादप्लुतादुत्तरस्य रो रेफस्य उकारानुबन्धविशिष्टस्याकारेऽप्लुते परत उकारादेशो भवति। वृक्षोऽत्र। प्लक्षोऽत्र। भोभगोअघोअपूर्वस्य योऽशि (८.३.१७) इत्यस्मिन् प्राप्त उत्वं विधीयते। रुत्वमप्याश्र्यत्वात् पूर्वत्रासिद्धम् (८.२.१) इत्यसिद्धं न भवति। अत इति किम् ? अग्निरत्र। तपरकरणं किम् ? वृक्षा अत्र। सानुबन्धग्रहणं किम् ? स्वरत्र। प्रातरत्र। अतीत्येव — वृक्ष इह। तस्यापि तपरत्वादत्र न भवति — वृक्ष आश्र्तिः। अप्लुतादिति किम् ? सुस्रोत३ अत्र न्वसि। अप्लुत इति किम् ? तिष्ठतु पय अ३श्विन् । अत्र प्लुतस्यासिद्धत्वादुत्वं प्राप्नोतीत्यप्लुतादप्लुत इत्युच्यते ॥

Siddhanta Kaumudi

अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति । भोभगोअघो (SK167) इति प्राप्तस्य यत्वस्यापवादः । उत्वं प्रति रुत्वस्यासिद्धत्वं तु न भवति । रुत्वमनूद्य उत्वविधेः सामर्थ्यात् ॥

Laghu Siddhanta Kaumudi

अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति। शिवोऽर्च्यः॥

Balamanorama

अतो रोरप्लुतादप्लुते - शिवर् अच्र्य इति स्थिते — अतो रोः ।ऋत उ॑दित्यत उदित्यनुवर्तते । ‘अत’ इति पञ्चमी ।एङः पदान्तादती॑त्यतोऽतीत्यनुवर्तते । तदाह — अप्लुतादिति । नन्वत्र उत्वं बाधित्वाभोभगोअघोअपूर्वस्य योऽशि॑ इति यत्वं परत्वात्स्यात् । नच यत्वस्यासिद्धत्वादुत्वं निर्बाधमिति वाच्यं, कृते ।ञपि उत्वे तस्य स्थानिवत्त्वेन रुत्वाद्यत्वस्य दुर्निवारत्वादत आह — यत्वस्यापवाद इति । यद्यपि भोभगोअघो इत्यंशे उत्वं नापवादः, तथाप्यपूर्वस्येत्यंशे उत्वमपवादः प्राप्त एव अपूर्वकस्य रोर्यत्वे अतो रोरित्यस्यारम्भादिति भावः । ननूत्वं प्रति रोरसिद्धत्वात् कथमुत्वं तस्येत्यत आह — उत्वं प्रतीति ।

Tattvabodhini

अतो रोरप्लुतादप्लुते - यत्वस्यासिद्धत्वादुत्वे कृतेऽपि तस्य स्थानिवत्त्वेन रुत्वाद्यत्वं स्यादित्याशङ्कायामाह-यत्वस्यापवाद इति । उत्वविधेः सामर्थ्यादिति । न चअतो रोरप्लुता॑दिति सूत्रं परित्यज्यरोः सुपी॑ति सूत्रानन्तरम्अत उरती॑त्येव लाघवादुच्यतां किमनेन सामर्थ्याश्रयणप्रयासेनेति वाच्यम्; तथाहि सति उत्बस्यासिद्धतयाशिवोऽच्र्य॑ इत्यादावाद्गुणस्याऽप्रवृत्तिप्रसङ्गात् ।

Padamanjari

उकारानुबन्धकस्येति। यदि रुशब्दसमुदायः स्थानी स्याद्, अगुर्वर्थम्, तर्वर्थमित्यादावपि प्रसज्येत।’ससजुषो रुः’ इत्यत्र चोकारस्यानुनासिकत्वप्रतिज्ञयाऽनुबन्धकरणमनर्थकं स्यात्, तद्ध्यत्रैव सूत्रे विशेषणार्थं क्रियते। रुत्वमपीति। अपिशब्दः पुनः शब्दस्यार्थे। यदि पुना रुत्वमसिद्धं स्यात्, स्थानित्वेनाश्रयणमनुपपन्नं स्यात्; उकारानुबन्धकस्य कस्यचिद्रोरभावात्। तस्यापीति। निमितबूतस्यापीत्यर्थः। सुस्रोता3 अत्र न्वसीति।’दूराद्धूते च, इति प्लुतः, नुशब्दः प्रश्ने। अश्विन् आत्रेति। अश्वशब्दान्मत्वर्थीय इनिः, सम्बुद्ध्यन्तं चैतत्,’गुरोरनृतः’ इति प्लुतः, हे अश्विन् अत्रैव प्रदेशे पयस्तिष्ठत्वित्यर्थः। प्रायेण तु तकारान्तं पठ।ल्ते, तत्राश्विच्छन्दस्य व्युत्पत्तिर्मृग्या। ननु तपरकरणादेव प्लुतात्परस्य प्लुते वा परतो न भविष्यति, यथा दीर्घे ? तत्राह -प्लुतस्यासिद्धत्वादिति। ननु च सिद्धः प्लुतः स्वरसन्धिषु यदयं’प्लुतप्रगृह्या अचि’ इति प्रकृतिभावं शास्ति, यस्य हि विकारः प्राप्नोति तस्य प्रकृतिभावो विधातव्यः, न च प्लुतस्यासिद्धत्वे प्लुतस्य सतो विकारप्राप्तिरित्यनर्थकं तत् स्यात्? अस्तु स्वरसन्धिषु प्लतः सिद्धः, रोरुत्वं तु स्वरसन्धिर्न भवति। यदि तु संहिताधिकारे यद्विधीयते तन्मात्रविषयं ज्ञापकमाश्रीयते शक्यमकर्तम् -ठप्लुतादप्लुते’ इति ॥

Nyaas

उकारानुबन्धकस्य इति। यदि रुशब्दः समुदायः स्थानो स्यात्, तदा महातरुवनमित्यत्रापि हशि च (6.1.110) इत्युत्वं प्रसज्येत। किञ्च ससजुषो रुः (8.2.66) इत्युकारानुबन्धकरणमनर्थकं स्यात्। तत्र ह्रु कारोऽस्य सूत्रसय विशेषणार्थः क्रियते, स इह समुदाये स्थानिन्यनर्थको जायते। तस्मादुकारानुबन्धवत इदं ग्रहणम्। ननु चोत्त्वे कर्तव्ये पूर्वत्रासिद्धम् (8.2.1) इति रुत्त्वमसिद्धम्, तदसतो रोः कथमुत्त्वं शक्यते विधातुम्? इत्यत आह -रुत्वमप्याश्रयात्? सिद्धम् इति। यदि रुत्वमसिद्धं स्यात्, तदा स्थानित्वेन रोराश्रयणमनर्थकं स्यात्; कस्यचिदुकारानुबन्धविशिष्टस्य रोरसम्भवात्। तस्मादाश्रयादेव रोरसिद्धत्वं नास्तीति। तस्यापि इति। यत्रापि परतो रोरुत्त्वमुच्यते तस्य सुरुआओता 3 अत्र इति दूराद्धूते च (8.2.84) इति प्लुतः। देवदत्ता 3 अत्र इति। अत्रापि गुरोऽनृतोऽनन्तस्याप्येकैकसय प्राचाम् (8.2.86) इत्यनेन। अथ किमर्थं अप्लुतादप्लुते इत्युच्यते? न ह्रतोऽतीति च तपरकरणस्य वर्णस्य निर्देशे क्रियमाणे प्लुतात्परस्य प्लुते वा परतः प्राप्नोति? इत्यत आह -प्लुतस्य इत्यादि। ननु च सिद्धः प्लुतः स्वरसन्धिषु, यदयम्? प्लुतप्रगृह्रा आचि (6.1.125) इति प्रकृतिभावं शास्ति? एवं मन्यते -प्रकृतिभाव एवैतज्ज्ञापकं स्यात्। अथापि कथञ्चित्? स्वरसन्धिविषयं ज्ञापकं स्यात्, तथा रोदत्त्वं स्वरसन्धिर्न भवति। अथापि संहिता काय्र्यविषयं ज्ञापकं स्यात्, तथापि रोरुत्त्वं मंहिताकार्य्यं न भवति। येन हि वर्णाः सन्धीयन्ते तत्? संहिताकार्यम्, न चोत्त्वेन वर्णाः संहिता भवन्ति; पुनरप्याद्गुणाद्यपेक्षणादिति॥

Prakriyasarvasvam

अप्लुतादकारात् परस्य रोरप्लुतेऽकारे परे उत्वं स्यात् । कृष्ण उ अर्च्यः । ‘आद् गुणः’ (६-१-८७) । ‘एङः पदान्तादति’ (३-१-१०९) इति पूर्वरूपम्२। कृष्णोऽर्च्यः । सुवर्चा ३ अत्र । नमः अ३च्युत इत्यकारयोः ‘गुरोरनृतः-’ (८-२-८६) इति प्लुते कृते तस्यासिद्धत्वादुत्वं मा भूदित्यप्लुतादप्लुत इत्युक्तिः । अत्र हि सुवर्चा ३ यत्र, नमया ३ च्युत इति वक्ष्यमाणं यत्वमेव । अप्लुतादकारात् परस्य रोरप्लुतेऽकारे परे उत्वं स्यात् । कृष्ण उ अर्च्यः । ‘आद् गुणः’ (६-१-८७) । ‘एङः पदान्तादति’ (३-१-१०९) इति पूर्वरूपम्² । कृष्णोऽर्च्यः । सुवर्चा ३ अत्र । नमः अ३च्युत इत्यकारयोः ‘गुरोरनृतः—’ (८-२-८६) इति प्लुते कृते तस्यासिद्धत्वादुत्वं मा भूदित्यप्लुतादप्लुत इत्युक्तिः । अत्र हि सुवर्चा ३ यत्र, नमया ३ च्युत इति वक्ष्यमाणं यत्वमेव ।

Sarala

एङः पदान्तादति (६.१.१०९) इत्यतः “अती”ति ऋत उत् (६.१.१११) इत्यतः “उत्” इति चानुवर्तते । तदाह - अप्लुतादिति

Sudha

अतो रोरिति । ऋत उत् (6.1.111) इत्यतः उदित्यनुवर्तते । अतः इति पञ्चमी । एङः पदान्तादति (6.1.109) इत्यतोऽतीत्यनुवर्तते तदाह — अप्लुतादित्यादिना । शिवोऽर्च्य इति । “शिवस् अर्च्यः” इत्यवस्थायां ससजुषो रुः (8.2.66) इति सस्य रुत्वे अतो रोरप्लुतादप्लुते (6.1.113) इति सूत्रेण पूर्वपरयोः स्थाने गुणे विहिते शिवो अर्च्यः इति जाते, एङः पदान्तादति (6.1.109) इति सूत्रेणार्च्य इत्यस्याकारस्य पूर्वरूपादेशे च विहिते “शिवोर्च्यः” इति सिद्धम् ॥