61027: शृतं पाके

Padacheda: शृतम् | S | 1 | 1 |

पाके | S | 7 | 1 |

Sutrartha


Vasu English Summary

Optionally शृत is formed in the sense of ‘cooked’, by the vocalisation of the semi-vowel of आ before the निष्ठा affix क्त।

Vasu English Translation

Optionally शृत is formed in the sense of ‘cooked’, by the vocalisation of the semi-vowel of आ before the निष्ठा affix क्त। The word विभाषा is understood here. The roots श्रै ‘to cook’ of the Bhvadi class, and श्रा ‘to cook’ of the Adadi class, and श्रा ‘to cook’ of the Bhvadi sub-class Ghatadi, are meant here. In all these, शृ replaces श्रा, whether causative or not. Thus शृतं क्षीरं, शृतं हविः ॥ This is a vyavasthita vibhasha; so that श्रा is invariably changed to शृ when referring to क्षीर and हवि, but not anywhere else. Thus श्राणा यवागूः, श्रपिता यवागूः (7.3.36) and (6.4.92). This word does not take double causative though the sense may require it. As श्रपितं क्षीरं देवदत्तेन यज्ञदत्तेन “Devadatta through Yajnadatta has caused the milk to be cooked”. The श्रा is intransitive. When the sense is that of Reflexive, or Causative, there the form शृत is to be used. As शृतं क्षीरं स्वयमेव, शृतं क्षीरं देवदत्तेन ॥

Bhashya

शृतं पाके (2464) (निपातनाकांक्षाभाष्यम्) किं निपात्यते ? (6033 निपातनबोधकवार्तिकम् ॥ 1 ॥) - श्राश्रप्योः शृभावः - श्राश्रप्योः शृभावो निपात्यते ॥ क्षीरहविषोरिति वक्तव्यम् । शृतं क्षीरम्, शृतं हविः । क्व मा भूत् ? श्राणा यवागूः, श्रपिता यवागूरिति ॥ (6034 निपातननियमवार्तिकम् ॥ 2 ॥) - श्रपेः शृतमन्यत्र हेतोः - श्रपेः शृतमन्यत्र हेतोरिति वक्तव्यम् । इह मा भूत् - श्रपितं क्षीरं देवदत्तेन यज्ञदत्तेनेति ॥

Kashika

विभाषेत्यनुवर्तते। श्रा पाके इत्येतस्य धातोर्ण्यन्तस्याण्यन्तस्य च पाकेऽभिधेये क्तप्रत्यये परतः शृभावो निपात्यते विभाषा। शृतं क्षीरम्। शृतं हविः। व्यवस्थितविभाषा चेयम्, तेन क्षीरहविषोर्नित्यं शृभावो भवति। अन्यत्र न भवति — श्राणा यवागूः, श्रपिता यवागूरिति। यदापि बाह्ये प्रयोजके द्वितीयो णिजुत्पद्यते तदापि नेष्यते — श्रपितं क्षीरं देवदत्तेन यज्ञदत्तेनेति। श्रातिरयमकर्मकः कर्मकर्तृविषयस्य पचेरर्थे वर्तते, स ण्यन्तोऽपि प्राकृतं पच्यर्थमाह। तदत्र द्वयोरपि शृतमितीष्यते। शृतं क्षीरं स्वयमेव। शृतं क्षीरं देवदत्तेन। पाकग्रहणं निपातनविषयप्रदर्शनार्थम्, तेन क्षीरहविषोरेव॥

Siddhanta Kaumudi

श्रातिश्रपयत्योः क्ते शृभावो निपात्यते । क्षीरहविषोः पाके । शृतं क्षीरम् । स्वयमेव विक्लिन्नं पक्वं वेत्यर्थः । क्षीरहविर्भ्यामन्यत्तु श्राणं श्रपितं वा ॥

Balamanorama

शृतं पाके - शृतं पाके । ‘श्रा पाके’ घटादिः । तस्माद्धेतुमण्णिचि पुकि मित्त्वाद्ध्रस्वे श्रपि इति भवतीति स्थितिः । श्रातिश्रपयत्योरिति । अण्यन्तस्य, ण्यन्तस्य च श्राधोतरित्यर्थः । क्षीरहविषोरिति । एतच्च वार्तिकाल्लभ्यते । अण्यन्तं व्याचष्टे -स्वयमेव विक्लिन्नमिति । श्राधातुरण्यन्तः पाके वर्तते । पाकश्चाऽत्र विक्लित्तिरेव विवक्षिता, न तु तदनुकूलव्यापारोऽपि । तथा च श्राधातोर्विक्लपित्तावकर्मकत्वात्गत्यर्थाऽकर्मके॑ति कर्तरि क्तः । तथा च क्षीरं विक्लित्त्याश्रय इत फलितम् । ततो णिचि विक्लित्त्यनुकूलव्यापारार्थकपचिना समानार्थकात् ‘श्रपी’ त्यस्मात्कर्मणि क्तप्रत्यये फलितमाह - पक्वमिति । एतच्च भाष्यकैयटयोः स्पष्टम् ।क्षीराज्यहविषां शृत॑मित्यमरस्य तु प्रमाद एव,क्षीरहविषो॑रिति वार्तिकविरोधात् ।

Tattvabodhini

शृतं पाके - शृतम् । श्रातिश्रपयत्योरिति । श्रापाके इत्यदादौ पठते, चुरादावपि, घटादिष्वपि पठते मित्त्वार्थम्, श्रै पाक इति च भ्वादौ , तस्यापि कृतात्वस्येह ग्रहणम् । निपातनसामत्र्याल्लक्षमप्रतिपदोक्तपरिभाषा नाश्रीयत इत्याहुः । शृभावो निपात्यत इति ।ष्यङः संप्रसारण॑मिति प्रकृतमेव संप्रसारणं न विहितम्, श्रयतेरपि श्रितमेव यथा स्यादिति । अत्रविभाषाभ्यवपूर्वस्ये॑ति विभाषाऽनुवर्तते, सा च व्यवस्थिता, तेन क्षीरहविषोरेव शृभावो नित्यश्च, अन्यत्र तु नैव भवतीत्याशयेनाह — क्षीरहविषोः पाक इति । अन्यत्त्विति । शाकादि । श्रपितमिति । णौ मितां ह्रस्वः ।

Padamanjari

श्रा पाक इत्यस्य धातोरिति।’श्रा पाके’ इत्यदादौ पठ।ल्ते,’श्रौ पाके’ इति चुरादौ, घटादिष्वपि मित्वार्थः’श्रा पाके’ इति पठ।ल्ते, तत्रेह सर्वेषां ग्रहणम्। श्रायतेरपि कृतात्वस्यैतद्रपं भवति, निपातनसामर्थ्याच्च लक्षणप्रतिपदक्तपरिभाषा नाश्रीयते। ण्यन्तस्य चाण्यन्तस्य चेति। तथा चोक्तम् -‘श्राश्रप्योः शृभावो निपात्यते’ इति। अत एव प्रकृतं सम्प्रसारणमेव न विहतम्, श्रपेरपि शृतमित्येव यथा स्यादिति। यदि विभाषेत्यतदत्रावर्तते, क्षीरहविषोरन्यत्र च विकल्पः प्राप्नोति सर्वत्र, तत्राह - व्यवस्थितविभाषा चेयमिति। यदा त्वित्यादि। प्रयोजकव्यापारः प्रेषणादिलक्षण प्रयोजकशब्देनोक्तः, तस्य च बाह्यत्वं बहिर्भूतणिज्व्याप्यत्वात्। तदापि नेष्यत इति। तथा चोक्तम् - श्रपेः शृतमन्यत्र हेतोरिति। श्रपितं क्षीरं देवदतेन। प्रयोजकव्यापारेणाप्यमानस्यापि प्रयोज्यस्य कर्मसंज्ञा न भवति,’गतिबुद्धिप्रत्यवसान’ इति नियमात्। कथं पुनर्ण्यन्तस्य निपातनं लभ्यते, यावता पाक इत्युच्यते, ण्यन्तेन च पाचनाभिधीयते, न पाकः; अथ पाचनायामपि गुणभूतः पाकः प्रतीयते, तदाश्रयं निपातनं स्यचात्? यद्येवम्, द्वितीयेऽपि णिचि प्रसङ्गः। न हि तत्र पाको गुणभूतो न गम्यते। अथं तत्र गुणभूतत्वादेव प्रधानभूते पाके चरितार्थं निपातनं न भविष्यती त्युच्येत ? प्रथमेऽपि न स्याद्, वक्तव्यो वा विशेषः। तमाह-श्रातिरयमित्यादि। अथमभिप्रायः - द्विविधः पाकः - विक्लितिलक्षणः, विक्लेदनालक्षणश्च;, उभयत्रापि पचेः प्रयोगदर्शनात्, पच्यते ओदनः स्वयमेव, पचत्योदनं देवदत इति। श्रातिश्चायं यद्यपि’पाके’ त्यिविशेषेण पठ।ल्ते, तथापि कर्मकर्तृविषयस्य पचेरर्थेवर्तेते। स ण्यन्तोऽपि प्राकृतचं प्रकृतौ भवं णिज्रहितपचिवाच्यं पच्यर्थमाह। सोऽपि पाक एव, न पाचयतेरर्थः, यथा - सिद्धयत्योदनः, साधयत्योदनमिति। तत्र यदा श्रातेः क्त ॥त्पद्यते, तदाऽकर्मकत्वात्कर्तरि भवति - शृतं क्षीरमिति, श्रपेस्तु कर्मणै - शृतं क्षीरं देवदतेन। द्वितीये तु णिचि पाचयितृव्यापारः पाचनालक्षणः प्राधान्येनाभिधीयते, न तु पाक इति निपातनाभाव इति।’श्रपेः शृत्वमन्यत्र हेतोः’ इति वार्तिके’श्राश्रप्योः शृभावो निपात्यते’ इति पूर्वमुक्तत्वादाद्यप्रकृतलक्षणप्रयोजकव्यापाराङ्गीकरणसामर्थ्यात्पाचयितृलक्षणप्रयोजकव्यापारनिषेधो विज्ञेयः ॥ पाकोऽयं पाक्यपक्त्योरद्विविध इह स विक्लितिविक्लेदनात्मा श्रातिर्वक्त्येकमन्यं श्रपयतिरुभयत्रौभयोक्तेः शृभावः। स्वे स्वे वाच्ये श्रपेस्तु प्रसजति सति वा पाचने न द्वितीये नित्यं क्षीरे शृभावो हविषि च न तु पाक्येषु चार्थान्तरेषु ॥

Nyaas

``श्रा पाके` इत्यस्य धातोः` इति। श्रा पाके (धातुपाठः-1053) इत्यदादौ पठते घटादौ (धातुपाठः-810) च मित्संज्ञार्थम्। कैश्चिच्चुरादावपि, श्रै पाके (धातुपाठः-919) इति भ्वादौ, तत्रेहाविशेषेण ग्रहणं प्राप्तम्। श्रायतेरपि हि कृतात्त्वस्यैतद्रूपं भवत्येव। निपातनाच्च लक्षणप्रतिपदोक्तपरिभाषा (व्या।प।3) प्रतिबन्धं न करोति। णन्तस्याण्यन्तस्य च इति। विशेषानुपादानात्। तथा चोक्तम् - श्राश्रप्योः शृतमिति।यदि विभाषेत्यनुवर्तते क्षीरहविषोरपि पक्षे श्राणम्, श्रपितमिति स्यात्; ताभ्यामन्यत्रापि पक्षे शृतमिति प्रसज्येत? इत्यत आह - व्यवस्थितविभाषेयम् इति। यदापि इत्यादि। प्रयोजकव्यापारः प्रेषणाध्येषणादिः कार्ये कारणोपचारं कृत्वा प्रयोजकशब्देनोक्तः। स हि प्राकृतादर्थाद्बाह्रो भवति, तत्र तस्यानन्तर्भावात्। तत्र यदा हेतुमति च (3.1.26) इति द्वितीयो णिजुत्पद्यते, तदापि क्षीरहविषोरपि निपातनमेतन्नेष्यते; व्यवस्थितविभाषाविज्ञानादेव। तथा चोक्तम् - श्रपेः शृतमन्यत्र हतोरिति। हेतुमाण्णिचोऽन्यत्रेत्यर्थः। द्वितीयग्रहणं यदैकमेव भवति, तदेष्टत्त्वाच्? श्रपितं क्षीरं देवदत्तेन यज्ञदत्तेनेति तत्प्रयोजको हेतुश्च` (1.4.55) इति चकाराद्देवदत्तयज्ञदत्तयोः कर्त्तृ संज्ञाविधानादुभयत्रापि कर्तरि तृतीया। श्रपितम् इति। श्रातेर्णिच कृते अर्त्तिह्यी (7.3.36) इत्यादिना पुक्, मितां ह्रस्वः (6.4.92) क्षीरं स्वयमेव श्राति स्म - तद्यदा देवदत्तदेन प्रयुज्यते स्म तदा हेतुमति च (3.1.26) इति प्रथमो णिच्। सोऽपि श्रपयन्? यदा यज्ञदत्तेन प्रयुज्यते स्म तदा द्वितीयः। **णेरनिटि** (6.4.51) इति पूर्वस्य णेर्लोपः, ततः क्षीरे प्रयोज्ये कर्मणि निष्ठा - शृतमिति। `ण्यन्तस्याण्यान्तस्य च निपात्येते इति प्रतिज्ञाते सति युक्तं ण्यन्तस्याप्येतन्निपातनम् - येषां श्रातिश्चुरादावपि पठते इत्यभ्युपगमः। ये तु चुरादावस्य पाठं न प्रतिजानते तेषां कथं ण्यन्तस्येतन्निपातनं युज्यते, न च शक्यते वक्तुम् - तेषामपि हेतुमण्ण्यन्तरयैतन्निपातनं युज्यते; श्रपेः शृतमन्यत्र हेतौः इति भाष्यकारवचनादिति यश्चोदयेत्, तं प्रत्याह - श्रातिरयम् इत्यादि। कर्मभावापन्नेऽपि योऽर्थः सौकय्र्यात्? स्वातन्त्र्येण विवक्ष्यते स कर्मकर्ता, कर्म कर्ता भवतीति कृत्वा। कर्म चासौ कर्ता चेति विशेषणसमासः, स यस्य विषयः स कर्मकर्त्तृविषयः। अर्थद्वारकं चेदं विशेषणं पचेः कर्मकर्त्तृविषयत्वं वेदितव्यम्। तस्य योऽर्थः पच्यमानकर्त्तृकत्वं विक्लेदनमात्रं तत्रायमकर्मकः - श्रातिर्वर्तते। यदा तु स ण्यन्तो भवति तदा प्राकृतं पच्यर्थमाह। प्रकृतौ भवः प्राकृतः, स पुनर्यः प्रकृत्यन्तस्य पचेरर्थः पक्तृकर्त्तृको विक्लेदनोपसंहारादिः स इह वेदितव्यः। देवदत्तादिपक्तृकर्तृकं प्राकृतं पाकाख्यं पच्यर्थमाहेत्यर्थः। तत्र द्वयोरपि शृतमिष्यत इति योऽण्यन्तः श्रातिः कर्मकर्तृविषयेण पचिना समानार्थस्त्रत्रापीष्यते। योऽपि ण्यन्तः प्राकृतं पच्यर्थमाह तत्रापीष्यते। तत्र शृतं क्षीरं स्वयमेवेति प्रथमस्योदाहरणम्। शृतं क्षीरं देवदत्तेनेति द्वितीयस्य। ननु च श्रपेः शृतमन्यत्र हेतोः इति भाष्ये उक्तम्, तत्? कथं द्वयोरपीष्यते? एवं मन्यते - यदिदं भाष्ये उक्तम् - श्रपेः शृतमन्यत्र हेतोः इति, तत्र अन्यत्र हेतोः इत्यनेन सर्वस्य हेतुमण्णिचः पर्युदासो न विधित्सितः अन्यथा विप्रतिषिद्धमिदं स्यात्, असति हि श्रातेश्चुरादौ पाठे यदि श्रपेः शृतमिति निपात्यते, कथमन्यत्र हेतोरिति पर्युदासः! अथान्यत्र हेतोरिति पर्युदासो न तर्हि श्रपेः शृतमिति निपातनमुपपद्यते। न हि श्रातेश्चुरादावसत पाठे श्रातेर्हेतुमण्णिचं त्यत्क्वाऽन्यस्ततो णिजस्ति। तस्माद्यस्य हेतुमण्णिचो न केनचित्? प्रकारेण स्वार्थिकत्वमुपपद्यते स एव भाष्यकारस्य पर्युदासविषयत्वेनाभीष्टः। स पुनर्यो बाह्रे प्रयोजके द्वितीयो णिजुत्पद्यते स विज्ञेयः। यस्य तु केनचित्? प्रकारेण स्वार्थिकत्वमुपपद्यते, स एव भाष्यकारस्य पर्युदासविषयत्वेन न प्रकल्प्यते, तस्यैतन्निपातनमिष्टमेव। स पुनर्यस्मिन्नुत्पन्ने श्रातिः प्राकृतं पच्यर्थमाह स विज्ञेयः, शक्यते हि तस्य पचिना प्रकृत्यर्थेन समानार्थत्वात्? स्वार्थिकत्वमुपचारेणाभिधातुमिति। तदेवमिह पाठेऽपि चुरादौ श्रातेण्र्यन्तस्याप्येतन्निपातनं युज्यत एवेति॥

Prakriyasarvasvam

विक्लृत्तिर्विक्लेदना च पाकः । तत्रार्थे शृतमिति स्यात् । शृतं क्षीरं स्वयम् । शृतं क्षीरमनेन । एवं शृतं हविः । क्षीरहविषोरेवेष्टम् । हविरित्याज्यमप्युक्तमित्येके । अन्यत्र श्राणमन्नम् । यण्वत्त्वान्नत्वम् ॥