54074: ऋक्पूरब्धूःपथामानक्षे¶
Padacheda: ऋक्पूरप्धूःपथाम् | S | 6 | 3 |
अ | S | | | 1
अनक्षे | S | 7 | 1 |
Sutrartha¶
यस्मिन् समासे उत्तरपदम् ‘ऋक्’, ‘पूर्’ ‘अप्’, ‘धूर्’, तथा ‘पथिन्’ एतेषु किञ्चन विद्यते, तस्य विषये ‘अ’ इति समासान्तप्रत्ययः भवति । परन्तु यत्र समस्तपदेन अक्षस्य विषये विधानम् क्रियते, तत्र अयम् प्रत्ययः न भवति ।
यस्मिन् समासे उत्तरपदम् ‘ऋक्’ (= वेदस्य ऋचा) , ‘पूर्’ ( = नगरी) , ‘अप्’ (= जलम्), ‘धूर्’ (= भारः), तथा ‘पथिन्’ (= मार्गः) एतेषु किञ्चन विद्यते, तस्य विषये ‘अ’ इति समासान्तप्रत्ययः भवति । परन्तु यदि समस्तपदेन अक्षस्य (axis of a wheel) विषयः कथ्यते, तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । क्रमेण पश्यामः - 1. अर्धम् ऋचः (half of one ऋचा) = अर्ध + ऋच् + अ [अर्धं नपुंसकम् (2.2.2) इति तत्पुरुषसमासः । वर्तमानसूत्रेण समासान्ते ‘अ’प्रत्ययः] → अर्धर्च (half of a verse) 2. विष्णोः पूः (City of Lord Vishnu) = विष्णु + पुर् + अ [षष्ठी (2.2.8) इति षष्ठीतत्पुरुषसमासः । वर्तमानसूत्रेण समासान्ते ‘अ’प्रत्ययः] → विष्णुपुर 3. द्वयोः गताः आपः यस्मिन् (The one which has water on its both sides) = द्वि + अप् + अ [अनेकमन्यपदार्थे (2.2.24) इति बहुव्रीहिसमासः । वर्तमानसूत्रेण समासान्ते ‘अ’प्रत्ययः] → द्वीप [द्व्यन्तरुपसर्गेभ्यः अप ईत् (6.3.97) इति अकारस्य इकारादेशः] 4. महती धूः यस्य सः (The one which has a heavy load) = महत् + धुर् + अ [ अनेकमन्यपदार्थे (2.2.24) इति बहुव्रीहिसमासः । वर्तमानसूत्रेण समासान्ते ‘अ’प्रत्ययः] → महाधूर [आन्महतः समानाधिकरणजातीययोः (6.3.46) इति महत् शब्दस्य अन्तिम-तकारस्य आकारादेशः । अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] 5. सख्युः पन्थाः (Road of a friend) = सखिन् + पथिन् + अ [षष्ठी (2.2.8) इति षष्ठीतत्पुरुषसमासः । वर्तमानसूत्रेण समासान्ते ‘अ’प्रत्ययः] → सखि + पथ् + अ [सखिन् इत्यस्य पदसंज्ञा, अतः नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारलोपः । ‘पथिन्’ इत्यस्य विषये नस्तद्धिते (6.4.144) इति टिलोपः] → सखिपथ यत्र समस्तपदेन अक्षस्य सम्बधी विधानम् क्रियते (when the समस्तपद talks about axis / spoke) तत्र तु वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - अक्षस्य धूः (The weight of an axis) = अक्ष + धुर् [षष्ठी (2.2.8) इति षष्ठीतत्पुरुषसमासः] → अक्षधूः [र्वोरुपधाया दीर्घः इकः (8.2.76) इति दीर्घादेशः ; विसर्गनिर्माणम् ] अक्षस्य धूः अक्षधूः । Weight of an axis इत्यर्थः । विशेषः - यदि ‘अक्ष’ शब्दः पूर्वपदे न विद्यते, तथापि समस्तपदेन ‘अक्ष’शब्दस्य निर्देशः भवति चेदपि ‘अ’ प्रत्ययः समासान्ते नैव प्रयुज्यते । यथा - दृढा धूः यस्य सः (An axis whose weight is heavy) = दृढ + धुर [अनेकमन्यपदार्थे (2.2.24) इति बहुव्रीहिसमासः] → दृढधूः [र्वोरुपधाया दीर्घः इकः (8.2.76) इति दीर्घादेशः ; विसर्गनिर्माणम् ] दृढा धूः यस्य सः दृढधूः । An axis whose weight is heavy इत्यर्थः । अत्र यद्यपि ‘अक्ष’ शब्दः समस्तपदस्य अवयवः नास्ति तथापि समस्तपदेन अक्षस्य निर्देशः भवति अतः अत्रापि ‘अ’ प्रत्ययस्य प्रसक्तिः नास्ति ।
Vasu English Summary¶
The affix अ comes after 1. ऋक् 2. पुर् 3. अप् 4. धुर् and 5. पथिन् when finals is compound, but not so when धुर् is in conjunction with अक्ष।
Vasu English Translation¶
The affix अ comes after 1. ऋक् 2. पुर् 3. अप् 4. धुर् and 5. पथिन् when finals is compound, but not so when धुर् is in conjunction with अक्ष। The anuvritti of the word Bahuvrihi does not enter here. It applies to all compounds in general. The word अनक्षे qualifies धुर्, as it cannot qualify the words ऋक् &c.
Thus अनृचः बह्वृचः,अर्द्धर्चः, pur: as, ललाटपुरम्, नान्दीपुरम् ॥ ap as, द्वीपम् = (द्विर्गता आपो यस्मिन्) = द्वि + अप् = द्वि + ईप् (6.3.97) = द्वीपं, अन्तरीपम्, समीपम् ॥ dhur as, राजधुरा, महाधुरा ॥ pathin, as, जलपथः ॥
Why do we say “when not in conjunction with अक्ष?” Observe, अक्षस्य धूः = अक्षधूः, दृढधूरक्षः ॥
The words अनृचः and बह्वृचः apply to students of Rik: thus अनृचः means “a boy who has not read the Rik”. बह्वृचः “a Brahmana who has read many Rig verses”. The affix अ is not applied when it refers to the Vedas, as अनृक साम, बह्वृक् सूक्तम् ॥
Bhashya¶
ऋक्पूरब्धूःपथामानक्षे (351) (अनक्षे इत्यत्र पक्षद्वयेऽपि दोषोपपादकभाष्यम्) अनक्ष इति कथमिदं विज्ञायते - न चेदक्षधूरन्तः समास इति, आहोस्विन्न चेदक्षः समासार्थ इति। किं चातः? यदि विज्ञायते - न चेदक्षधूरन्तः समास इति। सिद्धमक्षस्य धूः - अक्षधूरिति। इदं तु न सिध्यति - दृढधूरयमक्षः। अस्तु तर्हि - न चेदक्षः समासार्थ इति। सिद्धं दृढधूरक्ष इति। इदं तु न सिध्यति - अक्षस्य धूः - अक्षधूरिति। (अनक्षे पदार्थबोधकभाष्यम्) एवं तर्हि नैवं विज्ञायते - न चेदक्षधूरन्तः समास इति, नापि - न चेदक्षः समासार्थ इति। कथं तर्हि? न चेदक्षस्य धूरिति। एवं च कृत्वा नापि न चेदक्षधूरन्तः समास इति विज्ञायते, नापि न चेदक्षः समासार्थ इति - अथ चोभयोर्न भवति॥
Kashika¶
बहुव्रीहाविति न स्वर्यते। सामान्येन विधानम्। ऋक् पुर् अप् धुर् पथिन् इत्येवमन्तानां समासानामकारः प्रत्ययो भवति समासान्तोऽक्षे न । सामर्थ्याद् धुर एतद्विशेषणम् ऋगादीनां न भवति। अक्षसंबन्धिनी या धूस्तदन्तस्य न भवति। अनृचः। बह्वृचः। अर्धर्चः। पुर् — ललाटपुरम्। नान्दीपुरम्। अप् — द्वीपम्। अन्तरीपम्। समीपम्। धुर् — राजधुरा। महाधुरः। पथिन् — स्थलपथः। जलपथः। अनक्ष इति किम्? अक्षस्य धूः अक्षधूः। दृढधूरक्षः। अनृचो माणवके ज्ञेयः, बह्वृचश्चरणाख्यायाम् (महाभाष्य २.४४४)। अनृचो माणवकः। बह्वृचो ब्राह्मणः। अनृक्कं साम, बह्वृक्कं सूक्तमित्यत्र न भवति॥
Siddhanta Kaumudi¶
अ अनक्षे इति च्छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्योऽन्तावयवः स्यात् अक्षे या धूस्तदन्तस्य तु न । अर्धर्चः । अनृचबह्वृचावध्येतर्येव । नेह - अनुक्साम । बह्वृक् सूक्तम् । विष्णोः पूः विष्णुपुरम् । क्लीबत्वं लोकात् । विमलापं सरः ॥
Laghu Siddhanta Kaumudi¶
अ अनक्षे इटिच्छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्ययोऽन्तावयवोऽक्षे या धूस्तदन्तस्य तु न । अर्धर्चः । विष्णुपुरम् । विमलापं सरः । राजधुरा । अक्षे तु अक्षधूः । दृडधूरक्षः । सखिपथः । रम्यपथो देशः ॥
Balamanorama¶
ऋक्पूरब्धूःपथामानक्षे - अथ सर्वसमाससाधारमसमासान्ता निरूप्यते — ऋक्पूरब्धूः । छेद इति । सूत्रे ‘अ’ इति लुप्तप्रथमान्तनिर्देश इति भावः । ‘समासान्ता’ इत्यधिकृतम् । ऋगादिभिः समासो विशेष्यते । तदन्तविधिः । तदाह — ऋगाद्यन्तस्येति । ऋक्, पुर्, अप्, धुर्, पथिन्-एतदन्तस्येत्यर्थः । अप्रत्यय इति । अकारात्मकप्रत्यय इत्यर्थः । अक्षे या धूरिति । अक्षसंबन्धिनी या धूरित्यर्थः । सूत्रे संबन्धिनोऽधिकरणत्वविक्षया अनक्षे इति सप्तमी । ‘अनक्षे’ इति च धुर्शब्देनैव संबध्यते, अन्यैरसंभवादिति भावः । अर्धर्चेति । ऋचोऽर्धमिति विग्रहः ।अर्धं नपुंसक॑मिति समासः । अकारः समासान्तः ।अर्धर्चाः पुंसि चे॑ति पुंस्त्वम् । अनृचबह्वृचावध्येतर्येवेति । अविद्यमाना ऋचो यस्येति विग्रहः । बहव ऋचो यस्येति बह्वृचः-ऋक्छाखीत्युदाहरणम् ।अध्येतर्येवे॑ति नियमस्य प्रयोजनमाह — नेहेति । अनृक्सामेति । अविद्यमाना ऋचो यस्मिन्निति विग्रहः । ऋच्यनध्यूढं प्रजापतेह्र्मदयं साम । बह्वृक्सूक्तमिति । बहवो ऋचो यस्मिन्निति विग्रहः । अथ पुर्शब्दान्तस्योदाहरति — विष्णोरिति । ननु पुर्शब्दस्य स्त्रीत्वापरवल्लिङ्ग॑मिति विष्णुपुरशब्दस्य स्त्रीत्वं युक्तमित्यत आत — क्लीबत्व#ं लोकादिति । अथाऽप्शब्दान्तस्योदाहरति — विमलापं सर इति । विमला आपो यस्मिन्निति विग्रहः ।
Tattvabodhini¶
ऋक्पूरब्धूःपथामानक्षे - ऋक्पूर ।अ॑इति लुप्तप्रथमैकवचनान्तं,समासान्ताः॑इति त्वधिक्रियते, तदाह -समासस्याप्रत्ययोऽन्तावयव इति ।अनक्षे॑इत्येतत्सामान्यतः श्रुतमपि धुरैव संबध्यते, सामर्थ्यात्, नान्यैरित्याशयेन व्याचष्टे — अक्षे या धूरिति । तदन्तस्य तु नेति । सूत्रे संबन्धिनोऽधिकरणत्वविवक्षया सप्तमी । तेन अक्षसंबन्धिनी या धूस्तदन्तस्य नेत्यर्थः । यद्यत्रअक्षे पूर्वपदे ने॑ति व्याख्यायेत, तर्हिदृढधूरक्षः॑इत्यत्र निषेधो न स्यात् । यदि तुअक्षे समासार्थेने॑ति व्याख्यायेत, तदाअक्षधू॑रित्यत्र न स्यात् । तस्मादुभयसंग्रहार्थमुक्तव्याख्यानमेव ज्यायः । अद्र्धर्चेति ।अर्द्धं नपुंसक॑मिति समासः ।अर्धर्चाः पुंसि चे॑ति पुंस्त्वम् । अनृगित्यादि । अनुक्तसमासान्तत्वात्शेषाद्विभाषे॑ति कप्प्रत्ययेअनृच्कं॑बह्वृच्कं॑मित्यपि बोध्यम् । विष्णुपुरमिति । यद्यपि पुरशब्देन समासेऽप्येतत्सिध्यति, तथापिविष्णुपू॑रित्यनिष्टवारणाय सूत्रे पूग्र्रहणम् ।
Padamanjari¶
सामार्थ्यादिति। धुर एवाक्षेण सम्बन्धोऽस्ति, नेतरेषामित्येतत्सामर्थ्यम्। एतद्विशेषणमिति। ठनक्षेऽ इत्यत्रोतरपदार्थ एतदा प्रत्यवमृश्यते, अत एवाह - अक्षसम्बन्धिनी या धूरिति। सूत्रे त्वक्षस्य धूरपेक्षयाऽधिकरणत्वादनक्ष इति सप्तमी। चक्रसम्बद्धः काष्ठविशेषो रथाद्यवयवःउअक्षः, तत्सम्बन्धिनी धूस्तस्यां न भवतीत्यर्थः। यदि त्वक्षे समासार्थे न भवतीति विज्ञायेत, इहैव प्रतिषेधः स्यात्-दृढा धूरस्य दृढधूरक्ष इति, इह तु न स्याद् - अक्षस्य धूरक्षधूरिति। अथाप्येवं विज्ञायेत - अक्षे पूर्वपदे न भवतीति, एवमपीहैव प्रतिषेधः स्याद् - अक्षधूरिति, इह तु न स्याद्दृढधूरक्ष इति। तस्माद्व्याप्तिन्याया दुक्त एवार्थो न्याय्यः। अर्द्धर्चेति। ठध नपुंसकम्ऽ इति समासे ठर्द्धर्चाः पुंसि चऽ इति पुंल्लिङ्गत्वम्। बह्वचेति। बहुव्रीहिः। ललाटपुरम्, नान्दीपुरमिति। षष्ठीसमासौ। परवल्लिङ्गता तु न भवति, लोकाश्रयत्वाल्लिङ्गस्य। यद्यप्यकारान्तेन पुरशब्देन समासे कृते एतत्सिद्ध्यति, तथापि व्यञ्जनान्तेन समासे तस्य श्रवणं मा भूदिति पूर्वग्रहणम्, द्वीपं समीपमिति। द्विर्गता आपोऽस्मिन्निति बहुव्रीहिः,’द्व्यन्तरुपसर्गेब्यो’ प इत्ऽ इतीत्वम्। राजधुरादयः षष्ठीसमासाः। महाधुर इति। बहुव्रीहिः,’स्त्रियाः पुंवत्’ इति पुंवद्भावः, ठान्महतःऽ इत्यात्वम्। अनृचो माणवक इत्यादि। ऋगन्तस्य बहुव्रीहेर्नञ्पूर्वस्य माणवक एवाभिधेये प्रत्यय इष्यते, तथा बहुपूर्वपदस्य चरणाख्यायामेवेत्यर्थः। अनृक्कं साम, बह्वृक्कं सूक्तमिति।’ज्ञेषाद्विभाषा’ इति कप्,’चोःकुः’ इति कुत्वम् ॥
Nyaas¶
सामर्थ्यात् इति। यस्य येन सम्बन्धोऽस्ति तत्? तस्य विशेषणं भवति; धुर #एव चाक्षेम सम्बन्धोऽस्ति, नेतरेषाम्। अतः समथ्र्यात्? तस्यैवानक्ष इत्येतद्विशेषणं विज्ञायते, न ऋगादीनाम्। अनक्षे इति च षष्ठर्थे सप्तमी सुब्ब्यत्ययेन। अत एवाह - अनक्षसम्बन्धिनी इत्यादि। अक्षेण सम्बन्धोऽवयवावयविलक्षणः, सोऽस्या अस्तीत्यक्षस्मबन्धिनी। सा धूर्यस्यां तस्या न भवति। अथैवं कस्मान्न विज्ञायते - अक्षेऽभिधेये न भवतीति? अशक्यमेवं विज्ञातुम्; एवं हि विज्ञायमान इहैव प्रतिषेधः स्यात् - दृढा धूरस्याक्षस्य दृढधूरक्ष इति। इह तु न स्यात् - अक्षस्य धूरक्षधूरिति, एवं तर्हि विज्ञायते - अक्षे पूर्वपदे न भवतीति? एवमप्यशक्यं विज्ञातुम्; तथा ह्रेवं विज्ञायमान इहैव प्रतिषेधः स्यात् - अक्षधूरिति। इह तु न स्यात् - दृढधूरक्ष इति। यथा वृत्ति कारेम व्याख्यातं तथोभत्रापि भवति। अक्षसम्बन्धिनी या धूः, तदन्तत्वात्? समासस्य। अद्र्धर्चः इति। ऋचोद्र्धमिति अर्धं नपुंसकम् (2.2.2) इति समासः। अद्र्धर्चा पुंसि च (2.4.31) इति नपुंसकलिङ्गता च। `बहवृचः इति। बहव ऋचोऽस्य सन्तीति बहुव्रीहिः। ललाटपुरम् इति। षष्ठीतत्पुरुषोऽयम्। अथ वा - ललाटं पूरिवेति उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (2.1.56) इत्यादिना समासः। नान्दीपुरम् इति। षष्ठीसमासः। यद्यप्यकारान्तेन पुरशब्देन समासे कृत एतत्? सिध्यति, तथापि व्यञ्जनान्तेन पूःशब्देन यदि समासः क्रियते, तदा व्यञ्जनान्तस्य श्रवणं मा भूदित्येवमर्थं पुरो ग्रहणम्। द्वीपम् इति अन्तरीपम् इति समीपम् इति। द्विर्गता आपोऽस्मिन्, अन्तर्गता आपोऽस्मिन्, सङ्गता आपोस्मिन्निति बहुव्रीहिः। द्व्यन्तरुपसर्गेभ्योऽप ईत् (6.3.97) इतीत्त्वम्। राजधूरा इति। षष्ठीसमासः। महाधुरः इति। बहुव्रीहिः, आन्महतः समानाधिकरणजातीययोः (6.3.46) इत्यात्त्वम्, स्त्रियाः पुंवत् (6.3.33) इत्यादिना पुंवद्भावः। स्थलपथः, जलपथः इति षष्ठीसमासः। सप्तमीति (2.1.40) योगविभागात्? सपतमीसमासो वा। ऋगन्तस्य यो बहुव्रीहिर्नञ्पूर्वपदः, तस्य माणवक एवाभिधेये प्रत्यय इष्यते, यो बहुपूर्वपदो बहुव्रीहिरृगन्तः, तस्य चरणा ख्यायामेव इष्यत इति दर्शयति - अनृचो माणवको ज्ञेयः इत्यादि। एतच्च पथो विभाषा (5.4.72) इत्यतो विभाषाग्रहानुवृत्तेव्र्यवस्थितविभाषात्वं चोपलभ्यमिति वेदितव्यम्। अनृक्कः, बहवृक्कः इति। शेषाद्विभाषा (5.4.154) इति कप। चोः कुः (8.2.30) इति कुत्वम् - चकारस्य ककारः॥
Prakriyasarvasvam¶
एतदन्तानां समासानामप्रत्ययः स्यात् । धुरस्त्वक्षविषयत्वे न । एकर्चं कर्म ॥ <karika>अनृचो माणवे वाच्ये बह्वृचश्चरणे भवेत् । अन्यत्र चेदनृक् साम बह्वृगध्वर इत्यपि ॥ ४१० ॥</karika><!ऋचि त्रेरुत्तरपदादिलोपश्छन्दसि!> (वा० ६-१-३७) । छन्दोभागे वाच्ये ऋचि परतस्त्रेः सम्प्रसारणमृच आदिलोपश्च स्यात् । पूर्वरूपम् । तृचं सूक्तम् । वेदादन्यत्र त्र्यृचं कर्म । राज्ञः पूः राजपुरम् । स्वभावाल्लिङ्गभेदः । विमलापं सरः ॥
Vartika¶
अनृचबह्वृचावध्येतर्येव ।
Sutra Prayogas¶
तपोवनावृत्तिपथं (रघुवंशम्): ऋक्पूरब्धूर्पथामानक्षे इत्यादिना समासान्तोऽप्रत्ययः।
समधुरं (रघुवंशम्): ऋक्पूरब्धूःपथामानक्षे इति समासान्तोऽच्प्रत्ययः।
सचिवावलम्बिधुरं (रघुवंशम्): ऋक्पूरब्धूः पथामानक्षे इति समासान्तोऽच्प्रत्ययः।
नारिकेलान्तरपः (शिशुपालवधम्): ऋक्पूरब्धूर्पथामानक्षे इति समासान्तप्रसङ्गात्।
प्रतीपनाम्नीः (शिशुपालवधम्): ऋक्पूरब्धूर्पथामानक्षे इत्यादिना समासान्तः।
राज्य-धुरां (भट्टिकाव्यम्): ऋक् - पूः इत्यकारप्रत्ययः।
सर्व-पथीनं (भट्टिकाव्यम्): ऋकू-पू: इति समासान्तोऽकारः।