54159: नाडीतन्त्र्योः स्वाङ्गे¶
Padacheda: नाडीतन्त्र्योः | S | 6 | 2 |
स्वाङ्गे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix कप् does not come after the words नाडी and तन्त्री final in a बहुव्रीहि समास when they mean organs of the body.
Vasu English Translation¶
The affix कप् does not come after the words नाडी and तन्त्री final in a बहुव्रीहि समास when they mean organs of the body. Thus बह्व्योः नाड्योऽस्य = बहुनाडिः कायः, बहुतन्त्रीर्ग्रीवा ॥ The word तन्त्री means ‘artery’. Why do we say meaning “parts of body”? Observe, बहुनाडीकः स्तम्भः, बहुतन्त्रीका वीणा ॥ The word नाडी is a feminine word formed by ङीप् that comes after jati; तन्त्री is formed by the unadi affix ई (un III.158). In बहुनाडिः the long ई is shortened as being an upasarjana (1.2.48); but the ई of तन्त्री is not shortened, as ई here is not a feminine affx, but a krit affix (कृत् स्त्रियाः प्रतिषेधः; See (1.2.48) also).
Kashika¶
स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्ताद् बहुव्रीहेः कप् प्रत्ययो न भवति। बह्व्यो नाड्योऽस्य बहुनाडिः कायः। बहुतन्त्रीर्ग्रीवा। धमनीवचनस्तन्त्रीशब्दः। स्वाङ्ग इति किम् ? बहुनाडीकः स्तम्भः। बहुतन्त्रीका वीणा॥
Siddhanta Kaumudi¶
स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्तात्कप् न स्यात् । बहुनाडिः कायः । बहुतन्त्रीर्ग्रीवा । तन्त्रीर्धमनी । स्त्रीप्रत्ययान्तत्वाभावाद्ध्रस्वो न । स्वाङ्गे किम् । बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ॥
Balamanorama¶
नाडीतन्त्र्योः स्वाङ्गे - नाडीतन्त्र्योः स्वाङ्गे । बहुनाडिः काय इति । प्राणिस्थत्वात्स्वाङ्गत्वसूचनायकाय इति विशेष्यम् । उपसर्जह्रस्वः ।नद्यृतश्चे॑ति प्राप्तः कब्न भवति । बहुतन्त्रीग्र्रीवेति । बह्व्यस्तन्त्र्यो यस्या इति विग्रहः । वीणातन्तुषु तन्त्रीशब्दस्य प्रसिद्धत्वादाह — तन्त्रीर्धमनीति । बहुतन्त्रीशब्देगोस्त्रियो॑रिति ह्रस्वमाशङ्क्याह — स्त्रीप्रत्ययान्तत्वाऽभावादिति ।अवितृस्तृतन्त्रीभ्य ईः॑ इत्यौणादिकस्यस्त्रिया॑मित्यधिकारेऽविहितत्वादिति भावः ।
Tattvabodhini¶
नाडीतन्त्र्योः स्वाङ्गे - बहुनाडिरिति । उपसर्जनह्रस्वः । स्त्रीप्रत्ययान्तत्वाभावादिति ।अवितृस्तृतन्त्रिभ्यः॑इतीप्रत्ययस्यस्त्रिया॑मित्यधिकारेऽविहितत्वादिति भावः ।
Padamanjari¶
नाडीशब्दो जातिलक्षणङीषन्तः। तन्त्रीशब्दः ठवितृस्तृतन्त्रिभ्य ईःऽ इतीकारान्तः। बहरुनाडिरिति। उपसर्जनह्रस्वम्। बहुतन्त्रीरित्यत्र तु’कृत्स्त्रियाः प्रतिषेधः’ इति वचनान्न भवति ॥
Prakriyasarvasvam¶
स्वाङ्गार्थयोरनयोः बहुव्रीहौ कब्न । बहुनाडिः कायः बहुतन्त्रीः । द्वौ सिराथौँ । नाड्या ‘गोस्त्रियोः—’ (१-२-४८) इति ह्रस्वः । तन्त्र्याः स्त्रीप्रत्यय- त्वाभावान्न ह्रस्वः । अस्वाङ्गे तु बहुतन्त्रीका वीणा ॥