61112: ख्यत्यात् परस्य

Padacheda: ख्य-त्यात् | S | 5 | 1 |

परस्य | S | 6 | 1 |

Sutrartha

‘ख्य्’ / ‘त्य्’ इत्यस्मात् परस्य ङसिँ/ङस् प्रत्ययस्य अकारस्य उकारादेशः भवति ।

‘खि / खी’ इत्यस्मात् शब्दात् यणादेशे कृते प्राप्तः यः ‘ख्य्’ शब्दः, तथा च ‘ति / ती’ इत्यस्मात् शब्दात् यणादेशे कृते प्राप्तः यः ‘त्य्’ शब्दः, तस्मात् परस्य पञ्चमी-एकवचनस्य ङसिँ-प्रत्ययस्य तथा च षष्ठी-एकवचनस्य ङस्-प्रत्ययस्य अकारस्य उकारादेशः भवति । **खि/ति/खी/ती इत्येतेषु कश्चन शब्दः यस्य प्रातिपदिकस्य अन्ते अस्ति, तादृशस्य प्रातिपदिकस्य सुबन्तप्रक्रियायाम् एव अस्य सूत्रस्य प्रयोगः भवितुम् अर्हति **। क्रमेण उदाहरणानि एतानि — <hlb>1. खि-अक्षरान्तः सखि-शब्दः</hlb> सखि-शब्दस्य पञ्चमी-षष्ठी-एकवचने प्रकृतसूत्रेण उकारादेशं कृत्वा ‘सख्युः’ इति रूपं भवति । प्रकिया इयम् —

सखि + ङसिँ / ङस् [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः]
→ सखि + अस् [इत्संज्ञालोपः]
→ सख्य् अस् [**इको यणचि**  (6.1.77) इति यणादेशः]
→ सख्य् उस् [**ख्यत्यात् परस्य** (6.1.112) इति अकारस्य उकारः]
→ सख्युः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]

<hlb>2. ति-अक्षरान्तः पति-शब्दः</hlb>

पति + ङसिँ / ङस् [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः]
→ पति + अस् [इत्संज्ञालोपः]
→ पत्य् अस् [**इको यणचि**  (6.1.77) इति यणादेशः]
→ पत्य् उस् [**ख्यत्यात् परस्य** (6.1.112) इति अकारस्य उकारः]
→ पत्युः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]

<hlb>3. खी-अक्षरान्तः सखी-शब्दः</hlb> ‘सखी’ इति कश्चन ईकारान्तपुंलिङ्गशब्दः ‘सखम् आत्मनः इच्छति’ (the one that likes an aerial entity, like airplane etc for himself) अस्मिन् अर्थे सिद्ध्यति । अस्य सिद्धिः अधः पृथग् रूपेण दर्शिता अस्ति । अस्य शब्दस्य पञ्चमी-षष्ठी-एकवचनस्य प्रक्रियायाम् अपि प्रकृतसूत्रस्य प्रयोगः कृतः दृश्यते —

सखी + ङसिँ / ङस् [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः]
→ सखी + अस् [इत्संज्ञालोपः]
→ सख्य् अस् [**इको यणचि**  (6.1.77) इति यणादेशः]
→ सख्य् उस् [**ख्यत्यात् परस्य** (6.1.112) इति अकारस्य उकारः]
→ सख्युः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]

<hlb>4) ती-अक्षरान्तः लूती-शब्दः </hlb> ‘लूनी’ इति कश्चन (नकारोपधः) ईकारान्तपुंलिङ्गशब्दः ‘लूनम् आत्मनः इच्छति’ (the one that likes sliced entities for himself) अस्मिन् अर्थे सिद्ध्यति । अस्य सिद्धिः अधः पृथग् रूपेण दर्शिता अस्ति । अस्मिन् शब्दे विद्यमानः उपधानकारः त्रिपादीसूत्रेण निर्मितः अस्ति, ततः सुबुत्पत्तेः समये अयम् नकारः असिद्धः वर्तते, तस्य स्थाने मूलरूपेण विद्यमानः तकारः एव दृश्यते । अतः लूती-इति शब्दात् सुबुत्पत्तिं कृत्वा, तत्र पञ्चमी-षष्ठी-एकवचनस्य प्रक्रियायाम् प्रकृतसूत्रस्य प्रयोगः कृतः दृश्यते —

लूती + ङसिँ/ङस्  [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः]
→ लूती + अस् [इत्संज्ञालोपः]
→ लूत्य्  अस् [**इको यणचि**  (6.1.77) इति यणादेशः]
→ लूत्य्  उस् [**ख्यत्यात् परस्य** (6.1.112) इति अकारस्य उकारः]
→ लून्य् उस् [ **ल्वादिभ्यः** (8.2.34) इति निष्ठातकारस्य नकारः]
→ लून्युः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]

सूत्रप्रयोगस्य नियमः

यद्यपि इदं सूत्रम् ‘ति/ती/खि/खी’ इत्यन्तानाम् शब्दानाम् पञ्चमी/षष्ठी-एकवचनस्य प्रक्रियायाम् प्रयोगम् अर्हति, तथापि इदम् सूत्रम् बहुषु स्थलेषु अङ्गकार्यस्य सूत्रैः बाध्यते **। इत्युक्ते, यत्र किञ्चन अङ्गकार्यम् सम्भवति, तत्र **वार्णादाङ्गं बलीयः इति परिभाषया अङ्गकार्यस्यैव प्राधान्यम् वर्तते अतः तेन अङ्गकार्येण प्रकृतसूत्रस्य बाधः भवति । प्रकृतसूत्रस्य प्रयोगः अङ्गकार्यस्य अप्राप्तौ एव सम्भवति इत्याशयः । उदाहरणद्वयम् एतादृशम् — 1. घिसंज्ञाविशिष्टेन कार्येण प्रकृतसूत्रस्य बाधः ** — यत्र इकारान्तशब्दानाम् घि-संज्ञा भवति, तत्र **घेर्ङिति (7.3.111) इत्यनेन ङित्-प्रत्यये परे अङ्गस्य गुणः सम्भवति । अस्मिन् गुणे कृते अग्रे यणादेशस्य प्राप्तिः नास्ति, अतः एतेषाम् शब्दानाम् प्रक्रियायाम् प्रकृतसूत्रम् नैव प्रवर्तते ।

  1. प्रायेण सर्वेषाम् अपि ति/खि-अक्षरान्त-पुंलिङ्शब्दानाम् शेषो घ्यसखि (1.4.7) इति सूत्रेण घिसंज्ञा भवति । यथा —‌ मारुति, पदाति ।

ii) समस्तपदे उत्तरपदरूपेण विद्यमानस्य “पति”-शब्दस्य पतिः समास एव (1.4.8) इति सूत्रेण घिसंज्ञा भवति । यथा — भूपति, गजपति । ii) शेषो घ्यसखि (1.4.7) इत्यत्र निर्दिष्टेन ‘सखि’शब्देन तदन्तस्य ग्रहणं न क्रियते (ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति), अतः ‘सख्यन्त’शब्दानाम् घिसंज्ञा अवश्यं भवति । यथा — अतिसखि, सुसखि । iv) इकारान्त-स्त्रीलिङ्गशब्दानाम् ङित्-प्रत्यये परे ङिति ह्रस्वश्च (1.4.6) इत्यनेन प्राप्तायाः वैकल्पिक-नदीसंज्ञायाः अभावपक्षे शेषो घ्यसखि (1.4.7) इति सूत्रेण घिसंज्ञा भवति । यथा — मति, गति ।

  1. नदीसंज्ञाविशिष्टेन कार्येण प्रकृतसूत्रस्य बाधः ** — यत्र इकारान्तशब्दानाम् / ईकारान्तशब्दानाम् नदी-संज्ञा भवति, तत्र **आण्नद्याः (7.3.112) इत्यनेन प्रक्रियायाम् आडागमः क्रियते । अस्मात् आडागमात् परस्य ङसिँ/ङस्-प्रत्यय-अकारस्य आटश्च (6.1.90) इति वृद्ध्येकादेशः भवति, अतः तत्र अस्य सूत्रस्य प्रयोगः नैव सम्भवति ।

  1. ईकारान्तस्त्रीलिङ्गशब्दानाम् यू स्त्र्याख्यौ नदी (1.4.3) इत्यनेन नदीसंज्ञा भवति । यथा — जगती, बृहती, युवती ।

  2. इकारान्त-स्त्रीलिङ्गशब्दानाम् ङित्-प्रत्यये परे ङिति ह्रस्वश्च (1.4.6) इत्यनेन विकल्पेन नदीसंज्ञा भवति । यथा — मति, गति ।

सखी यथा लूनी (लूती) इति शब्दयोः सिद्धिः

उपरि निर्दिष्टे तृतीये उदाहरणे निर्दिष्टस्य सखी-शब्दस्य सिद्धिः एतादृशी अस्ति — <listsp> 1. “खेन (= आकाशेन) सह वर्तते सः” अस्मिन् अर्थे तेन सहेति तुल्ययोगे (2.2.28) इत्यनेन बहुव्रीहिसमासं कृत्वा वोपसर्जनस्य (6.3.82) इत्यनेन सह-इत्यस्य “स”-आदेशः भवति, येन “सख” इति प्रातिपदिकम् सिद्ध्यति । 2. “सख” इत्यस्मात् प्रातिपदिकात् “सखम् आत्मनः इच्छति” अस्मिन् अर्थे सुपः आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्ययं कृत्वा “सख + य” इति जाते, क्यचि च (7.4.33) इत्यनेन अङ्गस्य ईकारादेशं कृत्वा “सखीय” इति शब्दः सिद्ध्यति । सनाद्यन्ताः धातवः (3.1.32) इत्यनेन अस्य धातुसंज्ञा भवति । 3. “सखीय” अस्मात् धातोः क्विप् च (3.2.76) इत्यनेन कर्त्रर्थे क्विप्-प्रत्यये कृते “सखीय + क्विप्” इति स्थिते अतो लोपः (6.4.48) इत्यनेन यकारात् परस्य अकारस्य लोपः, ततश्च लोपो व्योर्वलि (6.1.66) इत्यनेन यकारस्य अपि लोपः भवति । अत्र प्रक्रियायाम् लुप्त-अकारस्य अचः परस्मिन् पूर्वविधौ (1.1.57) इत्यनेन स्थानिवद्भावे प्राप्ते, न पदान्तद्विर्वचनवरेयलोप… (1.1.58) इत्यनेन स्थानिवद्भावः निषिध्यते । अतः अत्र यकारलोपः सम्भवति, यकारलोपे च कृते “सखी” इति प्रातिपदिकम् सिद्ध्यति । “सखम् आत्मनः इच्छति सः सखीः” इति अस्य शब्दस्य अर्थः । </listsp> उपरि निर्दिष्टे चतुर्थे उदाहरणे निर्दिष्टस्य लुती-शब्दस्य सिद्धिः अनेनैव प्रकारेण “लूञ् (छेदने, क्र्यादिः, (9.16))” इत्यस्मात् धातोः क्रियते । तत्र प्रक्रियायाम् “लूयते इति” अस्मिन् अर्थे “लू”-धातोः निष्ठा (3.2.102) इति सूत्रेण क्त-प्रत्ययः, तत्र ‘आत्मनः इच्छति’ अस्मिन् अर्थे सुप आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्, ततश्च कर्तृनिर्देशार्थम् क्विप् च (3.2.76) इत्यनेन क्विप्-प्रत्ययः भवति । प्रक्रिया इयम् —

लूञ् (छेदने, क्र्यादिः, (9.16))
→  लू + क्त + क्यच् + क्विप् [**निष्ठा** (3.2.102), **सुप आत्मनः क्यच्** (3.1.8), **क्विप् च** (3.2.76)
→ लू + त + य + ० [इत्संज्ञालोपः । क्विप्-प्रत्यये वकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते । अवशिष्टवकारस्य **वेरपृक्तस्य** (6.1.67) इति लोपः भवति ।]
→ लू + त् + ई + य [**क्यचि च** (7.4.33) इति अकारस्य इकारादेशः]
→ लू + त् + ई [लुप्त-क्विप्-प्रत्यययविशिष्टम् कार्यम् **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन अवश्यं प्रवर्तते, अतः यकारोत्तरस्य अकारस्य **अतो लोपः** (6.4.48) इत्यनेन लोपः भवति, यकारस्य च **लोपो व्योर्वलि** (6.1.66) इति लोपः विधीयते ।]
→लू  + न् + ई [**ल्वादिभ्यः** (8.2.44) इति निष्ठातकारस्य नकारः । इदम् सूत्रम् यद्यपि अत्र निर्दिष्टम् अस्ति, तथापि इदम् त्रिपादीसूत्रम् अस्ति अतः सपादसप्तयाध्याय्याः कृते असिद्धम् अस्ति । अतः, अत्र क्विबन्तात् प्रातिपदिकात् यदा सुबुत्पत्तिः भवति, तदा तत्र **लूती** इत्येव प्रातिपदिकं दृश्यते । अतः उपरि चतुर्थ्यां प्रक्रियायाम् लूती-प्रातिपदिकात् सुबुत्पत्तिं कृत्वा ततः एव **ल्वादिभ्यः** (8.2.44) इत्यनेन नत्वम् कृतम् अस्ति ।]
→‌ लूनी

Sutrartha (English)

The अकार of the ङसिँ/ङस् प्रत्यय following a ‘ख्य्’ / ‘त्य्’ is converted to उकार.

Vasu English Summary

There is the substitution of उ for the अ of अस् of the Ablative and Genitive Singular after सखि and पति , when for the इ of those two stems य् is substituted.

Vasu English Translation

There is the substitution of उ for the अ of अस् of the Ablative and Genitive Singular after सखि and पति , when for the इ of those two stems य् is substituted. The phrase ङसिङसोः and उत् are understood here also. The ख्य means and includes खि and खी when the इ is changed to य, and त्य denotes ति and ती, the इ being changed to य ॥ Thus सखि + अस् = सख्युः as सख्युरागच्छति, सख्युः स्वम् ॥ So also पत्युरागच्छति, पत्युः स्वम् ॥ The illustration of खी is सखी which is derived from the Denominative Verb thus : सहखेन वर्त्तते = सखः, सखमिच्छति = सख + क्यच् (3.1.8) = सखीय (7.4.3). Now by adding क्विप् to the denominative root सखीय we get सखीः ‘one who wishes for a friend’. The Ablative and Genitive Singular of this word will be सखी + अस् = सख्युः also. Of ती we have the following example. लूनमिच्छति = लूनीय, add क्विप् = लूनीः, the Ablative and Genitive singular of which is also लून्युः, the न् of लूनी being the substitute of त् of Nishtha, is considered like त् (8.2.1). The peculiar exhibition of ख्य and त्य in the sutra, instead of saying directly सखिपतिभ्यां indicates that the rule does not apply to words like अतिसखि &c : where we have अतिसखेः, सेनापतेः ॥ The word अतिसखि is घि in spite of the prohibition (l. 4.7), for that prohibition applies only to सखि and not to a compound which ends in it, on the maxim ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति ॥ “That which cannot possibly be anything but a Pratipadika does (contrary to (1.1.72)) not denote that which ends with it, but it denotes only itself”. According to Dr. Ballantyne this rule applies to all खी and ती, such as सुखीः ‘one who loves pleasure’ (सुखमिच्छति = सुखीय + क्विप्). and सुतीः ‘one who wishes a son’ (सुतमिच्छति = सुतीय + क्विप्): Thus सुख्युः, सुत्युः &c.

Bhashya

ख्यत्यात्परस्य (2549) (ख्यत्यात्पदार्थबोधकभाष्यम्) किमिदं ख्यत्यादिति ? सखिपत्योर्विकृतग्रहणम् । किं पुनः कारणं विकृतयोः सखिपत्योर्ग्रहणं क्रियते, न सखिपतिभ्यामित्येवोच्येत ? (विकृतनिर्देशप्रयोजनभाष्यम्) नैवं शक्यम् । गरीयांश्चैव निर्देशः स्यात् । इह च प्रसज्येत - अतिसखेरागच्छति, अतिसखेः स्वम् । इह च न स्यात् - सखीयतेरप्रत्ययः - सख्युः, पत्युः । लूनीयतेरप्रत्ययः - लून्युः, पून्युः ॥

Kashika

ङसिङसोरिति वर्तते, उदिति च। ख्यत्यादिति खिशब्दखीशब्दयोस्तिशब्दती — शब्दयोश्च कृतयणादेशयोरिदं ग्रहणम्, ताभ्यां परस्य ङसिङसोरत उकारादेशो भवति। सख्युरागच्छति। सख्युः स्वम्। पत्युरागच्छति। पत्युः स्वम्। खीशब्दस्योदाहरणम् — सह खेन वर्तत इति सखस्तमिच्छतीति क्यच् सखीयति। सखीयतेः क्विप् सखीः, तस्य ङसिङसोः सख्युरिति। तीशब्दस्यापि — लूनमिच्छति लूनीयति। लूनीयतेः क्विपि लुप्ते, लून्युरागच्छति। लून्युः स्वम्। निष्ठानत्वम् (८.२.४४) पूर्वत्रासिद्धम् (८.२.१) इत्यसिद्धम्। विकृतनिर्देशादेवेह न भवति — अतिसखेरागच्छति, सेनापतेरागच्छतीति। सखिशब्दस्य केवलस्य घिसंज्ञा प्रतिषिध्यते न तदन्तस्य॥

Siddhanta Kaumudi

खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उत्स्यात् । सख्युः ॥

Laghu Siddhanta Kaumudi

खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उः। सख्युः॥

Balamanorama

ख्यत्यात् परस्य - ख्यत्यात्परस्य ।खिखी॑-त्यनयोः, ति-ती॑त्यनयोश्च कृतयणादेशयोः ‘ख्य’ ‘त्य’ इति निर्देशः । यकारादकार उच्चारणार्थः ।एङः पदान्ता॑दित्यतोऽतीत्यनुवर्तते । तच्च परस्येति सामानाधिकरण्यात्षष्ठन्ततया विपरिणम्यते ।ङसिङसोश्चे॑त्योङसिङसो॑रित्यनुवर्तते । अवयवषष्ठएषा । ततश्च ‘ङसिङसोरवयवस्य अत’ इति लभ्यते ।ऋत् उ॑दित्यत, उदित्यनुवर्तते । ‘एकः पूर्वपरयोः’ इति तु निवृत्तम्,पर॑ग्रहणसामर्थ्यात् । अन्यथाख्यत्या॑दिति पञ्चमीनिर्देशादेव सिद्धे किं तेन । तदाह — खितिशब्दाभ्यामित्यादिना । सख्युरिति । सख्यस् इति स्थिते यकारादकारस्य उकारे रुत्वविसर्गौ ।

Tattvabodhini

ख्यत्यात् परस्य - ख्यत्यात् । पञ्चमीनिर्देशादेव॒परस्ये॑ति लब्धे॒परस्ये॑ति ग्रहणमेकः पूर्वपरयोरिति नवृत्तमिह तु नाधिक्रियते इहि ध्वननार्थम् । ख्यश्च त्यश्चेति समाहारद्वन्द्वे ख्यत्यं, तत्र खिखीशब्दयोः कृतयणादेशयोरनुकरणंख्य॑इति । एवं तितीशब्दयोस्त्येति । उभयत्राप्यकार उच्चाणार्थौ न तु मुख्यापत्यादिशब्दैकदेशानुकरणमिदं,सख्युर्यः॒॑पत्युर्नः,॒॑सङ्ख्यायाः संवत्सरसङ्ख्यस्य च॑,आपत्यस्य चे॑ त्यादिनिर्देशादित्यभिप्रेत्याहखितिशब्दाभ्यामित्यादि । एवं च यत्र यण्प्रवृत्तिः तत्रैवोत्त्वं न त्वतिसखेरित्यादौ । न चैवं यणा निर्देशस्योक्तप्रयोजनत्वाद्भस्वान्तयोरेव ग्रहणं स्यान्न तु दीर्घन्तयोरिति शङ्क्यम् । निर्देशस्य ह्रस्वदीर्घसाधारणत्वाच्छास्त्रस्य बहुविषयत्वसंभवे तत्सङ्कोचस्याऽन्याय्यत्वाच्चेति भावः ।

Padamanjari

खिशब्दशीशब्दयोरित्यादि। यणादेशे कृते तुल्यरूपत्वाद् द्वयोरपि ग्रहणम्। एतदर्थमेवागन्तुकेनाकारेण यणादेशं कृत्वा विकृतनिर्द्देशः कृतः; अन्यथा खित्योरिति ह्रस्वयोर्गहणे दीर्घयोर्न स्यात्, दीर्घयोर्गहणे ह्रस्वयोर्नस्यात्। विकृतनिर्द्देशे तु द्वयोरपि भवति। अकारान्तयोस्तु मुख्यापत्यादिवर्तिनोर्ग्रहणं न भवति,’सख्युर्यः’ ‘पत्युर्नो’ ठापत्यस्य चऽ इत्यादिर्निर्द्देशात्। सखीयतेः क्विप् सखीरिति। ननु चाल्लोपस्य स्थानिवद्भावद्याणा भाव्यम्, तत्र कृते यलोपे स्थानिवत्वनिषेधादादिष्टदचः पूर्वत्वाच्च पूनः स्थानिवत्वाभावात्’लोपो व्योर्वलि’ इति यलोपे सश्युरित्यादि न सिद्ध्यति ? नैतदस्ति;’क्वौ लुप्तं न स्यानिवत्’ इति स्थानिवत्वनिषेधात्। विकृतनिर्द्देशश्य प्रयोजनान्तरमप्याह -विकृतनिर्देशादिति। अतिसखेरिति। अतिक्रान्तः सखा येनेति बहुव्रीहिः। यद्वा -शोभनः सखा अतिसखा,’न पूजनात्’ इति समासान्तनिषेधः। अथ स एव यणादेशोऽत्र कस्मान्न भवति,’घेङिति’ इति गुणेन बाधितत्वादिति चेत्? न;’शेषो घ्यसखि’ इति घिसंज्ञाप्रतिषेधादित्यत आह -सखिशब्दस्य केवलस्यैव हीति। एतच्च तत्रैव प्रतिपादितम् ॥

Nyaas

ख्यत्यादिति खिशब्दखीशब्दयोस्तिशब्दतीशब्दयोश्च कृतयणादेशयोरिदं ग्रहणम् इति। यमादेशे कृते तुल्यं रूपमिति विशेषाभावात्। अथ कस्मादत्राकारान्तयोरेव ख्यशब्दत्यशब्दयोरिदं ग्रहणं न भवति? केवलस्य ख्यशब्दस्य त्यशब्दस्यासम्भवादिति चेत्? न; यदि केवलौ न स्तः, तदन्तानां तर्हि मुख्यगोसंख्यादीनामपत्य गार्हपत्यादीनाञ्च ग्रहणमस्तु? नैतदस्ति; एवं हि -सख्युरसम्बुद्धौ (7.1.92) , पत्युर्नो यज्ञसंयोगे (4.1.33) इति निर्देशौ नोपपद्येयाताम्। सह खेन वर्तत इति सखः इति। तेन सहेति तुल्ययोगे (2.2.28) इति बहुव्रीहिः, वोपसर्जनस्य (6.3.82) इति सहस्य सभावः। सखीयति इति। क्यचि च (7.4.33) इतीत्त्वम्। सखीः इति। क्विप्? अतो लोपः (6.4.48) इत्यकारलोपः लोपो व्योर्वलि (6.1.66) इति यकारस्य च। लुनम् इति। ल्वादिभ्य (8.2.44) इति निष्ठानत्वम्। ननु च नायं तीशब्दः, तत्कथं तस्योदमुदाहरणमित्यत आह -निष्ठानत्वम् इत्यादि। अथेह कस्मान्न भवति -अतसखेरागच्छति, सेनापतेरागच्छतीति, असति ह्यत्रापि खिशब्दः तिशब्दश्च? इत्यत आह -विकृतनिर्देशात् इत्यादि। योऽयं ख्यत्यादित्यागन्तुकेनाकारेम यणादेशं कृत्वा विकृतनिर्देशः कृतस्तस्यैतदेव प्रयोजनम् -यत्र यणादेशः, तत्रैव यथा स्यात्। न चात्र यणादेशोऽस्ति, अतो न भवति, अन्यथा हि विकृतनिर्देशोऽनर्थकः स्यात्। ननु च लध्वर्थः स्यात्, अन्यथा हि खितिखीतीभ्यः इत्युच्यमाने गौरवं स्यात्? एवं मन्यते -यदि यतर यण्? न भवति, तत्रापि भवितव्यम्, तदा खीतीभ्यामित्येवं ब्राऊयात्। न चैवमुच्यमाने ह्रस्वन्ताभ्यान्न प्राप्नोति; खिशब्दात्? सख्युर्यः, (5.1.126) तिशब्दात्? पत्युर्नो यज्ञसंयोगे (4.1.33) इति निर्देशाभ्यामेव सिद्धेः अत्र हि सखिपतिशब्दयोग्र्रहणम्, न सखीपतीशब्दयोः। न हीह पतीशब्दस्य यज्ञेन संयोगोऽस्ति, नापि सह खेन वर्तते इत्यादिना प्रकारेम व्युत्पादितो यः सखीशब्दस्तत उत्पन्नो यः प्रत्ययः स प्रकृत्यर्थाभिधाने समर्थो भवति; यतोऽभिधानलक्षणा हि कृत्तद्धितसमासा भवन्ति। तस्माद्विकृतनिर्देशस्य पूर्वोक्तमेव प्रयोजनमिति। अथ स यणादेशोऽतर कस्मान्न भवति यस्मिन्? सत्युत्त्वेन भवितव्यम्? घेङिति (7.3.111) इति गुणेन बाधितत्वादिति चेत्? न; शेषो ध्यसखिः (1.4.7) इति धिसंज्ञाप्रतिषेधादिति चेत्यत आह -`सखीशब्दस्य इत्यादि। अत्र च ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति (व्या।प।89) इति प्रतिषेधो हेतुः।परस्येति किमर्थम्? पूर्वपरयोर्मा भूत्। इतश्चारभ्य पूर्वपरयोरित्येतन्नानुवर्तते॥

Praudhamanorama

कृतयणादेशयोः खिखीशब्दयोरनुकरणं ख्य इति। एवं तितीशब्दयोः त्य इति। उभयत्राप्यकार उच्चारणार्थो न तु मुख्यापत्यादिशब्दैकदेशानुकरणमिदम्। ‘सख्युर्यः’ ‘पत्युर्नः’ ‘संख्यायाः संवत्सरसंख्यस्य च’ ‘आपत्यस्य च तद्धिते’ इत्यादिनिर्देशात्; इत्यभिप्रेत्याह— खितिशब्दाभ्यामित्यादि। परस्येतिग्रहणम् ‘एकः पूर्वपरयोः’ इत्यधिकारनिवृत्यर्थम्।

Prakriyasarvasvam

ख्य त्य इत्याभ्यां परस्य ङसिङसोरत उत् स्यात् । सख्युः । सख्युः । सख्याः । सखीनाम् । ङौ तु—

Sarala

“ख्ये”तिकृतयणादेशयोः खि-खी-शब्दयोरनुकरणम्, एवं “त्ये”त्यपि कृतयणादेशयोः - ति-ती-शब्दयोर्ग्रहणम्, अकारस्तूच्चारणार्थस्तदाह - कृतयणेति

Sudha

ख्यत्यादिति । खिखी इत्यनयोः, तिती इत्यनयोश्च कृतयणादेशयोः ख्य त्य इति निर्देशः । यकारादकार उच्चारणार्थः । एङः पदान्तादति**(6.1.109) इत्यतो अतीत्यनुवर्तते । तच्च षष्ठ्यन्तं विपरिणम्यते । **ङसिङसोश्च**(6.1.110) इत्यतो ङसिङसोरित्यनुवर्तते। अवयवषष्ठ्येषा । ततश्चङसिङसोरवयवस्य अत इति लभ्यते । **ऋत उत्**(6.1.111) इत्यतः उदित्यनुवर्तते । तदाह - **खितिशब्दान्यामित्यादिना । सख्युः । सखिशब्दात्पञ्चम्येकवचनविवक्षायां ङसौ समागते ङकारस्येत्सज्ञायां लोपे । च “सखि अस्” इति स्थिते **इको यणचि**(6.1.77) इति यणादेशे “सख्य अस्” इति जाते तत्र **ख्यत्यात् परस्य**(6.1.112) इत्यनेन असोऽकारस्य उत्वे “सख्युस्” इति,तत्र सस्य रुत्वे विसर्गे च कृते “सख्युः” इति रूपम् । पञ्चमीद्विवचनबहुवचने तु - सखिभ्याम्, सखिभ्यः इति । षष्ठ्येकवचनविवक्षायां “सखि अस्” इति स्थिते पूर्ववत् यणि अस्योत्वे रुत्वे विसर्गे च सख्युः इति । ओसि - सख्योः । आमि - सखीनाम् ।

Sutra Prayogas

  • पत्युरात्मानं (भट्टिकाव्यम्): ख्यत्यात्परस्य इत्युत्वम् ।