61087: आद्गुणः¶
Padacheda: आत् | S | 5 | 1 |
गुणः | S | 1 | 1 |
Sutrartha¶
अवर्णात् अच्-वर्णे परे संहितायाम् पूर्वपरयोः एकः गुणः आदेशः भवति ।
अवर्णात् (अकारात् / आकारात्) संहितायाम् स्वरः विद्यते चेत् उभयोः गुणैकादेशः भवति । इत्युक्ते, ‘गुण’ इति संज्ञया निर्दिष्टः वर्णः आदेशरूपेण अत्र विधीयते । अष्टाध्याय्यां अदेङ् गुणः (1.1.2) इत्यनेन अकार-एकार-ओकाराणाम् गुणसंज्ञा भवति । एतेषु कः वर्णः आदेशरूपेण विधीयेत — इति प्रश्ने जाते, स्थानेऽन्तरतमः (1.1.50) इत्यस्याः परिभाषायाः आश्रयः स्वीक्रियते । अनया परिभाषया एतत् ज्ञाप्यते, यत् स्थानेन यः वर्णः सदृशतमः, तस्य आदेशरूपेण विधानम् भवति । <bg>**वर्णानाम् उच्चारणस्थानानि एतादृशानि** — अवर्णस्य कण्ठः । इवर्णस्य तालु । उवर्णस्य ओष्ठौ । ऋवर्णस्य मूर्धा । ऌवर्णस्य दन्ताः । एकारस्य कण्ठतालु । ओकारस्य कण्ठोष्ठम् । रेफस्य मूर्धा ॥</bg> उदाहरणानि एतानि — 1. अवर्णात् इवर्णे परे उभयोः एकादेशः **एकारः विधीयते ।** अवर्णस्य उच्चारणस्थानम् कण्ठः, इवर्णस्य उच्चारणस्थानम् तालु, एकारस्य उच्चारणस्थानम् कण्ठतालु - इति स्थानेन आन्तरतम्यम् सिद्ध्यति। यथा —
<li> देवानाम् इन्द्रः → देव + इन्द्रः → देवेन्द्रः । <li> महान् च असौ इन्द्रश्च → महत् + इन्द्रः → महा + इन्द्र [आन्महतः समानाधिकरणजातीययोः (6.3.46) इति आकारादेशः] → महेन्द्रः । <li> देवानाम् ईशः → देव + ईशः → देवेशः। <li> महान् च असौ ईशश्च → महा + ईशः → महा + ईशः [आन्महतः समानाधिकरणजातीययोः (6.3.46) इति आकारादेशः] → महेशः ।
2. अवर्णात् उवर्णे परे उभयोः एकादेशः **ओकारः विधीयते ।** अवर्णस्य उच्चारणस्थानम् कण्ठः, उवर्णस्य उच्चारणस्थानम् ओष्ठौ, ओकारस्य उच्चारणस्थानम् कण्ठोष्ठम् - इति स्थानेन आन्तरतम्यम् सिद्ध्यति । यथा —
<li> सूर्यस्य उदयः → सूर्य + उदयः → सूर्योदयः । <li> गङ्गायाः उदकम् → गङ्गा + उदकम् → गङ्गोदकम् । <li> पादेन ऊनम् → पाद + ऊनम् → पादोनम् । <li> एकया ऊनम् → एका + ऊनम् → एकोनम् ।
3. अवर्णात् ऋवर्णे परे उभयोः एकादेशः **अर् विधीयते ।** अत्र अवर्णस्य उच्चारणस्थानम् कण्ठः, ऋवर्णस्य उच्चारणस्थानम् मूर्धा । गुणसंज्ञकेभ्यः त्रिभ्यः वर्णेभ्यः ‘मूर्धा’ इति उच्चारणस्थानम् कस्यापि वर्णस्य नास्ति । परन्तु उरण् रपरः (1.1.51) इत्यनेन सूत्रेण एतत् ज्ञायते यत् ऋकारस्य स्थाने जायमानः अकारः नित्यम् रेफेण सह (इत्युक्ते, ‘अर्’ इत्यस्मिन् रूपे) विधीयते । अतः अवर्णात् ऋवर्णे परे उभयोः केवलम् ‘अ’ इति आदेशः कदापि नैव भवति, अपितु ‘अर्’ इति रेफयुक्तः आदेशः एव सम्भवति । अस्मिन् आदेशे विद्यमानस्य अकारस्य उच्चारणस्थानम् कण्ठः, रेफस्य उच्चारणस्थानम् च मूर्धा; अतः अत्र स्थानसाधर्म्यम् अपि सिद्ध्यति । अतः अवर्णात् ऋवर्णे परे ‘अर्’ इत्येव आदेशरूपेण विधीयते । यथा —
<li> देवानाम् ऋषिः → देव + ऋषिः → देवर्षिः । <li> महान् च असौ ऋषिः → महत् + ऋषिः → महा + ऋषिः [आन्महतः समानाधिकरणजातीययोः (6.3.46) इति आकारादेशः] → महर्षिः । आकार-ऋकारयोः अपि अर्-आदेशः एव भवति, ‘आर्’ इति न । <li> प्रथमश्च असौ ॠकारश्च → प्रथम + ॠकारः → प्रथमर्कार । <li> बालिकायाः ॠकारः → बालिका + ॠकारः → बालिकर्कार । आकार-ॠकारयोः अपि अर्-आदेशः एव भवति, ‘आर्’ इति न ।
4. अवर्णात् ऌवर्णे परे उभयोः एकादेशः **अल् विधीयते ।** अत्र अवर्णस्य उच्चारणस्थानम् कण्ठः, ऌवर्णस्य उच्चारणस्थानम् दन्ताः । गुणसंज्ञकेभ्यः त्रिभ्यः वर्णेभ्यः ‘दन्ताः’ इति उच्चारणस्थानम् कस्यापि वर्णस्य नास्ति । परन्तु उरण् रपरः (1.1.51) इत्यनेन सूत्रेण एतत् ज्ञायते यत् ऌकारस्य स्थाने जायमानः अकारः नित्यम् लकारेण सह (इत्युक्ते, ‘अल्’ इत्यस्मिन् रूपे) विधीयते । अतः अवर्णात् ऌवर्णे परे उभयोः केवलम् ‘अ’ इति आदेशः कदापि नैव भवति, अपितु ‘अल्’ इति लकारयुक्तः आदेशः एव सम्भवति । अस्मिन् आदेशे विद्यमानस्य अकारस्य उच्चारणस्थानम् कण्ठः, लकारस्य उच्चारणस्थानम् च दन्ताः; अतः अत्र स्थानसाधर्म्यम् अपि सिद्ध्यति । अतः अवर्णात् ऌवर्णे परे ‘अल्’ इत्येव आदेशरूपेण विधीयते । यथा —
<li> कृष्णस्य ऌकारः → कृष्ण + ऌकारः → कृष्णल्कारः । <li> महान् च असौ ऌकारश्च → महत् + ऌकारः → महा + ऌकारः [आन्महतः समानाधिकरणजातीययोः (6.3.46) इति आकारादेशः] → महल्कारः । आकार-ऌकारयोः अपि अल्-आदेशः एव भवति, ‘आल्’ इति न ।
बाध्यबाधकभावः
प्रकृतसूत्रेण यद्यपि अचि परे गुणैकादेशः उक्तः अस्ति, तथापि अस्य सूत्रस्य प्रसक्तिः केवलम् ‘इक्’ वर्णे परे एव दृश्यते । अन्येषु वर्णेषु परेषु अस्य गुणादेशस्य सवर्णदीर्घेण वृद्ध्यादेशेन वा बाधः भवति । तदित्थम् —
अवर्णात् अवर्णे परे, प्रकृतसूत्रेण उभयोः गुणादेशे प्राप्ते, तद् बाधित्वा अकः सवर्णे दीर्घः (6.1.101) इत्यनेन पूर्वपरयोः एकः सवर्णदीर्घादेशः भवति ।
अवर्णात् एच्-वर्णे परे प्रकृतसूत्रेण उभयोः गुणादेशे प्राप्ते, तद् बाधित्वा वृद्धिरेचि (6.1.88) इत्यनेन पूर्वपरयोः एकः वृद्ध्येकादेशः भवति ।
Sutrartha (English)¶
When an अवर्ण is followed by an अच् letter in the context of संहिता, both of them are replaced by a single गुण letter
Vasu English Summary¶
The गुण is the single substitute of the final अ or आ of a preceding word and the simple vowel of the succeeding (अ or आ + a vowel = गुण)।
Vasu English Translation¶
The गुण is the single substitute of the final अ or आ of a preceding word and the simple vowel of the succeeding (अ or आ + a vowel = गुण)। The word अचि is understood here. For the vowel which follows an अ or आ, and for the अ or आ which precedes a vowel, in the room of both these preceding and succeeding vowels, there is the single substitute guna. Thus तव + इदम् = तवेदम्, खट्वा + इन्द्रः = खट्वेन्द्रः, माला + इन्द्रः = मालेन्द्रः, तव + ईहते = तवेहते, खट्वा + ईहते = खट्वेहते, तव + उदकम् = तवोदकम्, खट्वा + उदकम् = खट्वोदकम्, तव + ऋश्यः = तवर्श्यः, खट्वा + ऋश्यः = खट्वर्श्यः, तव + लृकारः = तवल्कारः, खट्वा + लृकारः = खट्वल्कारः ॥ By analogy of (1.1.51), the guna substitute of लृ being अ is always followed by ल्, as that of ॠ is followed by र् ॥ This universal rule is limited by the following aphorism.
Bhashya¶
आद्गुणः (2524) (गुणाधिकरणम्) (पदकृत्यभाष्यम्) गुणग्रहणं किमर्थम्, न आदेको भवतीत्युच्येत ? (गुणपदाभावे आक्षेपश्लोकभाष्यम्) आदेकश्चेद्गुणः केन आदेकश्चेत्, गुणः केनेदानीं भविष्यति - खट्वेन्द्रः, मालेन्द्रः । खट्वोदकम्, मालोदकम् । (समाधानश्लोकभाष्यम्) स्थानेऽन्तरतमो हि सः । स्थाने प्राप्यमाणानामन्तरतम आदेशो भवति ॥ ऐदौतावपि तर्हि प्राप्नुतः । (समाधानश्लोकभाष्यम्) ऐदौतौ नैचि तावुक्तौ ऐदौतौ न भविष्यतः । किं कारणम् ? एचि ह्यैदौतावुच्येते ॥ इह तर्हि - खर्ट्वश्यः, मार्लश्यः - ऋकारस्तर्हि प्राप्नोति । (समाधानश्लोकभाष्यम्) ऋकारो नोभयान्तरः ॥ 1 ॥ उभयोर्योऽन्तरतमस्तेन भवितव्यम्, न च ऋकार उभयोरन्तरतमः ॥ आकारस्तर्हि प्राप्नोति । (समाधानश्लोकभाष्यम्) आकारो नर्तिधातौ सः आकारो न भविष्यति । किं कारणम् ? ऋतिधातावाकार उच्यते तन्नियमार्थं भविष्यति - ऋकारादौ धातावेव, नान्यत्रेति ॥ प्लुतस्तर्हि प्राप्नोति । (समाधानश्लोकभाष्यम्) प्लुतश्च विषये स्मृतः । विषये प्लुत इत्युच्यते । यदा च स विषयः, भवितव्यमेव तदा प्लुतेन ॥ (गुणपदप्रयोजनश्लोकभाष्यम्) आन्तर्यात् त्रिचतुर्मात्राः इदं तर्हि प्रयोजनम् - आन्तर्यतस्त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा मा भूवन्निति । खट्वा - इन्द्रः - खट्वेन्द्रः । खट्वा - उदकं - खट्वोदकम् । खट्वा - इर्षा - खट्वेषा । खट्वा - ऊढा - खट्वोढा । खट्वा - एलका - खट्वैलका । खट्वा - ओदनः - खट्वौदनः । खट्वा - ऐतिकायनः - खट्वैतिकायनः । खट्वा - औपगवः - खट्वौपगवः ॥ (आक्षेपभाष्यम्) अथ क्रियमाणेऽपि गुणग्रहणे कस्मादेवात्र त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा न भवन्ति ? (समाधानश्लोकभाष्यम्) तपरत्वान्न ते स्मृताः ॥ 2 ॥ तपरे च गुणवृद्धी ॥ (तपरपदार्थबोधकभाष्यम्) ननु च तः परो यस्मात्सोऽयं तपरः । नेत्याह । तादपि परस्तपरः । यदि तादपि परस्तपरः, ऋदोरप् (3.3.57) इहैव स्यात् - यवः, स्तवः । लवः, पवः - इत्यत्र न स्यात् । नैष तकारः । कस्तर्हि ? दकारः । किं दकारे प्रयोजनम् ? अथ किं तकारे ? असंदेहार्थस्तकारः । यद्यसंदेहार्थस्तकारः, दकारोऽपि । अथ मुखसुखार्थस्तकारः, दकारोऽपि ॥ (6158 एकदेशिन उपसंख्यानवार्तिकम् ॥ 7 ॥) - गुणे ङिशीटामुपसंख्यानं दीर्घत्वबाधनार्थम् - गुणे ङिशीटामुपसंख्यानं कर्तव्यम् । ङि - वृक्ष इन्द्रः, प्लक्ष इन्द्रः । शी - य इन्द्रम्, त इन्द्रम् । इट् - अपच इन्द्रम्, अयज इन्द्रम् । किं प्रयोजनम् ? दीर्घत्वबाधनार्थम् । सवर्णदीर्घत्वं मा भूदिति ॥ (6159 प्रत्याख्यानवार्तिकम् ॥ 8 ॥) - न वा बहिरङ्गलक्षणत्वात् - न वा कर्तव्यम् । किं कारणं ? बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणं सवर्णदीर्घत्वम्, अन्तरङ्गो गुणः । असिद्धं बहिरङ्गमन्तरङ्गे ॥ आदेकश्चेद्गुणः केन स्थानेऽन्तरतमो हि सः । ऐदौतौ नैचि तावुक्तौ ऋकारो नोभयान्तरः ॥ 1 ॥ आकारो नर्तिधातौ सः प्लुतश्च विषये स्मृतः । आन्तर्यात् त्रिचतुर्मात्रास् तपरत्वान्न ते स्मृताः ॥ 2 ॥
Kashika¶
अचीत्यनुवर्तते। अवर्णात् परो योऽच् अचि च पूर्वो योऽवर्णः, तयोः पूर्वपरयोरवर्णाचोः स्थान एको गुण आदेशो भवति। तवेदम्। खट्वेन्द्रः। मालेन्द्रः। तवेहते। खट्वेहते। तवोदकम्। खट्वोदकम्। तवर्श्यः। खट्वर्श्यः। तवल्कारः। खट्वल्कारः। ऌकारस्य स्थाने योऽण् तस्य लपरत्वमिष्यते॥
Siddhanta Kaumudi¶
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्संहितायाम् । उपेन्द्रः । रमेशः । गङ्गोदकम् ॥
Laghu Siddhanta Kaumudi¶
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्। उपेन्द्रः। गङ्गोदकम्॥
Balamanorama¶
आद्गुणः - आद्गुणः । आदिति पञ्चमी नतु तपरकरणम् । एकः पूर्वपरयोरित्यधिकृतम् । तदाह-अवर्णादचीत्यादिना । उपेन्द्र इति । उप-इन्द्र इति स्थिते पकारादकारस्य तस्मादिकारस्य च पूर्वपरयोः कण्ठतालुस्थानकयोस्तथाविध एको गुण एकारः, आन्तरतम्यात् । अथ प्रत्याहारेषु स्ववाच्यवाच्येषूक्तां लक्षणां स्मारयितुं दीर्घविषयोदाहरणमाह-रमेश इति । रमा-ईश इति स्थिते आकारस्य ईकारस्य च स्थाने पूर्ववदेको गुण एकारः । गङ्गोदकमिति । गङ्गा-उदकमिति स्थिते आकारस्य उकारस्य च कण्ठोष्टस्थानकयोस्तथाविध एको गुण ओकारः । कृष्णर्द्धिरित्यत्र कृष्ण ऋद्धिरिति स्थिते आद्गुण इति प्राप्तम् । अत्र अकार ऋकारश्चेति द्वौ स्थानिनौ । तयोरकार एकार ओकारश्चेति त्रयोऽपि गुणः प्रसक्ताः, अकारेण तेषां कण्ठस्थानसाम्याऽविशेषात् ।
Padamanjari¶
गुणग्रहणं किम्, यावताऽचीति वर्तते, ठेकः पूर्वपरयोऽ इति च, तत्रान्तर्यतः कण्ठतालव्ययोरकारेकारयोः स्थाने तादृश एवैकारो भविष्यति, कण्ठयौष्ठ।ल्योश्चाकारोकारयोः स्थाने तादृश एवौकारो भविष्यति, कण्ठयौष्ठ।ल्योश्चाकारोकारयोः स्थाने तादृश एवौकारो भविष्यति; चैकारौकारयोरपि प्रसङ्गः, वृद्दिरेचीति नियमात् ? तदिदानीं नियमार्थम्, ऐचोरनेनैव सिद्धत्वात्, एच्येव वृद्धिभर्वति। उभयथा नियमश्च व्याख्यास्यते, वृद्धिरेवैचीति। इर तर्हि खट्वर्श्यः मालार्श्य इति प्रमाणतोऽन्तरतमो मूर्द्धन्त ऋकारः प्राप्नाति ? माण एव रपरो भवतीति स्थानत् उभरोरन्तरतमः। आकारस्तर्हि प्राप्नोति ? ठिपसर्गादृति धातौऽ इत्येतन्न्यमार्थं भविष्यति - ऋति धातावेवाकारो नान्यत्रेति। प्रुतस्तर्हि प्राप्नोति - खट्वेन्द्रः,’प्लुतश्च विषये स्मृतः’ , प्लुतविदाने हि सति यस्मिन्विषे ब्लुतो विहितस्तस्मिन्नप्यनैनैव भाव्यम् ? अस्मिन्कर्तव्ये आष्टमिकस्य प्लुतस्यासिद्धत्वात्, ततश्च पक्षेऽनुवाददोषपसङ्गत् प्लुगो न भवतीति। इह तर्हि शट्वा ईषा खट्वेषा,शट्वा ऊढा खट्वेढा, आन्तर्यतश्चतुर्मात्र आदेशः प्राप्नोति, गुणग्रहणे तु क्रियमाणे गुणसंज्ञायान्परकरणं सर्वार्थमिति त्रिमात्रचतुर्मात्राणामगुणत्वादप्रसङ्गः। तस्माद् गुणग्रहणम्। श्लेकौ चात्र भवत - आदेशश्चेद् गुणः केन स्थानेऽन्तरतमो हि साः। ऐदौतौ नैचि तावुक्तावृकारो नोभयन्तरः ॥ आकारो नर्तिधातौ स प्लतश्च विषये स्मृत। आन्तर्यात्रिचतुर्मात्रो गुणश्च तपरः समृतः ॥ इह वृक्षशब्दान्ङ्ः, वृक्षि अ इ अ इन्द्रमिति स्थिते अकारेकायोर्गुणश्च प्राप्नोतीकारयोः सवर्णदीर्घश्च, तत्र शब्दपरविप्रतिषेधाद्दीर्घप्रसङ्गः, तथा तच्छपब्दान्’जश्शसोः शिः’ , न इ इन्द्रम्, पचेरुतमैकवचनमिट् शप् पच इ चन्द्रम् ? नैष दोषः एकपदातरङ्गो गुणे भविष्यते प्रगेव पदान्तरसन्निदानात् । ऌकारस्य स्तानत इतै। यथा चैतल्लभ्यते तथा।’लण्’ इत्यत्र व्याख्यातम् ॥
Nyaas¶
तवल्कारः; खट्वल्कारः इति। कथं पुनरत्र लपरत्वम्? इत्याह -ऌकारस्य स्थाने इत्यादि। एतच्च ऌकारऋकारयोः सवर्णसज्ञा वक्तव्या (वा।3) इत्युपसंख्यानात्? उरण्? रपरः (1.1.50) इत्यत्र रप्रत्याहारग्रहणाल्लभ्यते। उक्तं ह्रक्षरसमम्नाये -हकारादिषु वर्णोष्वकार उच्चारणार्थः, लकारे त्वनुनासिक इत्संज्ञकः प्रतिज्ञायते इति। तत्र रेफादारभ्य लणकारेण प्रत्याहारे सति ऌकारस्य ऋकारग्रहणेन गृहीतस्य स्थानेऽण्? विधीयमानो लपरः सम्पद्यते॥
Prakriyasarvasvam¶
अवर्णदचि परे पूर्वपरयोः सह एकोऽन्तरतमो गुणः स्यात् । उपेन्द्रः । रमेशः । क्रीडोत्सुकः । अवशिष्टयोः ऋऌवर्णयोरवशिष्टोऽकारो गुणः ।
Sarala¶
आत् - पञ्चम्यन्तं, गुणः - प्रथमान्तम् । इको यणचि (६.१.७७) इत्यतोऽचीत्यनुवर्त्तते, एकः पूर्वपरयोः (६.१.८४) इत्यधिकृतं, तदाह - अवर्णादिति । “उप-इन्द्रः” इत्यवस्थायामाद्गुण इत्यनेन कण्ठतालुस्थानिकयोरकारेकारयोः स्थाने कण्ठतालुस्थानिके गुणे एकारे कृते “उपेन्द्रः” इति सिद्धम् । इन्द्रमुपगतः - उपेन्द्रः - विष्णुः । “गङ्गा-उदकम्” इत्यवस्थायाम् आद्गुणः (६.१.८७) इत्यनेन कण्ठोष्ठस्थानिकयोराकारोकारयोरुभयोः स्थाने कण्ठोष्ठस्थानिके ओकारे कृते “गङ्गोदकम्” इति सिद्धम् । गङ्गोदकं = गङ्गाजलम् ॥
Sudha¶
आद्गुण इति ** । **इको यणचि (6.1.77) इत्यतो अचि इति, एकः पूर्वपरयोः (6.1.84) इति सम्पूर्णं सूत्रमनुवर्तते अत आह — अचि परे पूर्वपरयोरिति । उपेन्द्र इति ** “उप-इन्द्र” इति स्थिते अत्र **आद्गुणः (6.1.87) इति सूत्रेण पूर्वपरयोः अकार-इकारयोः स्थाने गुणसंज्ञकः कण्ठतालुस्थानकः एकारो जातः । तेन “उपेन्द्र” इति रूपं सिद्धम् । गङ्गोदकमिति । “गङ्गा-उदकम्” इति स्थिते आद्गुणः (6.1.87) इत्यनेन सूत्रेण पूर्वपरयोः आकार-उकारयोः स्थाने ओकारे कृते गङ्गोदकमिति सिद्धम् ॥