54143: स्त्रियां संज्ञायाम्

Padacheda: स्त्रियाम् | S | 7 | 1 |

संज्ञायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

For दन्त is substituted दत् when in the feminine gender denoting a name.

Vasu English Translation

For दन्त is substituted दत् when in the feminine gender denoting a name. Thus अयोदती, फालदती ॥ Why do we say when denoting a Name ? Observe समदन्ती, स्निग्धदन्ती ॥

Kashika

स्त्रियामन्यपदार्थे संज्ञायां विषये दन्तशब्दस्य दतृ इत्ययमादेशो भवति। अयोदती। फालदती। संज्ञायामिति किम् ? समदन्ती। स्निग्धदन्ती॥

Siddhanta Kaumudi

एभ्यो दन्तस्य दतृ स्यात्समासान्तो बहुव्रीहौ । अयोदती । फालदती । संज्ञायां किम् । समदन्ती ॥

Balamanorama

स्त्रियां संज्ञायाम् - स्त्रियां संज्ञायाम् । शेषपूरणेन सूत्रं व्याचष्टे — दन्तस्येति । वयोविशेषानवगमेऽपि प्राप्त्यर्थमिदम् । अयोदतीति । फालदतीति । संज्ञाविशेषाविमो । समदन्तीति । समा दन्ता यस्या इति विग्रहःनासिकोदरे॑ति ङीष् ।

Tattvabodhini

स्त्रियां संज्ञायाम् - समदन्तीति ।नासिकेदरे॑त्यदिना ङीष् ।

Padamanjari

अच्छन्दोऽर्थमिदम्। अयोगतीति। अय इव दन्ता अस्या अयोदती, उगित्वान्ङीप्। समदन्तीति।’नासिकोदरोष्ठ’ इत्यादिना ङीष् ॥

Nyaas

अच्छन्दोऽपर्थमेतत्। अय इव दन्ता अस्या अयोदती इति। शासन्तमेतत्॥ समदन्ती इति। नासिकोदर (4.1.55) इत्यादिना ङीष्॥

Prakriyasarvasvam

अयोदती नाम काचित् । उगित्वान्ङीप् ॥