54077: अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः

Padacheda: अचतुर-विचतुर-सुचतुर-स्त्रीपुंस-धेन्वनडुह-ऋक्साम-वाङ्मनस-अक्षिभ्रुव-दारगव-ऊर्वष्ठीव-पदष्ठीव-नक्तंदिव-रात्रिंदिव-अहर्दिव-सरजस-निःश्रेयस-पुरुषायुष-द्व्यायुष-त्र्यायुष-ऋग्यजुष-जातोक्ष-महोक्ष-वृद्धोक्ष-उपशुन-गोष्ठश्वाः | S | 1 | 3 |

Sutrartha


Vasu English Summary

The following words are irregularly formed by adding the affix अच् - 1. अचतुर 2. विचतुर 3. सुचतुर 4. स्त्री-पुंसौ 5. धेन्वनडुहौ 6. ऋक्सामे 7. वाङ्मनसे 8. अक्षिभ्रुवम् 9. दार-गवम् 10. ऊर्वष्ठीवम् 11. पदष्ठीवम् 12. नक्तं-दिवम् 13. रत्रिंदिवम् 14. अहर्दिवम् 15. सरजसम् 16. निः-श्रेयसम् 17. पुरुषा-युषम् 18. द्व्यायुषम् 19. त्र्या-युषम् 20. ऋ-यजुषम् 21. जातोक्षः 22. महो-क्षः 23. वृद्धो-क्षः 24. उपशुनम् 25. गोष्ठश्वाः।

Vasu English Translation

The following words are irregularly formed by adding the affix अच् - 1. अचतुर 2. विचतुर 3. सुचतुर 4. स्त्री-पुंसौ 5. धेन्वनडुहौ 6. ऋक्सामे 7. वाङ्मनसे 8. अक्षिभ्रुवम् 9. दार-गवम् 10. ऊर्वष्ठीवम् 11. पदष्ठीवम् 12. नक्तं-दिवम् 13. रत्रिंदिवम् 14. अहर्दिवम् 15. सरजसम् 16. निः-श्रेयसम् 17. पुरुषा-युषम् 18. द्व्यायुषम् 19. त्र्या-युषम् 20. ऋ-यजुषम् 21. जातोक्षः 22. महो-क्षः 23. वृद्धो-क्षः 24. उपशुनम् 25. गोष्ठश्वाः। The first three of these words are Bahuvrihi: अचतुरः = अदृश्यान्यविद्यमानानि वा चत्वारि यस्य ‘that whose four are absent or non-existent’. विचतुरः = विगतानि चत्वारि यस्य “whose four are gone”. सुचतुरः = शोभनानि चत्वारि यस्य “whose four are good”.

The next eleven words are Dvandva compounds. They are clear. Thus स्त्री च पुमांश्च = स्त्रीपुंसौ ‘the man and woman’ but not here स्त्रियाः पुमान् (स्त्रियं प्रति पुमान् शूरः) = स्त्रीपुमान् “a brave towards women only”. धेनुश्च अनड्वांश्च = धेन्वनडुहौ “cow and bull”. ऋक् च साम च = ऋक्सामे “the Rik and the Saman”. वाक् च मनश्च = वाङ्मनसे “the speech and mind”. अक्षि च भ्रुवौ च = अक्षिभ्रुवम् “the eye the brow”. The compound is singular as being parts of members of human body, (2.4.2). दाराश्च गावश्च = दारगवम् “the wives and cows”. रात्रि च दिवा च = रात्रिंदिवम् ॥ ऊरू + अष्ठीवन्तौ + अच् = ऊर्वष्ठीवम् ॥ Here the final syllable (called टि) is elided : so also पादौ + अष्टीवन्तौ = पद् + अष्टीव् + अच् = पदष्ठीवम् ॥ नक्तं च दिवा च = नक्तंदिवं ‘by night and day’. These are two indeclinables having the force of locative, and this compoundirg is also irregular. The words अहर् and दिवा both mean ‘day’: the compound अहर्दिवम् is not, however, a superfluous compound of two synonyms. It is used here in a distributive sense = अहन्यहनि “day by day”. The word सरजसम् is an Avyayibhava, meaning ‘all’, as सरजसमभ्यवहरति ॥ The affix does not come when it is a Bahuvrihi: as सह + रजसा = सरजः पङ्कजम् ॥ The word निःश्रेयसं = निश्चितं श्रेयः and is a Tatpurusha: but not so in निश्रेयस्कः पुरुषः ॥ Then is the word पुरुषायुषम् a Genitive Tatpurusha = पुरुषस्यायुः ॥ Not so when it is a Dvandva, as पुरुषश्च आयुश्च = पुरुषायुषी ॥ The words द्व्यायुषम् and त्र्यायुषम् are Samahara Dvigu compounds. Therefore not here, द्वयोरायुः = द्व्यायुः, त्र्यायुः ॥ The word ऋग्यजुषम् is a Dvandva. Therefore not here ऋग्यजुस्योन्मुग्धस्य = ऋग्यजुरुन्मुग्धः (य ऋचोयजूंषि मन्यते) ॥ The three words ending in उक्ष are Karmadharaya. Not so when these are Bahuvrihi: as जातोक्षा ब्राह्मणाः &c. The word उपशुनम् is an Avyayibhava = शुनः समीपम् ॥ Here the non-elision of the final syllable, and the change of व of श्वन् into उ (samprasarana) are irregular. The word गोष्ठश्वः is a Locative Tatpurusha, as गोष्ठेऽश्वाः = गोष्ठश्वः ॥

Vart:- The affix अच् comes after चतुर् when preceded by त्रि and उप, as त्रिचतुराः, उपचतुराः ॥

Bhashya

अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुर्हक्सामवाङ्भनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तन्दिवरात्रिन्दिवाहर्दिवसरजसनिः श्रेयसपुरुषायुषद्व्यायुषत्र्यायुर्षग्युजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः (2354) (सूत्रघटकपदोपपादकभाष्यम्) आद्यास्त्रयो बहुव्रीहयः - अद्रष्टा चतुर्णामचतुरः, विद्रष्टा चतुर्णां विचतुरः, सुद्रष्टा चतुर्णां सुचतुरः॥ ततः परे एकादश द्वन्द्वाः - स्त्रीपुंस, धेन्वनडुह, ऋक्साम, वाङ्मनस, अक्षिभ्रुव, दारगव, ऊर्वष्ठीव, पदष्ठीव, नक्तन्दिव, रात्रिन्दिव, अहर्दिव॥ ततोऽव्ययीभावः - सह रजसा सरजसम्॥ ततस्तत्पुरुषः - निश्चितं श्रेयो निःश्रेयसम्॥ ततः षष्ठीसमासः - पुरुषस्यायुः पुरुषायुषम्॥ ततो द्विगू - द्वे आयुषी द्व्यायुषम्, त्रीण्यायूंषि त्र्यायुषम्॥ ततो द्वन्द्वः - ऋक् च यजुश्च ऋग्यजुषम्॥ जातादय उक्षान्ताः समानाधिकरणाः - जात उक्षा जातोक्षः, महानुक्षा महोक्षः, वृद्ध उक्षा वृद्धोक्षः॥ ततोऽव्ययीभावः - शूनः समीपमुपशुनम्॥ ततः सप्तमीसमासः - गोष्टे श्वा गोष्ठश्वः॥ (5934 उपसंख्यानवार्तिकम्॥ 1 ॥) - चतुरोऽच्प्रकरणे त्र्युषाभ्यामुपसंख्यानम् - (भाष्यम्) चतुरोऽच्प्रकरणे त्र्युपाभ्यामुपसंख्यानं कर्तव्यम्। त्रिचतुराः, उपचतुराः॥

Kashika

अच्प्रत्ययान्ता एते शब्दा निपात्यन्ते। समासे व्यवस्थापि निपातनादेव प्रतिपत्तव्या। आद्यास्त्रयो बहुव्रीहयः। अदृश्यान्यविद्यमानानि वा चत्वारि यस्य सोऽचतुरः। विगतानि चत्वारि यस्य स विचतुरः। शोभनानि चत्वारि यस्य स सुचतुरः। ततः पर एकादश द्वन्द्वाः। स्त्री च पुमांश्च स्त्रीपुंसौ। इह न भवति — स्त्रियाः पुमान् स्त्रीपुमानिति। धेनुश्च अनड्वांश्च धेन्वनडुहौ। ऋक् च साम च ऋक्सामे। वाक् च मनश्च वाङ्मनसे। अक्षि च भ्रुवौ च अक्षिभ्रुवम्। दाराश्च गावश्च दारगवम्। ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम्। टिलोपो निपात्यते। पादौ च अष्ठीवन्तौ च पदष्ठीवम्। पादस्य पद्भावो निपात्यते। नक्तं च दिवा च नक्तंदिवम्। सप्तम्यर्थवृत्तयोरव्यययोः समासोऽपि निपातनादेव। रात्रौ च दिवा च रात्रिंदिवम्। पूर्वपदस्य मान्तत्वं निपात्यते। अहनि च दिवा च अहर्दिवम्। ननु च पर्यायावेतौ कथमनयोर्द्वन्द्वः? वीप्सायां द्वन्द्वो निपात्यते। अहन्यहनीत्यर्थः। एकोऽव्ययीभावः साकल्ये — सरजसमभ्यवहरति। बहुव्रीहौ न भवति। सह रजसा सरजः पङ्कजमिति। ततस्तत्पुरुषः — निश्चितं श्रेयो निश्श्रेयसम्। निश्श्रेयस्कः पुरुष इत्यत्र न भवति। ततः षष्ठीसमासः। पुरुषस्यायुः पुरुषायुषम्। द्वन्द्वे न भवति — पुरुषश्च आयुश्च पुरुषायुषी। ततो द्विगू — द्वे आयुषी समाहृते द्व्यायुषम्। त्र्यायुषम्। इह न भवति — द्वयोरायुर्द्व्यायुः, त्र्यायुरिति। ततो द्वन्द्वः — ऋक् च यजुश्च ऋग्यजुषम्। इह न भवति — ऋग् यजुरस्योन्मुग्धस्य ऋग्यजुरुन्मुग्धः। जातादिपूर्वपदा उक्षशब्दान्तास्त्रयः कर्मधारयाः — जातोक्षः। महोक्षः। वृद्धोक्षः। बहुव्रीहौ न भवति — जातोक्षा ब्राह्मणः, महोक्षा, वृद्धोक्षेति। ततोऽव्ययीभावः — शुनः समीपमुपशुनम्। टिलोपाभावः संप्रसारणं च निपातनादेव। ततः सप्तमीसमासः — गोष्ठे श्वा गोष्ठश्वः॥ चतुरोऽच्प्रकरणे त्र्युपाभ्यामुपसंख्यानम्॥ त्रिचतुराः। उपचतुराः॥

Siddhanta Kaumudi

एते पञ्चविंशतिरजन्ता निपात्यन्ते । आद्यास्त्रयो बहुव्रीहयः । अविद्यमानानि चत्वार्यस्य अचतुरः । विचतुरः । सुचतुरः ।<!त्र्युपाभ्यां चतुरोऽजिष्यत !> (वार्तिकम्) ॥ त्रिचतुराः । चतुर्णां समीपे उपचतुराः । तत एकादा द्वन्द्वाः । स्त्रीपुंसौ । धेन्वनडुहौ । ऋक्सामे । वाङ्मनसे । अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् । दाराश्च गावश्च दारगावम् । ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । निपातनाट्टिलोपः । पदष्ठीवम् । निपातनात्पादशब्दस्य पद्भावः । नक्तं च दिवा वा नक्तन्दिवम् । रात्रौ च दिवा च रात्रिन्दिवम् । रात्रेर्मान्तत्वं निपात्यते । अहनि च दिवा च अहर्दिवम् । वीप्सायां द्वन्द्वो निपात्यते । अहन्यहनीत्यर्थः । सरजसमिति साकल्येऽव्ययीभावः । बहुव्रीहौ तु सरजः पङ्कजम् । निश्चितं श्रेयो निःश्रेयसम् । तत्पुरुष एव । नेह । निःश्रेयान् पुरुषः । पुरुषस्यायुः पुरुषायुषम् । ततो द्विगुः । द्व्यायुषम् । त्र्यायुषम् । ततो द्वन्द्वः । ऋग्यजुषम् । ततस्त्रयः कर्मधारयाः । जातोक्षः । महोक्षः । वृद्धोक्षः । शुनः समीपमुपशुनम् । टिलोपाभावः सम्प्रसारणं च निपात्यते । गोष्ठे श्वा गोष्ठश्वः ॥

Balamanorama

अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्साम- वाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिव- रत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुष- त्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः - अचतुर । आद्यास्त्रयो बहुव्रीहय इति । बहुव्रीहय एवेत्यर्थः । भाष्यवाक्यमिदम् । अचतुर इति ।नञोऽस्त्यर्थाना॑मिति विद्मानपदलोपः । विचतुर इति । विगतानि चत्वारि यस्येति विग्रहः । सुचतुर इति । सु=शोभनानि चत्वारि यस्येति विग्रहः ।न पूजना॑दिति निषेधो बाध्यते । त्र्युपाभ्यामिति । वार्तिकमिदम् । त्रि उप आभ्यां परो यश्चतुर्शब्दस्तस्मादजिष्यते । त्रिचतुरा इति । त्रयो वा चत्वारो वेति विग्रहः ।सङ्ख्याव्ययासन्ने॑ति बहुव्रीहिः ।बहुव्रीहौ सह्ख्येये ड॑जिति डचं बाधित्वाऽच् । डचि तु टिलोपः स्यात् । उपचतुरा इति । त्रयः पञ्च वेत्यर्थः ।सङ्ख्ययाव्यये॑ति बहुव्रीहिः । अच् । तत एकादश द्वन्द्वा इति । द्वन्द्वा एवेत्यर्थः । इदमपि भाष्यवाक्यम् । स्त्रीपुंसाविति । स्त्री च पुमांश्चेति विग्रहः । अच् । धेन्वड्वाहाविति न भवति । समाहारद्वन्द्वे तुद्वन्द्वाच्चुदषहान्ता॑दित्येव सिद्धम् । ऋक्सामे इति । ऋक्च साम चेति विग्रहः । अच् । टिलोपः । ऋक्सामनी इति न भवति । वाङ्मनसे इति । वाक् च मनस्चेति विग्रहः । अच् । वाङ्मनसी इति न भवति । अक्षिभ्रुवमिति । अच् । प्राण्यङ्गत्वादेकवत्त्वम् । अक्षिभ्रु इति न भवति । दारगवमिति । समाहारद्वन्द्वादच् । ‘दारगु’ इति न भवति । इतरेतरयोगद्वन्द्वे तु दारगावः । ऊर्वष्ठीवमिति । प्राण्यङ्गत्वादेकवत्त्वम् । ऊरू-सक्थिनी । अष्ठीवन्तौ=जानुनी ।सक्थि क्लीबे पुमानू रूः॑ इति,जानूरूपर्वाष्ठीवदस्त्रिया॑मिति चामरः । नन्वडित्त्वादनान्तत्वाच्च कथं टिलोप इत्यत आह — निपातनाट्टिलोप इति । पटष्ठीवमिति । पादौ चाऽष्ठीवन्तौ चेति द्वन्द्वादच् । प्राण्यङ्गत्वादेकवत्त्वम् । नन्वभत्वात्कथमिह पादशब्दस्य पद्भाव इत्यत आह — निपातनादिति । नक्तमिति मान्तमव्ययम् । दिवेत्याकारान्तमव्ययम् । नक्तंदिवेति द्वन्द्वादच् ।यस्येति चे॑त्याकारलोपः,अव्ययीभावश्चे॑त्यव्ययत्वम्, नपुंसकत्वं च ।नाव्ययीभावा॑दित्यम्भावः । मान्तत्वमिति । रात्रौ च दिवा चेति द्वन्द्वे कृते सुब्लुकि कृते रात्रेर्मान्तत्वं निपात्यत इत्यर्थः । यस्येति चे॑त्याकारलोपः, अम्भावश्च । नन्वहन्शब्दार्थस्य दिवाशब्दार्थस्य च एकत्वात्साहित्याऽभावात्कथमिह द्वन्द्वः । अहव्र्यक्तिभेदमादाय द्वन्द्वप्रसक्तावपिविरूपाणामपि समानार्थकाना॑मित्येकशेषो दुर्वार इत्यत आह-वीप्साया द्वन्द्वो निपात्यत इति ।नित्यवीप्सयो॑रिति वीप्सायां द्विर्वचने कृते एकशेषं बाधित्वा द्वन्द्वो निपात्यत इत्यर्थः । सरजसमिति । रजोऽप्यपरित्यज्य इत्यस्वपदविग्रहः । रजः=धूलिः । साकल्ये सहशब्दस्य रजश्शब्देनाऽव्ययीभावः । ‘अव्ययीभावे चाकाले’ इति सह शब्दस्य सभावः । अच् । अव्ययीभाव इति । भाष्ये तथावचनादव्ययीभावस्य ग्रहणमिति भावः । सरजः पङ्कजमिति । रजोभिः परागैः सहेति विग्रहः ।तेन सहेति तुल्ययोगे॑ इति बहुव्रीहिः ।वोपसर्जनस्ये॑ति सहस्य सः । बहुव्रीहित्वान्नाऽच् । निऋश्रेयसमिति । कर्मधारयादच् । तत्पुरुष एवेति । तथा भाष्यादिति भावः ।निःश्रेयानिति । निश्चितं श्रेयो यस्येति बहुव्रीहित्वान्नाऽजिति भावः ।ईथसश्चे॑ति निषेधान्न कप् । पुरुषायुषमिति । षष्ठीसमासादजिति भाष्यम् । ततो द्विगू इति । भाष्यवाक्यमिदम् । द्व्यायुषं त्र्यायुषमिति । द्वयोरायुषोः समाहार इति, त्रयाणामायुषां समाहार इति च विग्रहः । ‘तद्धितार्थ’ इति द्विगोरच् । ततो द्वन्द्व इति । भाष्यवाक्यमिदम् । ऋग्यजुषमिति । ऋचश्च यजूंषि च एषां समाहार इति समाहारद्वन्द्वः । ततस्त्रयः कर्मधारया इति । तथा भाष्यादिति भावः । जातोक्ष इति । जातश्चासावुक्षा चेति विग्रहः । अचि सत्युक्षन्शब्दे टिलोपः । महोक्ष इति । महांश्चासावुक्षा चेति विग्रहः । ‘आन्महतः’ इत्यात्त्वम् । अचि टिलोपः । वृद्धोक्ष इति । वृद्धश्चासावुक्षा चेति विग्रहः । अचि टिलोपः । उपशुनमिति । अव्ययीभावादच्, तथा बाष्यात् । नन्वत्र ‘नस्तद्धिते’ इति टिलोपः कुतो न स्यात्, ‘अतद्धिते’ इति पर्युदासात्आयुवमघोनामतद्धिते॑ इति कथं वा संप्रसारणं स्यादित्यत आह — टिलोपाऽभाः संप्रसारणं च निपात्यत इति । गोष्ठआ इति ।सप्तमीसमासाद॑जिति भाष्यम् । अत एव भाष्यात्सप्तमीसमासः । टिलोपः । ‘अतद्धिते’ इति निषेधान्न संप्रसारणम् । षष्ठीतत्पुरुषे तु — गोष्ठआआ ।

Tattvabodhini

अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्साम- वाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिव- रत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुष- त्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः - अचतुर । निपात्यन्त इति । निपातनफलं तु समासविशेषणियमः, टिलोपादिकं च । तदाह -आद्या इति । बहुब्राईहय इति । बहुव्रीहय एवेत्यर्थः । तेन तत्पुरुषो अचत्वारो विचत्वार इत्येव भवतीति भावः । एवमुत्तरत्राप्यवधारणमुह्रम् ।त्र्युपाभ्यां चतुरोऽजिष्यते । त्रिचतुरा इति । त्रयश्चत्वारो वेति विग्रहः ।सङ्ख्याव्ययासन्ने॑ति बहुव्रीहिः ।बहुव्रीहौ सङ्ख्येये॑इति डचोऽपवादोऽच् । अक्षिभ्रुवमिति । प्राण्यङ्गत्वादेकवत् । ऊरू चाष्ठीवन्तौ चेति ।सक्थि क्लीबे पुमानूरुः॑इत्यमरः ।जानूरुपूर्वाऽष्ठीवदस्त्रिया॑मिति च । ऊर्वष्ठीवं । पदष्ठीवमिति । प्राण्यङ्गत्वादेकवद्भावः । द्वन्द्वो निपात्यत इति ।विरूपाणामपू॑त्येकशेषं बाधित्वेति शेषः । सरजसमिति ।अव्ययीभावे चाऽकाले॑इति सहस्य सभावः । सरजः पङ्कजमिति.॒सरजसमकरन्दमिर्भरासु॑इति माघप्रयोगस्तु चिन्त्य इति भावः । निःश्रेयानिति ।निश्चितं श्रेयो येने॑ति विग्रहः ।निः श्रेयस्कः॑इति केषाञ्चित्प्त्र्युदाहरणमशुद्धम्,ईयसश्चे॑ति कपो निषेधात् । गोष्ठे ओति । एतेनसप्तमीतत्पुरुष एवे॑ति नियमो दर्शितः, तेन षष्ठीतत्पुरुषेगोष्ठआआ॑इत्येव ।

Padamanjari

समासव्यवस्थापीति। क्वचिद्बहुव्रीहेरेव, क्वचिद् द्वन्द्वादेवैत्येवंमादिको नियमःउव्यवस्था। अपिशब्दादन्यदपि टिलोपादिकं तन्निपातनादेव। स्त्रियाः पुमानिति। स्त्रियं प्रति पुमान् शूर इत्यर्थः। अक्षिभ्रुवमिति। प्राण्यङ्गत्वादेकवद्भावः। दारगवमिति।’सर्वो द्वन्द्वे विभाषयैकवद्भवति’ । सप्तम्यर्थे वृतयोरव्यययोः समासोऽपि निपातनादेवेति। चार्थेन योगाबावात्, न हि भवति-इह च, एवं चेति। अहर्दिवमिति। रोऽसुपिऽ इति रेफः। कथमनयोर्द्वन्द्व इति। न कथञाचित्, विरुपाणामपि समानार्थानामेकशेषारम्भात्। वीप्सायामित्यादि। चार्थे विधीयमानो वीप्सायां न प्राप्नोति, एकशेषारम्भाच्च। तस्माद्वीप्सायां द्वन्द्वो निपात्यते, वीप्साद्योतनाच्चैकेन गतार्थत्वमपि नाशङ्कनीयम्, यथा द्विर्वचने - ग्रामोग्रामो रमणीय इति। सरजसमिति। ठव्ययीभावे चाकालेऽ इति सहस्य सभावः। निःश्रेयसमिति। प्रादिसमासः। निःश्रेयस्क इति। निश्चितं श्रेयोऽनेनेति बहुव्रीहिः, शेपलक्षणः कप्,’सो’ पदादौऽ इति सत्वम्। ऋग्यजुरुन्मुग्घ इति। य ऋचो यजुंपि मन्यते। त्रयो वा चत्वारो वा त्रिचतुराः। चतुर्णां समीप उपचतुराः,’बहुव्रीहौ सङ्ख्येते’ इति प्राप्तस्य कडचोऽपवादोऽदज्विधीयते ॥

Nyaas

समासे व्यवस्थाऽपि इत्यादि। समासव्यवस्था=समासनियमः - क्वचिद्वहुव्रीहिरेव, क्वचिद्द्वन्द्व इत्येवमादिका निपातनादेव वेदितव्या; व्यवस्थाभेदस्यान्यस्याभावात्। अपिशब्दादन्यदपि टिलोपादि कार्यं निपातनादेव वेदितव्यम्। सप्तम्यर्थवृत्तयोः इत्यादिना हि सप्तम्यर्थवृत्तयोरव्यययोराधेयप्रधानयोः समासो विद्यते। तस्मान्निपातनादेव च भवतीति वेदितवयम्। अपिशब्दात्? समासोऽपि निपातनादेव। अहर्दिवम् इति। रोऽसुपि (8.2.69) इति नकारस्य रेफः। ननु च इत्यादि। अर्थगत्यर्थो हि शब्दप्रयोगः। पर्यायणाञ्चंकेनैवार्थस्योक्तत्वात्? द्वितीयस्य प्रयोगो न सम्भवति। अहर्दिवाशब्दौ पर्यायौ, तत्? कथमनयोद्र्वन्द्वः! न कथञ्चिदिति भावः। वीप्साद्योतनार्थमुक्तस्यापि प्रयोगो न विरुध्यत इति मन्यमान आह - वीप्सायाम् इत्यादि। चार्थ उत्पद्यमानो द्वन्द्वो वीप्सायां न प्राप्नोतीत्यतो निपात्यते। एको। एकोऽव्ययीभावः। साकल्ये इति। अव्ययं विभक्ति (2.1.6) इत्यादिना। सरजसम् इति। अव्ययीभावे चाकाले (6.3.81) इति सहस्य सभावः।निःश्रेयसम् इति। प्रादिसमासः। निश्रेयस्कः इति। निश्चितं श्रेयोऽनेनेति बहुव्रीहिः, शेषाद्विभाषा (5.4.154) इति कप्। ऋग्यजुरुन्मुग्धः इति। य उन्मुग्धत्वादृचो यजूंषि मन्यते स ऋग्यजुरिति बहुव्रीहिणोच्यते। ततोऽव्ययीभावः इति। अव्ययं विभक्ति (2.1.6) इत्यादिना सामीप्ये। टिलोपाभावः इत्यादि। उपशुन इत्यत्र नस्तद्धिते (6.4.144) इति टिलोपाभावो निपातनादेव। आयुवमघोनामतद्धिते` (6.4.133) इति तद्धितादन्यत्र सम्प्रसारणमुच्यमानं तद्धिते न प्राप्नोतीति तदेव निपातनादेव भवतीति। चतुरोच्प्रकरणे इत्यादि। त्रिशब्दादुपशब्दात्? परो यश्चतुरशब्दस्तस्मादच उपसंख्यानं प्रतिपादनं कर्तव्यमित्यर्थः। तत्? पूर्वमिव योगविभागमाश्रित्य कर्तव्यम्। त्रयो वा चत्वारो वा त्रिचतुराः इति। चतुर्णा समीपे उपचतुराःसंख्याव्ययासन्न (2.2.25) इत्यादिना बहुव्रीहिः। तत्र बहुव्रीहौ संख्येये डजबहुगणात् (5.4.73) इति डचि प्राप्तेऽज्विधीयते॥

Prakriyasarvasvam

एतेऽजन्ताः पञ्चविंशतिर्निपात्यन्ते । आद्यास्त्रयो बहुव्रीहयः । अविद्यमानानि विशिष्टानि शोभनानि च चत्वार्यस्य अचतुरः, विचतुरः, सुचतुरः । त्र्युपाभ्यां चतुरोऽजिष्टः । त्रिचतुराः । उपचतुराः । ‘सङ्ख्ययाव्यय’ (२-२-२५) इति बहुव्रीहिः । तत एकादश द्वन्द्वाः । स्त्रीपुंसौ । धेन्वनडुहौ । ऋक्सामे । वाङ्मनसे । अक्षिभ्रुवम् । दारगवम् । ऊर्वष्ठीवम् । निपातनाट्टिलोपः । पदष्ठीवम् । अत्र पद्भावोऽपि । नक्तन्दिवम् । रात्रिन्दिवम् । अहर्दिवम् । अहन्यहनीत्यर्थः । रात्रिपर्यायो बाहशब्द ‘इति नाथः । तत्र रात्रिन्दिवमित्येवार्थ इत्यन्ये’ रजसा सकलपत्ति सरजसम् । साकल्येऽव्ययीभावः । निश्चितं श्रेयो निःश्रेयसमिति कर्मधारयः । पुरुषस्यायुः पुरुषायुषमिति षष्ठीसमासः । ततो द्विगु । द्व्यायुषं, त्र्यायुषम् । ततो द्वन्द्वः । ऋग्यजुषम् ततस्त्रयः कर्मधारयाः । जातोक्षः, महोक्षः, वृद्धोक्षः । शुनः समीपमुपशुनम् । गोष्ठे श्वा गोष्ठश्वः । तद्वत् परोपद्रवकर्ता पुरुषो गोष्ठश्व इति स्वामी ॥

Vartika

त्र्युपाभ्यां चतुरोऽजिष्यते ।

Sutra Prayogas

  • पुरुषायुषजीविन्यो (रघुवंशम्): अचतुरविचतुर… इत्यादिना अच्-प्रत्ययान्तो निपातः।

  • महोक्षताम् (रघुवंशम्): अचतुर- आदिसूत्रेण निपातनादकारान्तत्वम्।

  • महोक्षरूपं (रघुवंशम्): अचतुरविचतुर… इत्यादिना निपातः।

  • रात्रिंदिवविभागेषु (रघुवंशम्): अचतुर… इत्यादिना अधिकरणार्थे द्वन्द्वे अच्-प्रत्ययान्तो निपातः।

  • स्त्रीपुंसौ (कुमारसम्भवम्): अचतुरविचतुर… इत्यादिना अच्प्रत्ययान्तो निपातः।

  • व्यस्तरात्रिंदिवस्य (कुमारसम्भवम्): अचतुरविचतुर… इति सूत्रेण निपातनात् साधुत्वम्।

  • वृद्धोक्षम् (कुमारसम्भवम्): अचतुरविचतुरसुहृत्सर्वार्थसन्निधौ इति निपातः।

  • नक्तंदिनम् (किरातार्जुनीयम्): अचतुरविचतुर… इत्यादिना निपातेऽच्समासान्तः।

  • सरजसताम् (किरातार्जुनीयम्): अचतुर- इत्यादिसूत्रेण साकल्यार्थेऽव्ययीभावः ।

  • निःश्रेयसकरीः (किरातार्जुनीयम्): अचतुर… इत्यादिना समासान्तो निपातः।

  • सरजसम् (किरातार्जुनीयम्): अचतुरविचतुर… इत्यादिना निपातः।

  • प्रवृत्तनक्तंदिवसंधिदीप्तैः (किरातार्जुनीयम्): अचतुरविचतुरसुहृन्नक्तंदिव… इत्यादिना निपाते समासान्तः।

  • त्रिचतुरेषु (किरातार्जुनीयम्): चतुरोऽच्प्रकरणेञ्युपाभ्यामुपसंख्यानम् (वार्तिकम्) इति समासान्तोऽच्प्रत्ययः।

  • सरजसारुणकेशरचारुभिः (शिशुपालवधम्): अचतुर- (पा.५।४।७) इत्यादिना साकल्यार्थेऽव्ययीभावे समासान्तो निपातः।

  • अक्षि-भ्रुवमुज्जिहानः (भट्टिकाव्यम्): अचतुर इत्यत्र निपातितः।

  • ऋग्-यजुषमधीयानान्सामान्यांश्च (भट्टिकाव्यम्): अचतुर इत्यादिना निपातितम्।

  • स्त्री-पुंस (भट्टिकाव्यम्): अचतुर इत्यादौ निपातितौ।

  • नक्तं-दिवं (भट्टिकाव्यम्): अचतुर इति निपातितम् ।

  • महोक्षं (भट्टिकाव्यम्): अचतुर इत्यादिसूत्रेण निपातितम्।