54119: उपसर्गाच्च ================= **Padacheda:** उपसर्गात् | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अच् comes after the word नासिका final in a बहुव्रीहि समास when an उपसर्ग (Preposition) precedes it and नस् is substituted for नासिका। Vasu English Translation ------------------------ The affix अच् comes after the word नासिका final in a बहुव्रीहि समास when an उपसर्ग (Preposition) precedes it and नस् is substituted for नासिका। This rule applies where the word is not a *sanjna*, as it was in the last. Thus उन्नता नासिकास्य = उन्नसः, प्रणसः ॥ The न is changed into ण by (8.4.28). Vart:- The ग्र substituted for नासिका when वि precedes it. As, विगतानासिकाऽस्य = विग्रः, so also विख्यः in the same sense. Bhashya ------- उपसर्गाच्च (2396) (उपसंख्यानभाष्यम्) वेर्ग्रो वक्तव्यः। विग्रः। (उपसंख्यानभाष्यम्) (ख्यश्च वक्तव्यः। विख्यः॥) Kashika ------- उपसर्गात् परो यो नासिकाशब्दस्तदन्ताद् बहुव्रीहेरच् प्रत्ययो भवति, नासिकाशब्दश्च नसमापद्यते। असंज्ञार्थं वचनम्। उन्नता नासिकास्य उन्नसः। प्रणसः। **उपसर्गाद् बहुलम्** (८.४.२८) इति णत्वम्॥ वेर्ग्रो वक्तव्यः॥ विगता नासिकास्य विग्रः॥ Siddhanta Kaumudi ----------------- प्रादेर्यो नासिकाशब्दस्तदन्ताद्बहुव्रीहेरच् नासिकाया नसादेशश्च । असंज्ञार्थं वचनम् । उन्नता नासिका यस्य स उन्नसः । उपसर्गादनोत्पर इति तद्भङ्क्त्वा भाष्यकार आह ॥ Balamanorama ------------ **उपसर्गाच्च** - उपसर्गाच्च । नन्वञ्नासिकाया इत्येव सिद्धे किमर्थमिदमित्यत आह — असंज्ञार्थमिदमिति । उपसर्गादनोत्पर इति सूत्रमिति । तत्र हिनश्च धातुस्थो॑इति सूत्रान्नसिति लुप्तषष्ठीकमनुवर्तते । 'रषाभ्यां नो णः' इत्यनुवर्तते । उपसर्गस्थाद्गेफषकारात्परस्य नसो नस्य णः स्यात्, ओत्परस्तु नकारो णत्वं न प्राप्नोतीत्यर्थः । खण्डपदस्थत्वादप्राप्ताविदं सूत्रम् ।प्र ण आयूँषि तारिषत् इत्याद्युदाहरणम् । अनोत्परः किम् ।प्र नो मुञ्चतम् । अत्र ओत्परकत्वान्न णत्वमिति स्थितिः । तद्भङ्क्त्वेति । Tattvabodhini ------------- **उपसर्गाच्च** - उपसर्गाच्च उपसर्गग्रहणं प्रादीनामुपलक्षणं, नासिकाशब्दस्याऽक्रियार्थत्वेन तं प्रत्युपसर्गत्वाऽयोगात् । न च क्रियायोगाभावेऽप्युपसर्गत्वमस्त्विति शङ्क्यं, सावके[इति]अधिसावकमित्यव्ययीभावेउपसर्गात्सुनोती॑ति सस्य षत्वप्रसङ्गात् । तदाह — प्रादेरिति । Padamanjari ----------- उपसर्गग्रहणं प्राद्यौपलक्षणम्; नासिकां प्रति क्रियायोगाभावात्। वेर्ग्रो वक्तव्य इति। विशब्दात्परस्य ग्रशब्द आदेशो भवति; प्रत्ययस्त्वजेव ॥ Nyaas ----- उपसर्गग्रहणं प्राद्युपलक्षणार्थम्; नासिकां प्रति क्रियायोगाभावात्। `वेर्ग्रो वक्तव्यः` इति। विशब्दात्? परस्य नासिकाया ग्रशब्द आदेशो भवतीति वक्तव्यम्। विग्रः। प्रत्ययोऽजेव॥ Prakriyasarvasvam ----------------- उपसर्गान्नासिकाया असंज्ञायामप्यच् नस्भावश्च स्यात् । उन्नसं मुखम् ॥ Vartika ------- वेर्ग्रो वक्तव्यः । Sutra Prayogas -------------- * **उन्-नसं** (भट्टिकाव्यम्): `उपसर्गच्च` इत्यच्। * **अऽप-नसं** (भट्टिकाव्यम्): `उपसर्गाश्च` इत्यच्।