54157: वन्दिते भ्रातुः¶
Padacheda: वन्दिते | S | 7 | 1 |
भ्रातुः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix कप् does not come after a बहुव्रीहि समास ending in the word भ्रातृ when it means ‘praised’.
Vasu English Translation¶
The affix कप् does not come after a बहुव्रीहि समास ending in the word भ्रातृ when it means ‘praised’. The word वन्दितः means ‘praised’, ‘respected’ &c. Thus शोभना भ्राताऽस्य = सुभ्राता ‘one having a good brother’. Why do we say when it means “praised”, Observe मूर्खभ्रातृकः, दुष्टभ्रातृकः ॥
Kashika¶
वन्दितेऽर्थे यो भ्रातृशब्दो वर्तते, तदन्ताद् बहुव्रीहेः कप् प्रत्ययो न भवति। वन्दितः स्तुतः पूजित इत्युच्यते। शोभनो भ्रातास्य सुभ्राता। वन्दित इति किम् ? मूर्खभ्रातृक ः। दुष्टभ्रातृकः॥
Siddhanta Kaumudi¶
पूजितेऽर्थे यो भ्रातुशब्दस्तदन्तान्न कप् स्यात् । प्रशस्तो भ्राता यस्य प्रास्तभ्राता । न पूजनात् (SK954) इति निषेधस्तु बहुव्रीहौ सक्थ्यक्ष्णोः- (SK852) इत्यतः प्रागेवेति वक्ष्यते । वन्दिते किम् । मूर्खभ्रातृकः ॥
Balamanorama¶
वन्दिते भ्रातुः - वन्दिते भ्रातुः । पूजितेऽर्ते इति ।वदि अभिवादनस्तुत्यो॑रित्युभयार्थकवदिधातोरिह उभयसाधारमपूजार्थकत्वमाश्रीयत इति भावः । प्रशस्तभ्रातेति ।नद्यृतश्चे॑ति प्राप्तः कबिह निषेध्यते । सुभ्रातेति । सु=शोभनो भ्राता यस्य स इति विग्रहः । अत्रापिनद्यृतश्चे॑ति प्राप्तस्य कपो निषेधः । ननुन पूजना॑दित्येव निषेधे सिद्धे किमर्थमिदमित्यत आह — न पूजनादिति । प्रागेवेति । एवंच ‘नद्यृतश्चे’ त्यादिकपस्तेन निषेधाऽप्राप्तौ इदं वचनमिति भावः ।
Padamanjari¶
वन्दितः स्तुत इति। यद्यपि’वदि अभिवादनस्तुत्योः’ इत्यभिवादनेऽपि वदिः पठ।ल्ते, तथापि व्याख्यानात्स्तुत्यर्थस्यैव ग्रहणमिति दर्शयति। तेन वन्दितभ्रातृक इत्यत्र कब्भवत्येव ॥
Nyaas¶
नद्युतश्च (5.4.153) इति प्राप्तस्य कपोऽयं प्रतिषेधः। वदि अभिवादनस्तुत्योः (धातुपाठः-11) इति यद्यपि वदिरभिवादने वर्तते, तथापीह स्तुतावेव वर्तमान आश्रीयते, अत एवाह - वन्दितः स्तुतः इति॥ `अयमपि पूर्ववत्? प्राप्तस्य कपः प्रतिषेधः॥
Prakriyasarvasvam¶
प्रशस्तार्थे भ्रातुः कब्न । शोभनो भ्रातास्य सुभ्राता । अन्यत्र मूर्खभ्रातृकः ॥
Sutra Prayogas¶
सौभ्रात्रे (रघुवंशम्): वन्दिते भ्रातुः इति निषेधात्।