54080: श्वसो वसीयःश्रेयसः

Padacheda: श्वसः | S | 5 | 1 |

वसीयस्-श्रेयसः | S | 5 | 1 |

Sutrartha

यस्मिन् समस्तपदे पूर्वपदम् ‘श्वस्’ तथा उत्तरपदम् ‘वसीयस्’ उत ‘श्रेयस्’ एतेषु किञ्चन विद्यते, तस्मात् ‘अच्’ इति समासान्तप्रत्ययः भवति ।

यस्मिन् समस्तपदे पूर्वपदम् ‘श्वस्’ इति अव्ययम् तथा च उत्तरपदम् ‘वसीयस्’ (= कल्याणम् / मङ्गलम्) उत ‘श्रेयस्’ एतयोः किञ्चन पदमस्ति, तस्मात् ‘अच्’ इति समासान्तप्रत्ययः भवति । अत्र ‘श्वस्’ इति शब्दः ‘सुष्ठु’ / ‘शोभनम्’ अस्मिन् अर्थे एव स्वीक्रियते इति स्मर्तव्यम् । ‘अग्रिमः दिवसः’ / tomorrow इति अस्य शब्दस्य अर्थः अत्र नैव स्वीक्रियते । यथा - 1. श्वस् + वसीयस् + अच् [मयूरव्यंसकादयश्च (2.1.72) इति तत्पुरुषसमासः । वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → श्वरुँ + वसीयस् + अ [ससजुषोः रुः (8.2.6) इति पदान्तसकारस्य रुँत्वम् ] → श्वउ + वसीयस् + अ [हशि च (6.1.114) इति उत्वम्] → श्वो + वसीयस् + अ [आद्गुणः (6.1.87) इति गुण-एकादेशः] → श्वोवसीयस यथा - श्वोवसीयं ते भूयात् (शोभनं मङ्गलं / सुमङ्गलं ते भूयात् इत्याशयः) । 2. श्वस् + श्रेयस् + अच् [मयूरव्यंसकादयश्च (2.1.72) इति तत्पुरुषसमासः । वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → श्वरुँ + श्रेयस् + अ [ससजुषोः रुः (8.2.6) इति पदान्तसकारस्य रुँत्वम् ] → श्वः + श्रेयस् + अ [खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गादेशः] → श्वः / श्वस् + श्रेयस् + अ [वा शरि (8.3.36) इति विसर्गस्य विकल्पेन सकारादेशः] → श्वः / श्रश् + श्रेयस् + अ [स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वम्] → श्वःश्रेयस / श्वश्रेयस यथा - श्वःश्रेयसम् / श्वश्श्रेयसम् ते भूयात् (सुकल्याणं ते भूयात् इत्याशयः) ।

Vasu English Summary

The affix अच् comes after the words 1. वसीयस् and 2. श्रेयस् when they follow the word श्वस् in a compound.

Vasu English Translation

The affix अच् comes after the words 1. वसीयस् and 2. श्रेयस् when they follow the word श्वस् in a compound. Thus श्वोवसीयसम्, श्वःश्रेयसम् ॥ These compounds belong to the class of Mayuravyansakadi (2.1.72) The word श्वः is usually employed in blessing or praising the object expressed by the second term. Thus श्वः श्रेयसम् ते भूयात् = शोभनं श्रेयस्ते भूयात् ॥ The word श्वोवसीयसम् is a synonym of श्वः श्रेयसम् ॥ The word वसीयः is derived from वसु meaning “praiseworthy”, “rich”, by adding the affix ईयसुन् (5.3.57).

Kashika

श्वसः परौ यौ वसीयःश्रेयःशब्दौ तदन्तात् समासादच् प्रत्ययो भवति। श्वोवसीयसम्। श्वःश्रेयसम्। मयूरव्यंसकादित्वात् समासः। स्वभावात् चेह श्वःशब्द उत्तरपदार्थस्य प्रशंसामाशीर्विषयामाचष्टे — श्वःश्रेयसं ते भूयात्। शोभनं श्रेयस्ते भूयादित्यर्थः। श्वोवसीयसमित्यस्यैवायं पर्यायः॥

Siddhanta Kaumudi

वसुशब्दः प्रशस्तवाची ततः ईयसुनि वसीयः । श्वस्शब्द उत्तरपदार्थप्रशंसामाशीर्विषयतामाह । मयूरव्यंसकादित्वात्समासः । श्वोवसीयसम् । श्वः श्रेयसं ते भूयात् ॥

Balamanorama

श्वसो वसीयःश्रेयसः - आसः ।आ॑सित्यव्ययात् परो यो वसीयश्शब्दः, श्रेयश्शब्दश्च तस्मादच्स्यादित्यर्थः । वसुशब्दः प्रशस्तवाचीति ।यं कामयेत वसीयान् स्यादि॑त्यादौ तथा दर्शनादिति भावः । तत इति । अतिशयेन वसुरिति विग्रहे ‘द्विवचनविभज्योपपद’ इतीयसुनि, ‘तुरिष्ठेमेयस्सु’ इत्यनुवृत्तौटे॑रिति टिलोपे वसीयश्शब्द इत्यर्थः । आस्शब्द इति । यद्यपि आस्शब्दः कालविशेषवाची तथापि प्रकृते शब्दशक्तिस्वबावादुत्तरपदार्थगतां प्रशंसामाशीर्विषयं द्योतयतीत्यर्थः । आशिषो वियः आशीर्विषयः, तमिति षष्ठीसमासः । प्रशंसाविशेषणम् । विषयशब्दस्य नित्यपुंलिङ्गत्वान्न स्त्रीलिङ्गता । एवं च आस्शब्द उत्तरपदार्थंगतप्राशस्त्यस्य द्योतक इति फलितोऽर्थः । ननु तर्हि आस्शब्दस्योत्तरपदार्थगतप्राशस्त्यद्योतकत्वेऽप्युत्तरपदसामानाधिकरण्याऽभावात्कथं विशेषण समास इत्यत आह — मयूरेति । तथाचाशीर्लिङ्गादिप्रयोग एवास्य साधुत्वमित्यभिप्रेत्योदाहरति — आओवसीयसमिति । अतिशयेन प्रशस्तमित्यर्थः । आःश्रेयसमिति । अतिशयेन प्रशत्मिति विग्रहे प्रशस्तशब्दादीयसुन्,प्रशस्यस्य श्रः॑ ।प्रकृत्यैका॑जिति प्रकृतिभावान्न टिलोपः । आद्गुणः । श्रेयसिति रूपम् । आस्शब्दस्तु उत्तरपदार्थगतप्रशंसाद्योतकः ।आऋश्रेयसं शिवं भद्र॑मित्यमरः ।ते भूया॑दिति तु उभयत्रापि संबध्यते,-आओवसीयसं ते भूयात्, आःश्रेयसं ते भूयादिति ।

Tattvabodhini

श्वसो वसीयःश्रेयसः - आसो ।अवस् शब्दात्प्रशस्तवचनादीयसुन्नि॑त्याकरविरुद्धं व्याचक्षाणा उपेक्ष्या इति ध्वनयति — वसुशब्द इति । वसीय इति ।यः कामयेत वसीयान् स्या॑मिति श्रौतप्रयोगोऽप्यत्रानुकूल इति भावः । आस्शब्द इति । कालवाच्यप्ययं, प्रकृते त्वर्थविशेषपरः, शक्तिस्वाभाव्यात्तमेवाह -उत्तरपदार्थंप्रशंसामिति । उत्तरपदार्थभूतां प्रशंसामित्यर्थः । आशीर्विषयमिति । षष्ठीसमासः । विषयशब्दस्याऽजहल्लिङ्गत्वात्पुंलिङ्गनिर्देशः ।उत्तरपदार्थप्रशंसाया आशीर्विषयतामाहे॑ति पाठान्तरं क्वचिदस्ति । उभयथापि आशीर्विषयताया द्योतकोऽयमिति फलितोऽर्थः ।

Padamanjari

वसुशब्दात्प्रशस्तवचनादीयसुन् - वसीयः,’प्रशस्यस्य श्रः’ - श्रेयः। स्वबावाच्चेत्यादि। यद्यपि श्वःशब्दोऽन्त्र कालविशेषे वर्तते, तथापीह समासे उतरपदार्थप्रशंसामाशीर्विषयामाचष्टे। कुतः ? स्वभावत्। अस्यैवेति। श्वः श्रेयसशब्दस्येत्यर्थः ॥

Nyaas

आओवसीयम्। आःश्रेयसम् इति। आओवसीयः, आः श्रेय इति विगृह्र मयूरव्यंसकादित्वात्? समासः। स्वभावाच्च इत्यादि। यद्यपि आःशब्दोऽन्यत्र कालविशेषे वर्तते, तथापीह समास उत्तरपदार्थस्य प्रशंसां स्तुतिमाशीर्विषयां प्रतिपादयति। कुतः? स्वभावात्। शब्दानां ह्रर्थाभिधानं स्वाभाविकम्। तत्र स्वभाव एवात्र हेतुः। आओवसीयसमित्यस्यैवायं पर्यायः इति। अस्येत्यनेन च आःश्रेयसमित्येष शब्दो निर्दिश्यते॥

Prakriyasarvasvam

भाविकाले श्रेयः श्वःश्रेयसं, श्वोवसीयसं च । प्रशस्यार्थाद् वसुशब्दादीयसुनि वसीयः श्रेय एवेति हरः ॥

Sutra Prayogas

  • श्वःश्रेयसम (भट्टिकाव्यम्): श्वसोवसीयः श्रेयसः इत्यच् ।