54080: श्वसो वसीयःश्रेयसः ========================= **Padacheda:** श्वसः | S | 5 | 1 | वसीयस्-श्रेयसः | S | 5 | 1 | Sutrartha --------- **यस्मिन् समस्तपदे पूर्वपदम् 'श्वस्' तथा उत्तरपदम् 'वसीयस्' उत 'श्रेयस्' एतेषु किञ्चन विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति ।** यस्मिन् समस्तपदे पूर्वपदम् 'श्वस्' इति अव्ययम् तथा च उत्तरपदम् 'वसीयस्' (= कल्याणम् / मङ्गलम्) उत 'श्रेयस्' एतयोः किञ्चन पदमस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति । अत्र 'श्वस्' इति शब्दः 'सुष्ठु' / 'शोभनम्' अस्मिन् अर्थे एव स्वीक्रियते इति स्मर्तव्यम् । 'अग्रिमः दिवसः' / tomorrow इति अस्य शब्दस्य अर्थः अत्र नैव स्वीक्रियते । यथा - 1. श्वस् + वसीयस् + अच् [**मयूरव्यंसकादयश्च** (2.1.72) इति तत्पुरुषसमासः । वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → श्वरुँ + वसीयस् + अ [**ससजुषोः रुः** (8.2.6) इति पदान्तसकारस्य रुँत्वम् ] → श्वउ + वसीयस् + अ [**हशि च** (6.1.114) इति उत्वम्] → श्वो + वसीयस् + अ [**आद्गुणः** (6.1.87) इति गुण-एकादेशः] → श्वोवसीयस यथा - श्वोवसीयं ते भूयात् (शोभनं मङ्गलं / सुमङ्गलं ते भूयात् इत्याशयः) । 2. श्वस् + श्रेयस् + अच् [**मयूरव्यंसकादयश्च** (2.1.72) इति तत्पुरुषसमासः । वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → श्वरुँ + श्रेयस् + अ [**ससजुषोः रुः** (8.2.6) इति पदान्तसकारस्य रुँत्वम् ] → श्वः + श्रेयस् + अ [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गादेशः] → श्वः / श्वस् + श्रेयस् + अ [**वा शरि** (8.3.36) इति विसर्गस्य विकल्पेन सकारादेशः] → श्वः / श्रश् + श्रेयस् + अ [**स्तोः श्चुना श्चुः** (8.4.40) इति श्चुत्वम्] → श्वःश्रेयस / श्वश्रेयस यथा - श्वःश्रेयसम् / श्वश्श्रेयसम् ते भूयात् (सुकल्याणं ते भूयात् इत्याशयः) । Vasu English Summary -------------------- The affix अच् comes after the words 1. वसीयस् and 2. श्रेयस् when they follow the word श्वस् in a compound. Vasu English Translation ------------------------ The affix अच् comes after the words 1. वसीयस् and 2. श्रेयस् when they follow the word श्वस् in a compound. Thus श्वोवसीयसम्, श्वःश्रेयसम् ॥ These compounds belong to the class of *Mayuravyansakadi* (2.1.72) The word श्वः is usually employed in blessing or praising the object expressed by the second term. Thus श्वः श्रेयसम् ते भूयात् = शोभनं श्रेयस्ते भूयात् ॥ The word श्वोवसीयसम् is a synonym of श्वः श्रेयसम् ॥ The word वसीयः is derived from वसु meaning "praiseworthy", "rich", by adding the affix ईयसुन् (5.3.57). Kashika ------- श्वसः परौ यौ वसीयःश्रेयःशब्दौ तदन्तात् समासादच् प्रत्ययो भवति। श्वोवसीयसम्। श्वःश्रेयसम्। मयूरव्यंसकादित्वात् समासः। स्वभावात् चेह श्वःशब्द उत्तरपदार्थस्य प्रशंसामाशीर्विषयामाचष्टे — श्वःश्रेयसं ते भूयात्। शोभनं श्रेयस्ते भूयादित्यर्थः। श्वोवसीयसमित्यस्यैवायं पर्यायः॥ Siddhanta Kaumudi ----------------- वसुशब्दः प्रशस्तवाची ततः ईयसुनि वसीयः । श्वस्शब्द उत्तरपदार्थप्रशंसामाशीर्विषयतामाह । मयूरव्यंसकादित्वात्समासः । श्वोवसीयसम् । श्वः श्रेयसं ते भूयात् ॥ Balamanorama ------------ **श्वसो वसीयःश्रेयसः** - आसः ।आ॑सित्यव्ययात् परो यो वसीयश्शब्दः, श्रेयश्शब्दश्च तस्मादच्स्यादित्यर्थः । वसुशब्दः प्रशस्तवाचीति ।यं कामयेत वसीयान् स्यादि॑त्यादौ तथा दर्शनादिति भावः । तत इति । अतिशयेन वसुरिति विग्रहे 'द्विवचनविभज्योपपद' इतीयसुनि, 'तुरिष्ठेमेयस्सु' इत्यनुवृत्तौटे॑रिति टिलोपे वसीयश्शब्द इत्यर्थः । आस्शब्द इति । यद्यपि आस्शब्दः कालविशेषवाची तथापि प्रकृते शब्दशक्तिस्वबावादुत्तरपदार्थगतां प्रशंसामाशीर्विषयं द्योतयतीत्यर्थः । आशिषो वियः आशीर्विषयः, तमिति षष्ठीसमासः । प्रशंसाविशेषणम् । विषयशब्दस्य नित्यपुंलिङ्गत्वान्न स्त्रीलिङ्गता । एवं च आस्शब्द उत्तरपदार्थंगतप्राशस्त्यस्य द्योतक इति फलितोऽर्थः । ननु तर्हि आस्शब्दस्योत्तरपदार्थगतप्राशस्त्यद्योतकत्वेऽप्युत्तरपदसामानाधिकरण्याऽभावात्कथं विशेषण समास इत्यत आह — मयूरेति । तथाचाशीर्लिङ्गादिप्रयोग एवास्य साधुत्वमित्यभिप्रेत्योदाहरति — आओवसीयसमिति । अतिशयेन प्रशस्तमित्यर्थः । आःश्रेयसमिति । अतिशयेन प्रशत्मिति विग्रहे प्रशस्तशब्दादीयसुन्,प्रशस्यस्य श्रः॑ ।प्रकृत्यैका॑जिति प्रकृतिभावान्न टिलोपः । आद्गुणः । श्रेयसिति रूपम् । आस्शब्दस्तु उत्तरपदार्थगतप्रशंसाद्योतकः ।आऋश्रेयसं शिवं भद्र॑मित्यमरः ।ते भूया॑दिति तु उभयत्रापि संबध्यते,-आओवसीयसं ते भूयात्, आःश्रेयसं ते भूयादिति । Tattvabodhini ------------- **श्वसो वसीयःश्रेयसः** - आसो ।अवस् शब्दात्प्रशस्तवचनादीयसुन्नि॑त्याकरविरुद्धं व्याचक्षाणा उपेक्ष्या इति ध्वनयति — वसुशब्द इति । वसीय इति ।यः कामयेत वसीयान् स्या॑मिति श्रौतप्रयोगोऽप्यत्रानुकूल इति भावः । आस्शब्द इति । कालवाच्यप्ययं, प्रकृते त्वर्थविशेषपरः, शक्तिस्वाभाव्यात्तमेवाह -उत्तरपदार्थंप्रशंसामिति । उत्तरपदार्थभूतां प्रशंसामित्यर्थः । आशीर्विषयमिति । षष्ठीसमासः । विषयशब्दस्याऽजहल्लिङ्गत्वात्पुंलिङ्गनिर्देशः ।उत्तरपदार्थप्रशंसाया आशीर्विषयतामाहे॑ति पाठान्तरं क्वचिदस्ति । उभयथापि आशीर्विषयताया द्योतकोऽयमिति फलितोऽर्थः । Padamanjari ----------- वसुशब्दात्प्रशस्तवचनादीयसुन् - वसीयः,'प्रशस्यस्य श्रः' - श्रेयः। स्वबावाच्चेत्यादि। यद्यपि श्वःशब्दोऽन्त्र कालविशेषे वर्तते, तथापीह समासे उतरपदार्थप्रशंसामाशीर्विषयामाचष्टे। कुतः ? स्वभावत्। अस्यैवेति। श्वः श्रेयसशब्दस्येत्यर्थः ॥ Nyaas ----- `आओवसीयम्। आःश्रेयसम्` इति। आओवसीयः, आः श्रेय इति विगृह्र मयूरव्यंसकादित्वात्? समासः। `स्वभावाच्च` इत्यादि। यद्यपि आःशब्दोऽन्यत्र कालविशेषे वर्तते, तथापीह समास उत्तरपदार्थस्य प्रशंसां स्तुतिमाशीर्विषयां प्रतिपादयति। कुतः? स्वभावात्। शब्दानां ह्रर्थाभिधानं स्वाभाविकम्। तत्र स्वभाव एवात्र हेतुः। `आओवसीयसमित्यस्यैवायं पर्यायः` इति। अस्येत्यनेन च आःश्रेयसमित्येष शब्दो निर्दिश्यते॥ Prakriyasarvasvam ----------------- भाविकाले श्रेयः श्वःश्रेयसं, श्वोवसीयसं च । प्रशस्यार्थाद् वसुशब्दादीयसुनि वसीयः श्रेय एवेति हरः ॥ Sutra Prayogas -------------- * **श्वःश्रेयसम** (भट्टिकाव्यम्): `श्वसोवसीयः श्रेयसः` इत्यच् ।