61048: क्रीङ्जीनां णौ

Padacheda: क्री-इङ्-जीनाम् | S | 6 | 3 |

णौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

The substitution of आ for the diphthong takes place in the causatives of the roots क्री ‘to buy, to purchase’, इ ‘to study’ and जि ‘to conquer’.

Vasu English Translation

The substitution of आ for the diphthong takes place in the causatives of the roots क्री ‘to buy, to purchase’, इ ‘to study’ and जि ‘to conquer’. Thus क्रापयति, अध्यापयति and जापयति ॥ The augment प् is added by (7.3.36), since these roots end in long आ ॥

Bhashya

क्रीङ्जीनां णौ (2485) (6058 उपसंख्यानवार्तिकम् ॥ 1 ॥) - आत्वे णौ लीयतेरुपसंख्यानं प्रलम्भनशालीनीकरणयोः - आत्वे णौ लीयतेरुपसंख्यानं कर्तव्यं प्रलम्भनशालीनीकरणयोः । किं प्रयोजनम् ? प्रलम्भने चार्थे शालीनीकरणे च नित्यमात्वं यथा स्यात् । प्रलम्भने तावत् - जटाभिरालापयते, श्मश्रुभिरालापयते । शालीनीकरणे - श्येनी वर्तिकामुल्लापयते, रथी रथिनमपलापयते ॥

Kashika

डुक्रीञ् द्रव्यविनिमये इङ् अध्ययने जि जये इत्येतेषां धातूनामेचः स्थाने णौ परत आकारादेशो भवति। क्रापयति। अध्यापयति। जापयति॥

Siddhanta Kaumudi

एषामेच आत्वं स्याण्णौ । क्रापयति । अध्यापयति । जापयति ॥

Balamanorama

क्रीङ्जीनां णौ - क्रीङ्जीनां णौ ।डु क्रीञ् द्रव्यविनिमये,इङ् अध्ययने॑, ‘जि जये’ एषां द्वन्द्वः । एच आत्त्वमिति । ‘आदेच उपदेशे’ इत्तस्तदनुवृत्तेरिति भावः । क्रापयति जापयतीति । आत्त्वे पुक् लुङि अचिक्रपत् अजीजपत् । अध्यापयतीति । इङ आत्त्वे पुकि रूपम् । अधि इ इ अ त् इति स्थिते ।

Tattvabodhini

क्रीङ्जीनां णौ - क्रीङ्जीनाम् ।डुक्रीञ् द्रव्य विनिमये॑ ।इङ् अध्ययने॑ ।जि जये॑ । अचिक्रपत् । अध्यजीगपदिति । नाऽत्र णिज्निमित्तस्य गाङो द्वित्वे कर्तव्ये स्थानिवद्भावो, निषेधो वा शङ्क्यः, यत्राऽभ्यासोत्तरखण्डे आद्योऽवर्णोऽस्ति तत्रैव स्थानिवद्भावो, निषेधो वेत्युक्तत्वात् । इह तु गाङ् पूर्वं सतिहि द्वित्वेअजादेर्द्वितीयस्य॑ इति णिच एव द्वित्वं भवेत्ततश्चह्परणिज्निमित्तो गाङ्, ततश्च प्रक्रयायां परिनिष्ठितरूपे वा अवर्णवदुत्तरखण्डं दर्लुभं, कीर्तयतिसाम्यादिति नोक्तशङ्कावकाशः ।अध्यापिपदिति । पिशब्दस्यात्र दित्वम् ।

Padamanjari

परलोकः प्रयोजनमस्य तत्पारलौकिकम्’प्रयोजनम्’ इति ठक्, अनुशतिकादित्वादुभयपदवृद्धिः। ज्ञनविशेषे वर्तत इति। हेयोपादेयतत्वावबोधःउज्ञानविशेषः। तापसः सिध्यतीति। हेयमुपादेयं च तत्वतो ज्ञातुकामः प्रवर्त त इत्यर्थः। तदाह - ज्ञानविशेषमासादयतीति। तपः प्रयुङ्क्ते इति। ज्ञानविशेषवन्तं करोतीत्यर्थः। परलोक इत्यस्य विवरणम्-जन्मान्तर इति। इह वा भवतु, स्वर्गादौ वा, शरीरान्तरोपलक्षणार्थं पारलौकिकग्रहणमिति। उपसंहरन्निति। हेतौ शतृप्रत्ययः। इह कस्मादिति। ब्राह्मणेभ्यो दास्यामीत्यनेनाभिप्रायेणानुष्ठितो धात्वर्थः परलोकप्रयोजनो भवतीति प्रश्नः। सिद्ध्यतेरर्थ इत्यादिना ऐहलौकिकत्वं धात्वर्थस्य दर्शयति। तस्यप्रयोजनमिति। तदुद्दिश्य प्रवृतत्वात्। पुनः सिद्धिरेवेति। पारलौकिकीति लिङ्गविपरिणामेन सम्बन्धनीयम्। सिद्धिःउ सिद्धिरेवेति। पारलौकिकीति लिङ्गविपरिणामेन सम्बन्धनीयम्। सिद्धिःउनिष्पतिः। यस्यां सिद्धौ धातुर्वर्तते सा च पारलौकिकी न भवति, तस्मादात्वं न पर्युदस्यते। साक्षादिति। यदि साक्षादव्यवधानेन पारलौकिको यः सिद्ध्यतेरर्थस्तत्र पर्युदासो न चरितार्थः स्यातदा पारम्पर्याश्रयणम्। इदं तु साक्षात्परलोकार्थे ज्ञानविशेषे चरितार्थम्, अतो नैवंविधे विषये प्रवर्तते इत्यर्थः ॥

Nyaas

डुक्रीञ्? द्रव्यविनिमये (धातुपाठः-1473) इङ् अध्ययने (धातुपाठः-1046) जि जये (धातुपाठः-561)। अनुपदेशार्थ आरम्भः। क्रापयतीत्यादावात्वे कृते अर्त्तिह्यी (7.3.36) इत्यादिना पुक्। किमर्थमिदमुच्यते, न क्रप कुत्सायां गतौ (धातुपाठः-771), जप जल्प व्यक्तायां वाचि (धातुपाठः-397,398), आप्लु व्याप्तौ (धातुपाठः-1260) इत्यस्य चाधिपूर्वस्य णिचि कृते क्रापयतीत्यादिकं रूपं सिद्धम्, अनेकार्थत्वाद्धातुनां क्रोणात्याद्यर्थे क्रपादयो वर्त्तिष्यन्ते? उच्यते; क्रीणात्यादीनां णिचि प्रयोगान्तरनिवृत्त्यर्थम्। अथ करोतेः ईङ्? गतौ` (धातुपाठः-1143) इत्यस्य ग्रहणं कस्मान्न विज्ञायते? उच्यते; करोतेस्तावन्न सम्भवति, एच इत्यधिकारात्। अत एव वृत्तिकृता एचः इत्यनुवर्त्तितम्। वचनसामर्थ्याद्वा तस्य हि वृद्ध्यैवात्त्वं सिद्धम्? नैतदस्ति; नियमार्थहि स्यात् - आत्त्वमेव, न पुना रपरत्वामिति? नैतदस्ति; विधिनियमसम्भवे विधिरेव ज्यायान् (व्या।प।130) इति क्रीणातेरेव ग्रहणम्। न करोतेः, तस्य नियमार्थत्वात्। क्रीणातेस्तु विध्यर्थत्वात्। ईङ् गतौ (धातुपाठः-1143) इत्यस्यापि ग्रहणं न सम्भवति; जयतिना हरस्वान्तेन साहचय्र्यात्। इङ्? ह्रस्वान्तो ग्रहीष्यते, न दीर्घान्तः; शब्दपरविप्रतिषेधात्। जयतिना साहचय्र्यम्, न क्रीणातिना। व्याख्यानतो वा विशेषोऽवसेयः॥

Sutra Prayogas

  • अध्यापिपद् (भट्टिकाव्यम्): अधिपूर्वादिङो हेतुमण्णिचि क्रीजीनां णौ इत्यात्वम्।