61049: सिध्यतेरपारलौकिके

Padacheda: सिध्यतेः | S | 6 | 1 |

अपारलौकिके | S | 7 | 1 |

Sutrartha


Vasu English Summary

The substitution of आ takes for the diphthong in the causative of सिध् , when it does not refer to the next life.

Vasu English Translation

The substitution of आ takes for the diphthong in the causative of सिध् , when it does not refer to the next life. The word पारलौकिक is derived from परलोक ‘the next world’ by adding the affix ठञ् with the force of ‘for the sake of’ (5.1.109). The double Vriddhi takes place by (7.3.20). The sense of the word सिध् must refer to अज्ञान or non-intelligent things for the purposes of this substitution. Thus अन्नं साधयति, ग्रामं साधयति ॥ Why do we say when not referring to the next world ? See तपस्तापसं सेधयति, स्वान्येवनं कर्माणि सेधयन्ति ॥ The force of सिध is here that of knowledge, तापसः सिद्ध्यति = ज्ञानावशेषमासादयति ॥ The ascetic acquires certain knowledge through austerities, the knowledge so acquired produces its result in the next world (परलोक) i. e. the next life, therefore, the साधन of the ascetic is for the sake of the next life, and so there is no substitution of आ for ए ॥ Why the substitution does not take place here : अन्नं साधयति, ब्राह्मणेभ्योदास्यामि ‘he causes food to be prepared for the purpose of giving to the Brahmanas’. Here though the gist of the food produces effect in the next world, yet as that is the effect of दान and not of the verb सिध्, the substitution does take place. When the verb सिध् directly and not through the mediation of another action, produces paraloukika effect, then the substitution does not take place. The verb सिध् here belongs to the Divadi class and not to the Bhvadi, as the form सिध्यति in the sutra shows it.

Bhashya

सिध्यतेरपारलौकिके (2486) (6059 उपसंख्यानवार्तिकम् ॥ 1 ॥) - सिध्यतेरज्ञानार्थस्य - सिध्यतेरज्ञानार्थस्येति वक्तव्यम् ॥ (6060 उपसंख्यानफलबोधकवार्तिकम् ॥ 2 ॥) - इतरथा ह्यनिष्टप्रसङ्गः - अपारलौकिके इत्युच्यमानेऽनिष्टं प्रसज्येत । अन्नं साधयति, ब्राह्मणेभ्यो दास्यामीति ॥ अस्ति पुनरयं सिध्यतिः क्वचिदन्यत्रापि ज्ञानार्थे वर्तते । अस्तीत्याह - तपस्तापसं सेधयति, ज्ञानमस्य प्रकाशयति । स्वान्येवैनं कर्माणि सेधयन्ति, ज्ञानमस्य प्रकाशयन्तीत्यर्थः ॥

Kashika

णाविति वर्तते। षिधु हिंसासंराध्योः इत्यस्य धातोरपारलौकिकेऽर्थे वर्तमानस्यैचः स्थाने णौ परत आकारादेशो भवति। अन्नं साधयति। ग्रामं साधयति। अपारलौकिक इति किम् ? तपस्तापसं सेधयति। स्वान्येवैनं कर्माणि सेधयन्ति । अत्र हि सिध्यतिः पारलौकिके ज्ञानविशेषे वर्तते। तापसः सिध्यति ज्ञानविशेषमासादयति। तं तपः प्रयुङ्क्ते। स च ज्ञानविशेष उत्पन्नः परलोके जन्मान्तरे फलमभ्युदयलक्षणमुपसंहरन् परलोकप्रयोजनो भवति। इह कस्माद् न भवति — अन्नं साधयति, ब्राह्मणेभ्यो दास्यामीति ? सिध्यतेरत्रार्थो निष्पत्तिः। तस्याः प्रयोजनमन्नम्। तस्य यद् दानं तत् पारलौकिकम्, न पुनः सिद्धिरेवेति न आत्वं पर्युदस्यते। साक्षात् परलोकप्रयोजने च सिध्यर्थे कृतावकाशं वचनमेवंविषयं नावगाहते। सिध्यतेरिति श्यना निर्देशः षिधु गत्याम् इत्यस्य भौवादिकस्य निवृत्त्यर्थः॥

Siddhanta Kaumudi

ऐहलौकिकेऽर्थे विद्यमानस्य सिध्यतेरेच आत्वं स्याण्णौ । अन्नं साधयति । निष्पादयतीत्यर्थः । अपारलौकिके किम् । तापसः सिद्ध्यति । तत्त्वं निश्चिनोति । तं प्रेरयति सेधयति तापसं तपः ॥

Tattvabodhini

सिध्यतेरपारलौकिके - सिध्यतेरपार । श्यना निर्देशाद्भौवादिकस्याऽग्रहणम् । तत्त्वं निश्चिनोतीति । तत्त्वनिश्चयश्चात्मविषयकः । स च परलोके उपयुज्यते ।

Padamanjari

उपदेश एवात्वविधानाल्ल्यपः परत्वासम्भवाल्ल्यपीति विषयसप्तमीत्याह -ल्यपि विषय इति। एकाच्चेति। यद्यपि प्रकृतिविशेषणं प्रागासीत्, तथापीहोपदेशाधिकारान्मीनात्यादीनां चोपदेश एजन्तत्वासम्भवात्सामर्थ्यादेव इत्येतदपि विषयविशेषणं विज्ञायत इत्याह -एचश्च विषय इति। यत्र प्रत्यये एज्भावी तस्मिन्बुद्धिस्थ इत्यर्थः। उपदेश एवेत्यस्य विवरणम् -प्राक् प्रत्ययोत्पतेरिति। उपदेश एवात्वविधाने योऽर्थः सम्पद्यते तं दर्शयति -उपदेश एवात्वविधानादिति। इवर्णान्तलक्षणः प्रत्यय एरच्, आकारान्तलक्षणस्तु घञ्। यद्यपि घञाकारान्तादिति नोच्यते, तथाप्यत्रात्वे सति भवति, असति तु न भवतीत्येतावता घञ आकारान्तलक्षणत्वम्। उपदायो वर्तत इति।’घञि ठातो युक् चिण्कृतोः’ इति युक्। ईषदुपदानमिति खलर्थे ठातो युच्ऽ। मीनातिमिनोत्येस्तु खलचावेव भवत;’निमीमिलियां खलचोः प्रतिषेधः’ इति वक्ष्यमाणत्वात्। अतो दी॥।वोदाहृतः ॥

Nyaas

अन्नं साध्यति इति। अन्नं निष्पादयतीत्यर्थः। अत्र हि सिधिः पारलौकिकेर्थे ज्ञानविशेषे वर्तत इति। अस्यार्थं -तापसः सिध्यति इत्यादिना स्पष्टीकरोति। उपसंहारन् इति। निष्पादयन्नित्यर्थः। इह कस्मान्न भवति इत्यादि। एवं मन्यन्ते -ब्राआहृणेभ्यो दास्यामीत्यनेनाभिप्रायेण योऽन्नं साधयति स जमान्तरे भवन्? फलमभ्युदयलक्षणं प्राप्नोति, तस्मात्? पारलौकिकेऽर्थे सिधिरत्र वर्तत इति पर्युदासेन भवितव्यमिति। सिध्यतेरत्रार्थो निष्पत्तिरित्यादिनेहलोकार्थतां त्वस्य दर्शयति। तस्याः प्रयोजनमन्नम् इति। अन्नमुद्दिश्य प्रवृत्तत्वात्। तस्य इति। अन्नस्य। न पुनः सिद्धिरेवेति इति। अर्ताल्लिङ्गविपरिणामं कृत्वा न पुनः सिद्धिरेव पारलौकिकीति सम्बन्धनीयम्। सिद्धिर्निष्पत्तिरित्यर्थः। इतिकरणो हेतौ। यस्मात्? सिद्धो धातुर्वर्तते। अत्र सिद्धिः पारलौकिकी न भवति, तस्मान्नात्रात्वं पर्युदस्यते। स्यादेतत्? यद्यपि साक्षाद्धातुः परलोकार्थो न भवति, पारम्पर्येण तु भवत्येव, तस्माद्भवितव्यमेव प्रतिषेधेन इत्याह -साक्षात् इत्यादि। यदि साक्षादव्यवधानेन परलोकार्थो यः सिद्ध्यतेरर्थः, तत्रापि पारलौकिक इतीदं वचनं न कृतार्थं स्यात्, तदा पारम्पर्येणापि यः परलोकार्थस्तत्र व्याप्रियेत -मा भूद्वचनवैयथ्र्यमिति। इदं तु ज्ञानविशेषे साक्षात्? परलोकार्थे सिध्यत्यर्थे चरितार्थम्, ततो नोत्सहत एवंविधविषयमवगाहितुम्। न शक्नोत्येवम्प्रकारे विषये नि,#एधः प्रवर्त्तितुमित्यर्थः। अथ सिद्ध्यतेः श्यना निर्देशः किमर्थः, न सिधेरित्येवोच्येत, एवं हि लघु सूत्रं भवति? इत्याह -सिद्ध्यतेः इत्यादि॥

Prakriyasarvasvam

अपारलौकिकेऽर्थे णौ सिध्यतेरेच आद्भवेत् । <karika>धनं साधयतेऽन्यत्र तपः सेधयते मुनिः ॥ ७२६ ॥ यतिः सेधयते शिष्यं बोधनार्थोऽत्र सिध्यति । तपः सिद्धिश्च बोधश्च परलोकफलौ स्वतः ॥ ७२७ ॥</karika> केचित्तु हरिभक्तं सेधयति, तस्य परलोकसिद्धिं करोतीत्याहुः । <karika>अन्नं साधयते दातुं ब्राह्मणेभ्य इतीहतु । दानमेव हि पारत्रिकार्थं न त्वन्नसंग्रहः ॥ ७२८ ॥</karika> चङि असीषधत् । असीषिधत् ।