54119: उपसर्गाच्च

Padacheda: उपसर्गात् | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affix अच् comes after the word नासिका final in a बहुव्रीहि समास when an उपसर्ग (Preposition) precedes it and नस् is substituted for नासिका।

Vasu English Translation

The affix अच् comes after the word नासिका final in a बहुव्रीहि समास when an उपसर्ग (Preposition) precedes it and नस् is substituted for नासिका। This rule applies where the word is not a sanjna, as it was in the last. Thus उन्नता नासिकास्य = उन्नसः, प्रणसः ॥ The न is changed into ण by (8.4.28).

Vart:- The ग्र substituted for नासिका when वि precedes it. As, विगतानासिकाऽस्य = विग्रः, so also विख्यः in the same sense.

Bhashya

उपसर्गाच्च (2396) (उपसंख्यानभाष्यम्) वेर्ग्रो वक्तव्यः। विग्रः। (उपसंख्यानभाष्यम्) (ख्यश्च वक्तव्यः। विख्यः॥)

Kashika

उपसर्गात् परो यो नासिकाशब्दस्तदन्ताद् बहुव्रीहेरच् प्रत्ययो भवति, नासिकाशब्दश्च नसमापद्यते। असंज्ञार्थं वचनम्। उन्नता नासिकास्य उन्नसः। प्रणसः। उपसर्गाद् बहुलम् (८.४.२८) इति णत्वम्॥ वेर्ग्रो वक्तव्यः॥ विगता नासिकास्य विग्रः॥

Siddhanta Kaumudi

प्रादेर्यो नासिकाशब्दस्तदन्ताद्बहुव्रीहेरच् नासिकाया नसादेशश्च । असंज्ञार्थं वचनम् । उन्नता नासिका यस्य स उन्नसः । उपसर्गादनोत्पर इति तद्भङ्क्त्वा भाष्यकार आह ॥

Balamanorama

उपसर्गाच्च - उपसर्गाच्च । नन्वञ्नासिकाया इत्येव सिद्धे किमर्थमिदमित्यत आह — असंज्ञार्थमिदमिति । उपसर्गादनोत्पर इति सूत्रमिति । तत्र हिनश्च धातुस्थो॑इति सूत्रान्नसिति लुप्तषष्ठीकमनुवर्तते । ‘रषाभ्यां नो णः’ इत्यनुवर्तते । उपसर्गस्थाद्गेफषकारात्परस्य नसो नस्य णः स्यात्, ओत्परस्तु नकारो णत्वं न प्राप्नोतीत्यर्थः । खण्डपदस्थत्वादप्राप्ताविदं सूत्रम् ।प्र ण आयूँषि तारिषत् इत्याद्युदाहरणम् । अनोत्परः किम् ।प्र नो मुञ्चतम् । अत्र ओत्परकत्वान्न णत्वमिति स्थितिः । तद्भङ्क्त्वेति ।

Tattvabodhini

उपसर्गाच्च - उपसर्गाच्च उपसर्गग्रहणं प्रादीनामुपलक्षणं, नासिकाशब्दस्याऽक्रियार्थत्वेन तं प्रत्युपसर्गत्वाऽयोगात् । न च क्रियायोगाभावेऽप्युपसर्गत्वमस्त्विति शङ्क्यं, सावके[इति]अधिसावकमित्यव्ययीभावेउपसर्गात्सुनोती॑ति सस्य षत्वप्रसङ्गात् । तदाह — प्रादेरिति ।

Padamanjari

उपसर्गग्रहणं प्राद्यौपलक्षणम्; नासिकां प्रति क्रियायोगाभावात्। वेर्ग्रो वक्तव्य इति। विशब्दात्परस्य ग्रशब्द आदेशो भवति; प्रत्ययस्त्वजेव ॥

Nyaas

उपसर्गग्रहणं प्राद्युपलक्षणार्थम्; नासिकां प्रति क्रियायोगाभावात्। वेर्ग्रो वक्तव्यः इति। विशब्दात्? परस्य नासिकाया ग्रशब्द आदेशो भवतीति वक्तव्यम्। विग्रः। प्रत्ययोऽजेव॥

Prakriyasarvasvam

उपसर्गान्नासिकाया असंज्ञायामप्यच् नस्भावश्च स्यात् । उन्नसं मुखम् ॥

Vartika

वेर्ग्रो वक्तव्यः ।

Sutra Prayogas

  • उन्-नसं (भट्टिकाव्यम्): उपसर्गच्च इत्यच्।

  • अऽप-नसं (भट्टिकाव्यम्): उपसर्गाश्च इत्यच्।