54156: ईयसश्च¶
Padacheda: ईयसः | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix कप् does not come after a बहुव्रीहि समास the last member of which ends in the affix ईयस्।
Vasu English Translation¶
The affix कप् does not come after a बहुव्रीहि समास the last member of which ends in the affix ईयस्। This debars all the previous rules. Thus बहवः श्रेयांसोऽस्य = बहुश्रेयान्, here rule (5.4.154) is debarred. बह्व्यः श्रेयस्योऽस्य = बहुश्रेयसी, here rule (5.4.153) is prohibited. By rule (1.2.48) the long final ई ought to have been shortened, but this is not done by considering it as a masculine “ईयसो बहुव्रीहौ पुंवत्” See Vartika under (1.2.48).
Bhashya¶
इर्यसश्च (2433) (5945 पूर्वपक्षिवार्तिकम्॥ 1 ॥) - इर्यस उपसर्जनदीर्घत्वं च - (भाष्यम्) इर्यस उपसर्जनदीर्घत्वं चेति वक्तव्यम्। बह्व्यः श्रेयस्योऽस्य बहुश्रेयसी, विद्यमानश्रेयसी॥ (5946 पूर्वपक्षिवार्तिकम्॥ 1 ॥) - पुंवद्वचनात्सिद्धम् - (भाष्यम्) पुंवद्वचनात्सिद्धमेतत्। पुंवद्भावोऽत्र भवति - इर्यसो बहुव्रीहौ पुंवद्वचनमिति॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्ञ्चमस्याध्यायस्य चतुर्थे पादे प्रथममाह्निकम्॥ ॥ पादश्च समाप्तः ॥ पञ्ञ्चमोऽध्यायः समाप्तः ॥
Kashika¶
ईयसन्ताद् बहुव्रीहेः कप् प्रत्ययो न भवति। सर्वा प्राप्तिः प्रतिषिध्यते। बहवः श्रेयांसोऽस्य बहुश्रेयान्। शेषाद् विभाषा (५.४.१५४) इत्यस्य प्रतिषेधः। बह्व्यः श्रेयस्योऽस्य बहुश्रेयसी। नद्यृतश्च (५.४.१५३) इत्यस्य प्रतिषेधः। ह्रस्वत्वमपि न भवति। ईयसो बहुव्रीहौ पुंवदिति वचनात्। (महाभाष्य १.२२४)॥
Siddhanta Kaumudi¶
ईयसन्तोत्तरपदान्न कप् । बहवः श्रेयांसोऽस्य बहुश्रेयान् । गोस्त्रियोः - (SK656) इति ह्रस्वे प्राप्ते ।<!ईयसो बहुव्रीहेर्नेति वाच्यम् !> (वार्तिकम्) ॥ बह्व्यः श्रेयस्योऽस्य बहुश्रेयसी । बहुव्रीहेः किम् । अतिश्रेयसिः ॥
Balamanorama¶
ईयसश्च - ईयसश्च । बहुश्रेयसीशब्दे श्रेयसीशब्दस्यैव प्रत्ययग्रहणपरिभाषया ईयसन्तत्वादाह — ईयसन्तोत्तरपदादिति । बहुव्रीहिणा उत्तरपदादित्याक्षिप्यत #इति भावः । न कबिति ।न संज्ञेयसो॑रिति वक्तव्ये पृथग्योगकरणान्नित्यस्य वैकल्पिकत्य च कपोऽयं निषेध इति भावः । श्रेयांस इति । अतिशयेन प्रशस्ता इत्यर्थः । ‘द्विवचनविभज्य’ इति ईयसुन् । ‘प्रशस्यस्य श्रः’ इति श्रः, ‘आद्गुणः’ इति गुणः । बहुश्रेयानिति । शैषिकः कब्निषिध्यते । ह्रस्वत्वे प्राप्ते इति । बह्व्यः श्रेयस्यो यस्येति बहुव्रीहिः । तत्र श्रेयसीशब्दस्योपसर्जनस्त्रीप्रत्ययान्तत्वात्गोस्त्रियो॑रिति ह्रस्वत्वे प्राप्ते इत्यर्थः । ईयसो बहुव्रीहेरिति । ईयसन्ताद्बहुव्रीहेः परस्य स्त्रीप्रत्ययस्य ह्रस्वो नेति वाच्यमित्यर्थः । बहुश्रेयसीति ।नद्यृतश्चे॑ति नित्यः कबिह निषिध्यते, लिङ्गविसिष्टपरिभाषया ईयस्ग्रहणेन स्त्रीप्रत्ययान्तश्रेयसीशब्दस्यापि ग्रहणादिति भावः । बहुव्रीहेः किमिति । ईयसो बहुव्रीहेरित्यत्रे॑ति शेषः । अतिश्रेयसिरिति । श्रेयसीमतिक्रान्त इति तत्पुरुषोऽयमिति भावः ।
Tattvabodhini¶
ईयसश्च - ईयसश्च । नित्यो वैकल्पिकश्च कप्सर्वोऽपि निषिध्यते । बहुश्रेयानिति । अतिशयेन प्रशस्यः — श्रेयान् ।द्विवचनविभज्योपे॑तीयसुन् ।प्रशस्यस्य श्रः॑ ।शेषद्विभाषे॑ति कप्प्राप्तः ।ईयसो बहुव्रीहेर्नेति वाच्यम् । बहुश्रेयसीति ।नद्यृतश्चे॑ति नित्यं प्राप्तः कब्लङ्गविशिष्टपरिभाषयाईयसश्चे॑ति प्रतिषिध्यते ।
Padamanjari¶
सर्वा प्राप्तिः प्रतिषिद्ध्यत इति। न तु ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति शेषलक्षणस्यैव कपः प्रतिषेध इति सर्वशब्दस्यार्थः। एतच्च शेषादित्येतस्य निवृतत्वात्कब्मात्रस्यानुवृतेर्लभ्यते। बहुश्रेयसीति। लिङ्गविशिष्टग्रहणादत्र प्रतिषेधः। यथात्र सोर्हल्ङ्यादिलोपः, तथा तत्रैव वक्ष्यामः। ह्रस्वत्वमपि न भवतीति।’गोस्त्रियोरुपसर्जनस्य’ इति प्राप्तम्। कस्मात्? इत्याह - ईयसो बहुव्रीहावित्यादि। पुंवद्वचनेनात्र न स्त्रीप्रत्ययस्य निवृत्तिर्विवक्षिता, किं तर्हि? ह्रस्वप्रकरणातदभावः। तथा च’गोस्त्रियोः’ इत्यत्र वृतौ-ठीयसो बहुव्रीहौ प्रतिषेधो वक्तव्यःऽ इत्येवोक्तम् ॥
Nyaas¶
सर्वा प्राप्तिः प्रतिषिध्यते इति। ननु अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा (व्या। प। 19) इति शेषलक्षणस्यैव कपः प्रतिषेधः प्राप्नोति? नैष दोषः; कबत्रानुवर्तते, न शेषादिति। तेनायं कब्मात्रस्य प्रतिषेधो भविष्यति। बहवः श्रेयांसः इति। द्विवचनविभज्योपपदे (5.3.57) इत्यादिनेयसुन्, प्रशस्यस्य श्रः (5.3.60) इति श्रः। ह्रस्वत्वमपि न भवति इति। गोस्त्रियोरुपसर्जनस्य (1.2.48) इति ह्रस्वत्वं प्राप्नोति, तदपि न भवति। कस्मान्न भवति? इत्याह - ईयसो बहुव्रीहेः इत्यादिना। नात्र पुंवद्वचनेन स्त्रीप्रत्ययस्य निवृत्तिरभिप्रेता, किं तर्हि? ह्रस्वत्वप्रकरणात्? तदभावः। एतदुक्तं भवति - यथा पुंवद्भावे सतीकारस्य ह्रस्वोनभवति एवमीयसः परस्य स्त्रीप्रत्ययस्यापि न भवति॥
Prakriyasarvasvam¶
ईयसन्ताद् बहुव्रीहेः कब् न । बहवः श्रेयांसोऽस्य बहुश्रेयान् । बह्वचः प्रेयस्योऽस्य बहुप्रेयसी कृष्णः । ‘ईयसो बहुव्रीहेर्न ह्रस्व’ इत्युपसर्जनह्रस्वाभावः ॥
Vartika¶
ईयसो बहुव्रीहेर्नेति वाच्यम् ।
Sutra Prayogas¶
परिरब्धप्रेयसीषु (शिशुपालवधम्): ईयसश्च इति कपोऽभावः।