61087: आद्गुणः
==============
**Padacheda:** आत् | S | 5 | 1 |
गुणः | S | 1 | 1 |
Sutrartha
---------
**अवर्णात् अच्-वर्णे परे संहितायाम् पूर्वपरयोः एकः गुणः आदेशः भवति ।**
अवर्णात् (अकारात् / आकारात्) संहितायाम् स्वरः विद्यते चेत् उभयोः **गुणैकादेशः** भवति । इत्युक्ते, 'गुण' इति संज्ञया निर्दिष्टः वर्णः आदेशरूपेण अत्र विधीयते ।
अष्टाध्याय्यां **अदेङ् गुणः** (1.1.2) इत्यनेन अकार-एकार-ओकाराणाम् गुणसंज्ञा भवति । एतेषु कः वर्णः आदेशरूपेण विधीयेत — इति प्रश्ने जाते, **स्थानेऽन्तरतमः** (1.1.50) इत्यस्याः परिभाषायाः आश्रयः स्वीक्रियते । अनया परिभाषया एतत् ज्ञाप्यते, यत् स्थानेन यः वर्णः सदृशतमः, तस्य आदेशरूपेण विधानम् भवति ।
**वर्णानाम् उच्चारणस्थानानि एतादृशानि** — अवर्णस्य कण्ठः । इवर्णस्य तालु । उवर्णस्य ओष्ठौ । ऋवर्णस्य मूर्धा । ऌवर्णस्य दन्ताः । एकारस्य कण्ठतालु । ओकारस्य कण्ठोष्ठम् । रेफस्य मूर्धा ॥
उदाहरणानि एतानि —
**1. अवर्णात् इवर्णे परे उभयोः एकादेशः **एकारः** विधीयते ।** अवर्णस्य उच्चारणस्थानम् कण्ठः, इवर्णस्य उच्चारणस्थानम् तालु, एकारस्य उच्चारणस्थानम् कण्ठतालु - इति स्थानेन आन्तरतम्यम् सिद्ध्यति। यथा —
देवानाम् इन्द्रः → देव + इन्द्रः → देवेन्द्रः ।
महान् च असौ इन्द्रश्च → महत् + इन्द्रः → महा + इन्द्र [**आन्महतः समानाधिकरणजातीययोः** (6.3.46) इति आकारादेशः] → महेन्द्रः ।
देवानाम् ईशः → देव + ईशः → देवेशः।
महान् च असौ ईशश्च → महा + ईशः → महा + ईशः [**आन्महतः समानाधिकरणजातीययोः** (6.3.46) इति आकारादेशः] → महेशः ।
**2. अवर्णात् उवर्णे परे उभयोः एकादेशः **ओकारः** विधीयते ।** अवर्णस्य उच्चारणस्थानम् कण्ठः, उवर्णस्य उच्चारणस्थानम् ओष्ठौ, ओकारस्य उच्चारणस्थानम् कण्ठोष्ठम् - इति स्थानेन आन्तरतम्यम् सिद्ध्यति । यथा —
सूर्यस्य उदयः → सूर्य + उदयः → सूर्योदयः ।
गङ्गायाः उदकम् → गङ्गा + उदकम् → गङ्गोदकम् ।
पादेन ऊनम् → पाद + ऊनम् → पादोनम् ।
एकया ऊनम् → एका + ऊनम् → एकोनम् ।
**3. अवर्णात् ऋवर्णे परे उभयोः एकादेशः **अर्** विधीयते ।** अत्र अवर्णस्य उच्चारणस्थानम् कण्ठः, ऋवर्णस्य उच्चारणस्थानम् मूर्धा । गुणसंज्ञकेभ्यः त्रिभ्यः वर्णेभ्यः 'मूर्धा' इति उच्चारणस्थानम् कस्यापि वर्णस्य नास्ति । परन्तु **उरण् रपरः** (1.1.51) इत्यनेन सूत्रेण एतत् ज्ञायते यत् ऋकारस्य स्थाने जायमानः अकारः नित्यम् रेफेण सह (इत्युक्ते, 'अर्' इत्यस्मिन् रूपे) विधीयते । अतः अवर्णात् ऋवर्णे परे उभयोः केवलम् 'अ' इति आदेशः कदापि नैव भवति, अपितु 'अर्' इति रेफयुक्तः आदेशः एव सम्भवति । अस्मिन् आदेशे विद्यमानस्य अकारस्य उच्चारणस्थानम् कण्ठः, रेफस्य उच्चारणस्थानम् च मूर्धा; अतः अत्र स्थानसाधर्म्यम् अपि सिद्ध्यति । अतः अवर्णात् ऋवर्णे परे 'अर्' इत्येव आदेशरूपेण विधीयते । यथा —
देवानाम् ऋषिः → देव + ऋषिः → देवर्षिः ।
महान् च असौ ऋषिः → महत् + ऋषिः → महा + ऋषिः [**आन्महतः समानाधिकरणजातीययोः** (6.3.46) इति आकारादेशः] → महर्षिः । आकार-ऋकारयोः अपि अर्-आदेशः एव भवति, 'आर्' इति न ।
प्रथमश्च असौ ॠकारश्च → प्रथम + ॠकारः → प्रथमर्कार ।
बालिकायाः ॠकारः → बालिका + ॠकारः → बालिकर्कार । आकार-ॠकारयोः अपि अर्-आदेशः एव भवति, 'आर्' इति न ।
**4. अवर्णात् ऌवर्णे परे उभयोः एकादेशः **अल्** विधीयते ।** अत्र अवर्णस्य उच्चारणस्थानम् कण्ठः, ऌवर्णस्य उच्चारणस्थानम् दन्ताः । गुणसंज्ञकेभ्यः त्रिभ्यः वर्णेभ्यः 'दन्ताः' इति उच्चारणस्थानम् कस्यापि वर्णस्य नास्ति । परन्तु **उरण् रपरः** (1.1.51) इत्यनेन सूत्रेण एतत् ज्ञायते यत् ऌकारस्य स्थाने जायमानः अकारः नित्यम् लकारेण सह (इत्युक्ते, 'अल्' इत्यस्मिन् रूपे) विधीयते । अतः अवर्णात् ऌवर्णे परे उभयोः केवलम् 'अ' इति आदेशः कदापि नैव भवति, अपितु 'अल्' इति लकारयुक्तः आदेशः एव सम्भवति । अस्मिन् आदेशे विद्यमानस्य अकारस्य उच्चारणस्थानम् कण्ठः, लकारस्य उच्चारणस्थानम् च दन्ताः; अतः अत्र स्थानसाधर्म्यम् अपि सिद्ध्यति । अतः अवर्णात् ऌवर्णे परे 'अल्' इत्येव आदेशरूपेण विधीयते । यथा —
कृष्णस्य ऌकारः → कृष्ण + ऌकारः → कृष्णल्कारः ।
महान् च असौ ऌकारश्च → महत् + ऌकारः → महा + ऌकारः [**आन्महतः समानाधिकरणजातीययोः** (6.3.46) इति आकारादेशः] → महल्कारः । आकार-ऌकारयोः अपि अल्-आदेशः एव भवति, 'आल्' इति न ।
**बाध्यबाधकभावः**
प्रकृतसूत्रेण यद्यपि अचि परे गुणैकादेशः उक्तः अस्ति, तथापि अस्य सूत्रस्य प्रसक्तिः केवलम् 'इक्' वर्णे परे एव दृश्यते । अन्येषु वर्णेषु परेषु अस्य गुणादेशस्य सवर्णदीर्घेण वृद्ध्यादेशेन वा बाधः भवति । तदित्थम् —
1) अवर्णात् अवर्णे परे, प्रकृतसूत्रेण उभयोः गुणादेशे प्राप्ते, तद् बाधित्वा **अकः सवर्णे दीर्घः** (6.1.101) इत्यनेन पूर्वपरयोः एकः सवर्णदीर्घादेशः भवति ।
2) अवर्णात् एच्-वर्णे परे प्रकृतसूत्रेण उभयोः गुणादेशे प्राप्ते, तद् बाधित्वा **वृद्धिरेचि** (6.1.88) इत्यनेन पूर्वपरयोः एकः वृद्ध्येकादेशः भवति ।
Sutrartha (English)
-------------------
When an अवर्ण is followed by an अच् letter in the context of संहिता, both of them are replaced by a single गुण letter
Vasu English Summary
--------------------
The गुण is the single substitute of the final अ or आ of a preceding word and the simple vowel of the succeeding (अ or आ + a vowel = गुण)।
Vasu English Translation
------------------------
The गुण is the single substitute of the final अ or आ of a preceding word and the simple vowel of the succeeding (अ or आ + a vowel = गुण)।
The word अचि is understood here. For the vowel which follows an अ or आ, and for the अ or आ which precedes a vowel, in the room of both these preceding and succeeding vowels, there is the single substitute *guna*. Thus तव + इदम् = तवेदम्, खट्वा + इन्द्रः = खट्वेन्द्रः, माला + इन्द्रः = मालेन्द्रः, तव + ईहते = तवेहते, खट्वा + ईहते = खट्वेहते, तव + उदकम् = तवोदकम्, खट्वा + उदकम् = खट्वोदकम्, तव + ऋश्यः = तवर्श्यः, खट्वा + ऋश्यः = खट्वर्श्यः, तव + लृकारः = तवल्कारः, खट्वा + लृकारः = खट्वल्कारः ॥ By analogy of (1.1.51), the *guna* substitute of लृ being अ is always followed by ल्, as that of ॠ is followed by र् ॥ This universal rule is limited by the following aphorism.
Bhashya
-------
आद्गुणः (2524) (गुणाधिकरणम्) (पदकृत्यभाष्यम्) गुणग्रहणं किमर्थम्, न आदेको भवतीत्युच्येत ? (गुणपदाभावे आक्षेपश्लोकभाष्यम्) आदेकश्चेद्गुणः केन आदेकश्चेत्, गुणः केनेदानीं भविष्यति - खट्वेन्द्रः, मालेन्द्रः । खट्वोदकम्, मालोदकम् । (समाधानश्लोकभाष्यम्) स्थानेऽन्तरतमो हि सः । स्थाने प्राप्यमाणानामन्तरतम आदेशो भवति ॥ ऐदौतावपि तर्हि प्राप्नुतः । (समाधानश्लोकभाष्यम्) ऐदौतौ नैचि तावुक्तौ ऐदौतौ न भविष्यतः । किं कारणम् ? एचि ह्यैदौतावुच्येते ॥ इह तर्हि - खर्ट्वश्यः, मार्लश्यः - ऋकारस्तर्हि प्राप्नोति । (समाधानश्लोकभाष्यम्) ऋकारो नोभयान्तरः ॥ 1 ॥ उभयोर्योऽन्तरतमस्तेन भवितव्यम्, न च ऋकार उभयोरन्तरतमः ॥ आकारस्तर्हि प्राप्नोति । (समाधानश्लोकभाष्यम्) आकारो नर्तिधातौ सः आकारो न भविष्यति । किं कारणम् ? ऋतिधातावाकार उच्यते तन्नियमार्थं भविष्यति - ऋकारादौ धातावेव, नान्यत्रेति ॥ प्लुतस्तर्हि प्राप्नोति । (समाधानश्लोकभाष्यम्) प्लुतश्च विषये स्मृतः । विषये प्लुत इत्युच्यते । यदा च स विषयः, भवितव्यमेव तदा प्लुतेन ॥ (गुणपदप्रयोजनश्लोकभाष्यम्) आन्तर्यात् त्रिचतुर्मात्राः इदं तर्हि प्रयोजनम् - आन्तर्यतस्त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा मा भूवन्निति । खट्वा - इन्द्रः - खट्वेन्द्रः । खट्वा - उदकं - खट्वोदकम् । खट्वा - इर्षा - खट्वेषा । खट्वा - ऊढा - खट्वोढा । खट्वा - एलका - खट्वैलका । खट्वा - ओदनः - खट्वौदनः । खट्वा - ऐतिकायनः - खट्वैतिकायनः । खट्वा - औपगवः - खट्वौपगवः ॥ (आक्षेपभाष्यम्) अथ क्रियमाणेऽपि गुणग्रहणे कस्मादेवात्र त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा न भवन्ति ? (समाधानश्लोकभाष्यम्) तपरत्वान्न ते स्मृताः ॥ 2 ॥ तपरे च गुणवृद्धी ॥ (तपरपदार्थबोधकभाष्यम्) ननु च तः परो यस्मात्सोऽयं तपरः । नेत्याह । तादपि परस्तपरः । यदि तादपि परस्तपरः, ऋदोरप् (3.3.57) इहैव स्यात् - यवः, स्तवः । लवः, पवः - इत्यत्र न स्यात् । नैष तकारः । कस्तर्हि ? दकारः । किं दकारे प्रयोजनम् ? अथ किं तकारे ? असंदेहार्थस्तकारः । यद्यसंदेहार्थस्तकारः, दकारोऽपि । अथ मुखसुखार्थस्तकारः, दकारोऽपि ॥ (6158 एकदेशिन उपसंख्यानवार्तिकम् ॥ 7 ॥) - गुणे ङिशीटामुपसंख्यानं दीर्घत्वबाधनार्थम् - गुणे ङिशीटामुपसंख्यानं कर्तव्यम् । ङि - वृक्ष इन्द्रः, प्लक्ष इन्द्रः । शी - य इन्द्रम्, त इन्द्रम् । इट् - अपच इन्द्रम्, अयज इन्द्रम् । किं प्रयोजनम् ? दीर्घत्वबाधनार्थम् । सवर्णदीर्घत्वं मा भूदिति ॥ (6159 प्रत्याख्यानवार्तिकम् ॥ 8 ॥) - न वा बहिरङ्गलक्षणत्वात् - न वा कर्तव्यम् । किं कारणं ? बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणं सवर्णदीर्घत्वम्, अन्तरङ्गो गुणः । असिद्धं बहिरङ्गमन्तरङ्गे ॥ आदेकश्चेद्गुणः केन स्थानेऽन्तरतमो हि सः । ऐदौतौ नैचि तावुक्तौ ऋकारो नोभयान्तरः ॥ 1 ॥ आकारो नर्तिधातौ सः प्लुतश्च विषये स्मृतः । आन्तर्यात् त्रिचतुर्मात्रास् तपरत्वान्न ते स्मृताः ॥ 2 ॥
Kashika
-------
अचीत्यनुवर्तते। अवर्णात् परो योऽच् अचि च पूर्वो योऽवर्णः, तयोः पूर्वपरयोरवर्णाचोः स्थान एको गुण आदेशो भवति। तवेदम्। खट्वेन्द्रः। मालेन्द्रः। तवेहते। खट्वेहते। तवोदकम्। खट्वोदकम्। तवर्श्यः। खट्वर्श्यः। तवल्कारः। खट्वल्कारः। ऌकारस्य स्थाने योऽण् तस्य लपरत्वमिष्यते॥
Siddhanta Kaumudi
-----------------
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्संहितायाम् । उपेन्द्रः । रमेशः । गङ्गोदकम् ॥
Laghu Siddhanta Kaumudi
-----------------------
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्। उपेन्द्रः। गङ्गोदकम्॥
Balamanorama
------------
**आद्गुणः** - आद्गुणः । आदिति पञ्चमी नतु तपरकरणम् । एकः पूर्वपरयोरित्यधिकृतम् । तदाह-अवर्णादचीत्यादिना । उपेन्द्र इति । उप-इन्द्र इति स्थिते पकारादकारस्य तस्मादिकारस्य च पूर्वपरयोः कण्ठतालुस्थानकयोस्तथाविध एको गुण एकारः, आन्तरतम्यात् । अथ प्रत्याहारेषु स्ववाच्यवाच्येषूक्तां लक्षणां स्मारयितुं दीर्घविषयोदाहरणमाह-रमेश इति । रमा-ईश इति स्थिते आकारस्य ईकारस्य च स्थाने पूर्ववदेको गुण एकारः । गङ्गोदकमिति । गङ्गा-उदकमिति स्थिते आकारस्य उकारस्य च कण्ठोष्टस्थानकयोस्तथाविध एको गुण ओकारः । कृष्णर्द्धिरित्यत्र कृष्ण ऋद्धिरिति स्थिते आद्गुण इति प्राप्तम् । अत्र अकार ऋकारश्चेति द्वौ स्थानिनौ । तयोरकार एकार ओकारश्चेति त्रयोऽपि गुणः प्रसक्ताः, अकारेण तेषां कण्ठस्थानसाम्याऽविशेषात् ।
Padamanjari
-----------
गुणग्रहणं किम्, यावताऽचीति वर्तते, ठेकः पूर्वपरयोऽ इति च, तत्रान्तर्यतः कण्ठतालव्ययोरकारेकारयोः स्थाने तादृश एवैकारो भविष्यति, कण्ठयौष्ठ।ल्योश्चाकारोकारयोः स्थाने तादृश एवौकारो भविष्यति, कण्ठयौष्ठ।ल्योश्चाकारोकारयोः स्थाने तादृश एवौकारो भविष्यति; चैकारौकारयोरपि प्रसङ्गः, वृद्दिरेचीति नियमात् ? तदिदानीं नियमार्थम्, ऐचोरनेनैव सिद्धत्वात्, एच्येव वृद्धिभर्वति। उभयथा नियमश्च व्याख्यास्यते, वृद्धिरेवैचीति। इर तर्हि खट्वर्श्यः मालार्श्य इति प्रमाणतोऽन्तरतमो मूर्द्धन्त ऋकारः प्राप्नाति ? माण एव रपरो भवतीति स्थानत् उभरोरन्तरतमः। आकारस्तर्हि प्राप्नोति ? ठिपसर्गादृति धातौऽ इत्येतन्न्यमार्थं भविष्यति - ऋति धातावेवाकारो नान्यत्रेति। प्रुतस्तर्हि प्राप्नोति - खट्वेन्द्रः,'प्लुतश्च विषये स्मृतः' , प्लुतविदाने हि सति यस्मिन्विषे ब्लुतो विहितस्तस्मिन्नप्यनैनैव भाव्यम् ? अस्मिन्कर्तव्ये आष्टमिकस्य प्लुतस्यासिद्धत्वात्, ततश्च पक्षेऽनुवाददोषपसङ्गत् प्लुगो न भवतीति। इह तर्हि शट्वा ईषा खट्वेषा,शट्वा ऊढा खट्वेढा, आन्तर्यतश्चतुर्मात्र आदेशः प्राप्नोति, गुणग्रहणे तु क्रियमाणे गुणसंज्ञायान्परकरणं सर्वार्थमिति त्रिमात्रचतुर्मात्राणामगुणत्वादप्रसङ्गः। तस्माद् गुणग्रहणम्। श्लेकौ चात्र भवत - आदेशश्चेद् गुणः केन स्थानेऽन्तरतमो हि साः। ऐदौतौ नैचि तावुक्तावृकारो नोभयन्तरः ॥ आकारो नर्तिधातौ स प्लतश्च विषये स्मृत। आन्तर्यात्रिचतुर्मात्रो गुणश्च तपरः समृतः ॥ इह वृक्षशब्दान्ङ्ः, वृक्षि अ इ अ इन्द्रमिति स्थिते अकारेकायोर्गुणश्च प्राप्नोतीकारयोः सवर्णदीर्घश्च, तत्र शब्दपरविप्रतिषेधाद्दीर्घप्रसङ्गः, तथा तच्छपब्दान्'जश्शसोः शिः' , न इ इन्द्रम्, पचेरुतमैकवचनमिट् शप् पच इ चन्द्रम् ? नैष दोषः एकपदातरङ्गो गुणे भविष्यते प्रगेव पदान्तरसन्निदानात् । ऌकारस्य स्तानत इतै। यथा चैतल्लभ्यते तथा।'लण्' इत्यत्र व्याख्यातम् ॥
Nyaas
-----
`तवल्कारः; खट्वल्कारः` इति। कथं पुनरत्र लपरत्वम्? इत्याह -`ऌकारस्य स्थाने` इत्यादि। एतच्च `ऌकारऋकारयोः सवर्णसज्ञा वक्तव्या` (वा।3) इत्युपसंख्यानात्? `उरण्? रपरः` (1.1.50) इत्यत्र रप्रत्याहारग्रहणाल्लभ्यते। उक्तं ह्रक्षरसमम्नाये -`हकारादिषु वर्णोष्वकार उच्चारणार्थः, लकारे त्वनुनासिक इत्संज्ञकः प्रतिज्ञायते` इति। तत्र रेफादारभ्य लणकारेण प्रत्याहारे सति ऌकारस्य ऋकारग्रहणेन गृहीतस्य स्थानेऽण्? विधीयमानो लपरः सम्पद्यते॥
Prakriyasarvasvam
-----------------
अवर्णदचि परे पूर्वपरयोः सह एकोऽन्तरतमो गुणः स्यात् । उपेन्द्रः । रमेशः । क्रीडोत्सुकः । अवशिष्टयोः ऋऌवर्णयोरवशिष्टोऽकारो गुणः ।
Sarala
------
**आत्** - पञ्चम्यन्तं, **गुणः** - प्रथमान्तम् । **इको यणचि** (६.१.७७) इत्यतोऽचीत्यनुवर्त्तते, **एकः पूर्वपरयोः** (६.१.८४) इत्यधिकृतं, तदाह - **अवर्णादिति** । "उप-इन्द्रः" इत्यवस्थायामाद्गुण इत्यनेन कण्ठतालुस्थानिकयोरकारेकारयोः स्थाने कण्ठतालुस्थानिके गुणे एकारे कृते "उपेन्द्रः" इति सिद्धम् । इन्द्रमुपगतः - **उपेन्द्रः** - विष्णुः । "गङ्गा-उदकम्" इत्यवस्थायाम् **आद्गुणः** (६.१.८७) इत्यनेन कण्ठोष्ठस्थानिकयोराकारोकारयोरुभयोः स्थाने कण्ठोष्ठस्थानिके ओकारे कृते "गङ्गोदकम्" इति सिद्धम् । **गङ्गोदकं** = गङ्गाजलम् ॥
Sudha
-----
**आद्गुण इति ** । **इको यणचि** (6.1.77) इत्यतो अचि इति, **एकः पूर्वपरयोः** (6.1.84) इति सम्पूर्णं सूत्रमनुवर्तते अत आह — **अचि परे पूर्वपरयोरिति ।** **उपेन्द्र इति ** "उप-इन्द्र" इति स्थिते अत्र **आद्गुणः** (6.1.87) इति सूत्रेण पूर्वपरयोः अकार-इकारयोः स्थाने गुणसंज्ञकः कण्ठतालुस्थानकः एकारो जातः । तेन "उपेन्द्र" इति रूपं सिद्धम् । **गङ्गोदकमिति ।** "गङ्गा-उदकम्" इति स्थिते **आद्गुणः** (6.1.87) इत्यनेन सूत्रेण पूर्वपरयोः आकार-उकारयोः स्थाने ओकारे कृते गङ्गोदकमिति सिद्धम् ॥