54160: निष्प्रवाणिश्च¶
Padacheda: निष्प्रवाणिः | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The word निष्प्रवाणि is irregularly formed without adding the affix कप् though the last word is a नदी word.
Vasu English Translation¶
The word निष्प्रवाणि is irregularly formed without adding the affix कप् though the last word is a नदी word. The word प्रवाणी means either प्रीयतेऽस्यां or प्रवयन्ति तया ॥ Here ल्युट् is added to the root वि ‘to weave’: and denotes the instrument of weaving i. e. ‘a shuttle’. निर्गता प्रवाणी अस्य = निष्प्रवाणिः पटः, निष्प्रवाणिः कम्बलः = अपनीतशलाकः “a new unbleached cloth or blanket”, from which the shuttle has not yet been extracted, fresh from the loom. The न is changed to ण by (8.4.29).
Kashika¶
निष्प्रवाणिरिति नदीलक्षणस्य कपः प्रतिषेधो निपात्यते। प्रोयतेऽस्यामिति प्रवाणी। प्रवयन्ति तयेति वा प्रवाणी। करणसाधनोऽयं ल्युट्। तन्तुवायशलाका भण्यते। निर्गता प्रवाणी अस्य निष्प्रवाणिः पटः। निष्प्रवाणिः कम्बलः। अपनीतशलाकः समाप्तवानः प्रत्यग्रो नवक उच्यते॥
॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य चतुर्थः पादः॥
Siddhanta Kaumudi¶
कबभावोऽत्र निपात्यते । प्रपूर्वाद्वयतेर्ल्युट् । प्रवाणी तन्तुवायशलाका । निर्गताप्रवाण्यस्य निष्प्रवाणिः पटः । समाप्तवानः, नवः इत्यर्थः ॥
Balamanorama¶
निष्प्रवाणिश्च - निष्प्रवाणिश्च । प्रपूर्वादिति । ‘वेञ्तन्तुसंताने’ इत्यस्मात्प्रपूर्वात्करणाधिकरणयोश्चे॑त्यधिकरणे ल्युट् । प्रोयते अस्यामिति प्रवाणी ।पूर्वपदात्संज्ञाया॑मिति णत्वम् । समाप्तवान इति । समाप्तं वानं=वानक्रिया यस्येति विग्रहः । अत्र शैषिककबभावो निपात्यते ।
Padamanjari¶
प्रोयतेऽस्यामिति प्रवाणीति। वेञोऽधिकरणे ल्युट्,’कृत्यचः’ इति णत्वम् ॥
Nyaas¶
इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्चिकायां पञ्चमाध्यायस्यचतुर्थः पादः॥समाप्तश्चायं पञ्चमोऽध्यायः* * *षष्ठोऽध्यायःप्रथमः पादः
Prakriyasarvasvam¶
कबभावो निपात्यते । निर्गता प्रवाणिर्वनिशलाकास्मादिति निष्प्रवाणिर्नवपटः । चकारादन्तर्व्याप्ता वाण्यस्येत्यन्तर्वाणिः ॥