54076: अक्ष्णोऽदर्शनात्

Padacheda: अक्ष्णः | S | 5 | 1 |

अदर्शनात् | S | 5 | 1 |

Sutrartha

समस्तपदे उत्तरपदरूपेण विद्यमानात् ‘अक्षि’ शब्दात् ‘अच्’ इति समासान्तप्रत्ययः भवति । परन्तु यत्र समस्तपदेन ‘नेत्रम्’ इति अर्थः निर्दिश्यते तत्र अयम् प्रत्ययः न विधीयते ।

यत्र समस्तपदस्य उत्तरपदरूपेण ‘अक्षि’ इति शब्दः विद्यते, तत्र ‘अच्’ इति समासान्तप्रत्ययः भवति । परन्तु यदि समस्तपदेन नेत्रस्य निर्देशः क्रियते, तर्हि अयमच्-प्रत्ययः न भवति । यथा - 1. लवणम् इव अक्षि यस्य सः [अनेकमन्यपदार्थे (2.2.24) इति बहुव्रीहिः ] = लवण + अक्षि + अच् [वर्तमानसूत्रेण ‘अच्’ इति समासान्तप्रत्ययः] → लवणाक्षि + अच् [अकः सवर्णे दीर्घः (6.1.101)] → लवणाक्ष् + अ [यस्येति च (6.4.148) इति इकारलोपः] → लवणाक्ष लवणम् इव अक्षि यस्य सः लवणाक्षः । One having eyes full of tears - इत्याशयः । 2. पुष्करम् इदमक्षि इव [उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (2.1.56) इति तत्पुरुषसमासः] = पुष्कर + अक्षि + अच् [वर्तमानसूत्रेण ‘अच्’ इति समासान्तप्रत्ययः] → पुष्कराक्षि + अच् [अकः सवर्णे दीर्घः (6.1.101)] → पुष्कराक्ष् + अच् [यस्येति च (6.4.148) इति इकारलोपः] → पुष्कराक्ष [अकः सवर्णे दीर्घः (6.1.101)] पुष्करम् इदं अक्षि इव तत् पुष्कराक्षम् । A blue lotus resembling an eye. विशेषः - ‘पुष्कराक्ष’ अस्य शब्दस्य विषये ‘पुष्करम् इव अक्षि यस्य सः’ एतत् विग्रहवाक्यमपि भवितुमर्हन्ति । 3. गवामक्षि [षष्ठी (2.2.8) इति तत्पुरुषसमासः] = गो + अक्षि + अच् → ग + अवङ् + अक्ष् + अच् [अवङ् स्फोटायनस्य (6.1.123) इति अवङ्-आदेशः । ङित्त्वात् अन्त्यादेशः] → गवाक्ष् + अच् [यस्येति च (6.4.148) इति इकारलोपः] → गवाक्ष गवामक्षि इव तत् गवाक्षम् । A small opening in the wall that resembles cows eye, typically used to see outside is called गवाक्षम् । यदि ‘नेत्रम्’ अस्मिन् सन्दर्भे समस्तपदम् जायते, तर्हि अयम् प्रत्ययः न भवति । यथा - ब्राह्मणस्य अक्षि = ब्राह्मणाक्षि ।

Vasu English Summary

The affix अच् comes after the word अक्षि when not meaning ‘the eye’.

Vasu English Translation

The affix अच् comes after the word अक्षि when not meaning ‘the eye’. The word अच् is understood here. Thus लवणाक्षम्, पुष्कराक्षम् ॥ These are Tatpurusha metaphors formed by (2.1.56).

Why do we say “when not meaning the eye”? Observe ब्राह्मणाक्षि ॥ How do you explain the forms कबराक्षः, गवाक्षः, which apparently contradict this rule, because कबराक्ष is a many-holed leather horse-veil through which the horses can see, and so also गवाक्ष is a window through which men see? This is no fault. The word दर्शन in the sutra does not mean ‘to see’, here, but is a synonym of ‘eye’.

Bhashya

अक्ष्णोऽदर्शनात् (2353) (अदर्शनात् इत्यस्य निष्फलत्वबोधकभाष्यम्) अदर्शनादित्युच्यते तत्रेदं न सिध्यति - कबराक्षम्। अदर्शनादिति शक्यमकर्तुम्। कथं - ब्राह्मणाक्षि, क्षत्रियाक्षि? अप्राण्यङ्गादिति वक्तव्यम्॥

Kashika

अजित्यनुवर्तते। दर्शनादन्यत्र योऽक्षिशब्दस्तदन्तादच् प्रत्ययो भवति। लवणाक्षम्। पुष्कराक्षम्। उपमितं व्याघ्रादिभिः० (२.१.५६) इति समासः। अदर्शनादिति किम्? ब्राह्मणाक्षि। कथं कबराक्षं गवाक्षमिति। अश्वादीनां मुखप्रच्छादनार्थं बहुच्छिद्रं कबराक्षम्, तेनापि हि दृश्यते, गवाक्षेण च? नैष दोषः। चक्षुः पर्यायवचनो दर्शनशब्दः, प्राण्यङ्गवचन इहाश्रीयते॥

Siddhanta Kaumudi

अचक्षुः पर्यायादक्ष्णोऽच् स्यात्समासान्तः । गवामक्षीव गवाक्षः ॥

Laghu Siddhanta Kaumudi

अचक्षुःपर्यायादक्ष्णोऽच् स्यात्समासान्तः। गवामक्षीव गवाक्षः॥

Balamanorama

अक्ष्णोऽदर्शनात् - अथ तत्पुरुषेष्वसाधारणसमासान्तान् वक्तुमुपक्रमते — तत्पुरुषस्याङ्गुलेः ।अच्प्रत्यन्ववपूर्वा॑दित्यतोऽजित्यनुवर्तते, ‘समासान्त’ इत्यधिकृतम् । तेन समासस्य अन्तावयव इति लभ्यते । प्रत्ययः परश्च इत्यधिकारादच्प्रत्ययस्य तत्पुरुषात्परत्वेऽपि तस्य तदवयवत्वादङ्गुलेरित्यवयवषष्ठी । अङ्गुलेरिति तत्पुरुषविशेषणं, तदान्तविधिः । तदाह संख्याव्ययादेरिति । सङ्ख्या च अव्ययं च सङ्ख्याव्यये, ते आदी यस्येति विग्रहः । द्व्यङ्गुलमिति । तद्धितार्थ॑ इति द्विगुः । प्रमामे द्वयसज्दघ्नञ्मात्रचःप्रमाणेलो द्विगोर्नित्य॑मिति लुक् । द्व्यङ्गुलिशब्दादचि तस्य तद्धितत्वात्तस्मिन् परेयस्येति चे॑ति इकारलोपः । निरङ्गुलमिति ।निरादयः क्रान्ताद्यर्थे॑ इति समासः अच् इलोपः ।

Tattvabodhini

अक्ष्णोऽदर्शनात् - अक्ष्णो । दृश्यतेनेनेति दर्शनं चक्षुः, तद्वाचिनोऽक्षिशब्दस्य पर्युदासादमुख्यस्य ग्रहणमित्याशयेनाह -अचक्षुःपर्यायादिति । गवाक्ष इति । गावः — किरणाः । अक्षिशब्दो रन्ध्रवाची । षष्ठीसमासः ।

Padamanjari

ठदर्शनात्ऽ इति वचनादक्षीवाक्षीत्यक्षिसदृशार्थवृत्तिरिहाक्षिशब्द उपातः। लवणाक्षम्, पुत्कराक्षमिति। लवणमक्षीव, पुत्करणक्षीवेति ठुपमितं व्याघ्रादिभिःऽ इति समासः। कथमित्यादि। ननु दर्शनादन्यत्र योऽक्षिशब्दस्तदन्तादित्युक्तम्, गवाक्षकबराक्षयोश्च समुदायो दर्शनवचनः, नाक्षिशब्द इति कात्रानुपपतिः? सत्यम्; अक्ष्यन्ताददर्शनादिति सूत्रार्थः कस्मान्न भवतीति मन्यमानस्यायं प्रश्नो द्रष्टव्यः। चक्षुःपर्याय इति। तस्य प्रसिद्धतरत्वादिति भावः ॥

Nyaas

अदर्शनात् इति प्रतिषेधः क्रियते। कबराक्षम्, गवाक्षम् इति। रूढिउब्दावेतौ, नात्रावयवार्थेऽभिनिवेशः कार्यः। कबराक्षं गवाक्षमिति न सिध्यतीत्यभिप्रायः। स्यादेतत् - दर्शनप्रतिषेधात्? सिद्धमेतत्, दृश्यतेऽनेनेति; न दर्शनम्, न च कबराक्षेम दृश्यते, नापि गवाक्षेण? इत्यत आह - तेनापि इत्यादि। दर्शनश्ब्दोऽयं चक्षुषि प्राण्यङ्गे प्रसिद्धः। तथा हि दर्शनं प्रयुङ्क्ते चक्षुग्र्राह्रमपि। तस्मात्? प्रसिद्धिवशेन चक्षुष्पर्यायो दर्शनशब्दः, स इहाश्रीयते॥बाल-मनोरमाअक्ष्णोऽदर्शनात् 931, 5.4.76 अक्ष्णोऽदर्शनात्। अदर्शना`दिति च्छेदः। दृश्यतेऽनेनेति दर्शनं - चक्षुः। करणे ल्युट्। अचक्षुर्वाचिन इति फलितम्। तदाह - अचक्षुःपर्यायादिति। गवामक्षीवेति। अक्षिशब्दस्तत्सदृशे लाक्षणिकैति सूचयितुमिवशब्दः प्रयुज्यते। मुख्यवृत्त्या चक्षुर्वाचकत्वाऽभावादच्। पुंस्त्वं लोकात्।बाल-मनोरमातत्पुरुषस्याङ्गुलेः सङ्ख्याव्ययादेः 776, 5.4.76 अथ तत्पुरुषेष्वसाधारणसमासान्तान् वक्तुमुपक्रमते - तत्पुरुषस्याङ्गुलेः। `अच्प्रत्यन्ववपूर्वा`दित्यतोऽजित्यनुवर्तते, `समासान्त इत्यधिकृतम्। तेन समासस्य अन्तावयव इति लभ्यते। प्रत्ययः परश्च इत्यधिकारादच्प्रत्ययस्य तत्पुरुषात्परत्वेऽपि तस्य तदवयवत्वादङ्गुलेरित्यवयवषष्ठी। अङ्गुलेरिति तत्पुरुषविशेषणं, तदान्तविधिः। तदाह संख्याव्ययादेरिति। सङ्ख्या च अव्ययं च सङ्ख्याव्यये, ते आदी यस्येति विग्रहः। द्व्यङ्गुलमिति। तद्धितार्थ` इति द्विगुः। प्रमामे द्वयसज्दघ्नञ्मात्रचः प्रमाणेलो द्विगोर्नित्य`मिति लुक्। द्व्यङ्गुलिशब्दादचि तस्य तद्धितत्वात्तस्मिन् परे `यस्येति चे`ति इकारलोपः। निरङ्गुलमिति। `निरादयः क्रान्ताद्यर्थे इति समासः अच् इलोपः।

Prakriyasarvasvam

अचक्षुरर्थादक्ष्णः समासान्तोऽच् स्यात् । गवां नेत्राणां गमनरन्ध्रं गवाक्षम् । रन्ध्रार्थोऽक्षिशब्दः । ‘इन्द्रे च नित्यम्’ (६-१-१२४) इति चकाराद् गवाक्षे च नित्यमवङिति कौमुदी । चक्षुषि तु—विप्रस्याक्षि विप्राक्षि ।