61028: प्यायः पी¶
Padacheda: प्यायः | S | 6 | 1 |
पी | S | | | 1
Sutrartha¶
Vasu English Summary¶
पी is optionally the substitute of the root प्याय् ‘to increase’ before the निष्ठा affixes.
Vasu English Translation¶
पी is optionally the substitute of the root प्याय् ‘to increase’ before the निष्ठा affixes. The root ओप्यायी वृद्धौ belongs to Bhvadi class. The indicatory आ shows that the affixes त and तवत् are changed into न and नवत् (8.2.45). Thus पीनं मुखम्, पीनौ बाहू, पीनसुरः ॥ The option here is also a regulated option (vyavasthita-vibhasha). The substitution takes place invariably when the root is without upasarga, and never when it is preceded by an upasarga. Thus प्रप्यानः आप्यानश्चन्द्रगाः ॥ The substitution, however, must take place when the preposition आङ् precedes the root, and the words अन्धुः and ऊधस् are in composition : as आपीनोन्धुः, आपीनमूधः ॥
Bhashya¶
प्यायः पी (2465) (6035 निपातननियामकवार्तिकम् ॥ 1 ॥) - आङ्पूर्वादन्धूधसोः - आङ्पूर्वादन्धूधसोरिति वक्तव्यम् । आपीनोऽन्धुः, आपीनमूधः । किं प्रयोजनम् ? नियमार्थम् । आङ्पूर्वादन्धूधसोरेव । क्व मा भूत् ? आप्यानश्चान्द्रमा इति ॥ उभयतो नियमश्चायं द्रष्टव्यः - आङ्पूर्वादेवान्धूधसोः, अन्धूधसोरेवाङ्पूर्वादिति । क्व मा भूत् ? प्रप्यानोऽन्धुः, प्रप्यानमूधः ॥ आङ्पूर्वाच्चैष नियमो द्रष्टव्यः । भवति हि -पीनं पुण्यम्, पीनाः शंबट्यः, श्लक्ष्णपीनमुखी कन्येति ॥
Kashika¶
विभाषेत्येव। ओप्यायी वृद्धौ इत्यस्य धातोर्निष्ठायां विभाषा पीत्ययमादेशो भवति। पीनं मुखम्। पीनौ बाहू। पीनमुरः। इयमपि व्यवस्थितविभाषैव। तेनानुपसर्गस्य नित्यं भवति, सोपसर्गस्य तु नैव भवति। आप्यानश्चन्द्रामाः। आङ्पूर्वस्यान्धूधसोर्भवत्येव — आपीनोऽन्धुः, आपीनमूध इति॥
Siddhanta Kaumudi¶
वा स्यान्निष्ठायाम् । व्यवस्थितविभाषेयम् । तेन स्वाङ्गे नित्यम् । पीनं सुखम् । अन्यत्र प्यानः पीनः स्वेदः ॥<!सोपसर्गस्य न !> (वार्तिकम्) ॥ प्रप्यानः ॥<!आङ्पूर्वस्यान्धूधसोः स्यादेव !> (वार्तिकम्) ॥ आपीनोन्धुः । आपीनमूधः ॥
Balamanorama¶
प्यायः पी - प्यायः पी । वा स्यान्निष्ठायामिति । शेषपूरणमिदम् ।विभाषाऽभ्यवपूर्वस्ये॑त्यतो विभाषेति,स्फायः स्फी॑त्यतो निष्ठायामिति चानुवर्तते इति भाव- । व्यवस्थतविभाषेति । अत्र व्याख्यानमेव शरणम् ।सोपसर्गस्य ने॑त्यादि भाष्ये स्पष्टम् ।
Tattvabodhini¶
प्यायः पी - पीनमिति । ओदित्त्वान्निष्ठानत्वम् । प्यान इतिश्वीदितो निष्ठायाटमितीडभावे यलोपः । नत्वे व्यवस्थान्तरमाह - सोपसर्गस्य नेत्यादि । अन्धुः- कूपः ।
Padamanjari¶
अन्धुः कूपः ॥
Nyaas¶
पीनम् इति। ओदितश्च (8.2.45) इति निष्ठानत्वम्। इत्यमपि इत्यादि। अपिशब्देन न केवलं पूर्वसूत्रे या विभाषा सैव व्यवस्थितविभाषा, अपि त्वेषापीति दर्शयति। तेन किं सिद्धं भवति? इत्याह -तेन इत्यादि। सोपसर्गस्य तु नैव भवतीत्यस्यापवादमाह -आङ्पूर्वस्य इत्यादि। नित्यश्चायमन्धूधसोः पीभावः। व्यवस्थितविभाषैव॥
Prakriyasarvasvam¶
पीनः कुचः । पीनवान् । ‘ओ प्यायी वृद्धौ’वित्योदित्त्वान्नत्वम् । स्वाङ्गादन्यत्र पीभावो वेति कौमुदी । पीनः प्यानो वा तरुः । अनुपसर्गस्यैव पीभावः अन्यत्र । आप्यानश्चन्द्रः । आङ्पूर्वस्य कूपोधसोः स्यादेव । पूर्ण आपीनः कूपः । आपीनमूधः । ‘आपीनतुङ्गस्तनीमि’ति चिन्त्यम् । आङः पुनः समासाद् वा सिद्धिः । ‘ज्वरत्वर-’ (६-४-२०) इति झल्यूठ् । रात्रत्वम् । जित्वरा, तूर्णः । स्रिवु, स्रूतः । अन्येषां सेट्त्वान्नोठ् । ज्वरितः । अवितः । मवितः ॥ <karika>पीडाव्याध्योः प्रदीप्तेक्ता लङ्गिकम्प्योर्नलोपिता । निःस्वो विलगितो नित्यं वाताद् विकपिता तनुः ॥ ११७ ॥</karika> विकपितो विकृतशरीर इति माधवः । अन्यत्र लङ्गितः । कम्पितः । लङ्गिर्गतौ ॥
Vartika¶
आङ्पूर्वस्यान्धूधसोरिति वक्तव्यम् ।
Sutra Prayogas¶
समापिप्ये (भट्टिकाव्यम्): तस्य लिटि प्यायः पी इति पीभावः।