54073: बहुव्रीहौ संख्येये डजबहुगणात्

Padacheda: बहुव्रीहौ | S | 7 | 1 |

संख्येये | S | 7 | 1 |

डच् | S | 1 | 1 |

अबहुगणात् | S | 5 | 1 |

Sutrartha

यस्य बहुव्रीहिसमासस्य उत्तरपदम् ‘बहु’ तथा ‘गुण’ एतौ शब्दौ विहाय कश्चन अन्यः सङ्ख्यावाचकः शब्दः अस्ति, तस्मात् गणनायां गम्यमानायां ‘डच्’ इति समासान्तप्रत्ययः भवति ।

अनेन सूत्रेण बहुव्रीहिसमासस्य विषये ‘डच्’ इति समासान्तप्रत्ययः विधीयते । सङ्ख्यावाचकः शब्दः गणनार्थं यत्र बहुव्रीहिसमासस्य उत्तररूपेण विद्यते (इत्युक्ते, संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये (2.2.25) अनेन सूत्रेण यः बहुव्रीहिः समासः क्रियते), तस्य अन्ते अयम् ‘डच्’ प्रत्ययः आगच्छति । ‘डच्’ प्रत्यये डकारचकारयोः इत्संज्ञा, लोपः भवति । प्रत्ययस्य डित्त्वात् टेः (6.4.143) इति टिलोपः अपि विधीयते । कानिचन उदाहरणानि पश्यामः - 1. दशानां समीपे ये सन्ति ते = उप + दशन् + डच् → उपदशाः । Represents a entity whose count is approximately ten. 2. पञ्चविंशतेः आसन्नाः = आसन्न + पञ्चविंशति + डच् → आसन्नपञ्चविंशाः । अत्र ति विंशतेर्डिति (6.4.142) इति ‘ति’ इत्यस्य लोपः भवति । Represents a entity whose count is approximately twenty-five. 3. त्रिंशतः अदूराः = अदूर + त्रिंशत् + डच् → अदूरत्रिंशाः । Represents a entity whose count is close to thirty. 4. पञ्चाशतः अधिकाः = अधिक + पञ्चाशत् + डच् → अधिकपञ्चाशाः । Represents a entity whose count is more than fifty. 5. द्वौ वा त्रयः वा = द्वि + त्रि + डच् → द्वित्राः । Represents a entity whose count is either two or three. 6. द्विरावृत्ताः दशः = द्वि + दशन् + डच् → द्विदशाः । Represents a entity whose count is equal to two units of ten. परन्तु ‘बहु’ तथा ‘गण’ एतौ शब्दौ उत्तरपदरूपेण भवतः चेत् यद्यपि समासः क्रियते तथापि अस्य सूत्रस्य प्रसक्तिः न भवति । यथा - 1. बहूनां समीपे ये सन्ति ते = उप + बहु → उपबहवः । अत्र डच्-प्रत्ययः न विधीयते, अतः समासान्तम् प्रातिपदिकमुकारान्तमेव विद्यते । 2. गणानां समीपे ये सन्ति ते = उप + गण → उपगणाः । अत्र डच्-प्रत्ययः न भवति, अतः बहुव्रीहौ प्रकृत्या पूर्वपदम् (6.2.1) इत्यनेन पूर्वपदस्य आदिस्वरः उदात्तत्वं प्राप्नोति । तद्धितस्य (6.4.154) इत्यनेन अन्तिमस्वरस्य उदात्तत्वं न जायते इत्याशयः । अत्र एकम् वार्त्तिकं ज्ञातव्यम् - <!डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानं कर्तव्यं निस्त्रिंशाद्यर्थम्!> । इत्युक्ते, ‘निर्’ इत्यस्मात् अनन्तरम् त्रिंशत्, चत्वारिंशत् आदयः शब्दाः तत्पुरुषसमासे विद्यन्ते चेत् तत्रापि डच्-प्रत्ययः विधीयते । यथा - अ) निर्गतानि त्रिंशतः वर्षाणि तानि = निर् + त्रिंशत् + डच् → निस्त्रिंशानि वर्षाणि (देवदत्तस्य । (Thirty years of Devadattas life are over. Devadatta is thirty-one years old इत्याशयः ) । आ) निर्गतानि चत्वारिंशतः दिवसाः = निर् + चत्वारिंशत् + डत् → निश्चत्वारिंशम् वर्षम् (Forty days of the year are over) । इ) निर्गतः त्रिंशतः अङ्गुलिभ्यः = निर् + त्रिंशत् → निस्त्रिंशः खड्गः । A weapon whose measurement of length is not over even after counting for thirty finger-length. A weapon whose length is more than that of 30 times length of a finger - इत्याशयः । अत्र सर्वेषु उदाहरणेषु कुगतिप्रादयः (2.2.18) इति तत्पुरुषसमासः विधीयते । विशेषः - अस्मिन् सूत्रे ‘सङ्ख्येय’ इति शब्दः निर्दिष्टः अस्ति । अयम् निर्देशः संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये (2.2.25) इत्यत्र स्थापितस्य ‘सङ्ख्येये’ शब्दस्य निर्देशं करोति । यत्र समासेन निर्मितः शब्दः कस्यचन सङ्ख्येयस्य ( an entity that can be counted) निर्देशं करोति, तत्रैव समासः अपि भवितुमर्हति, तत्रैव च डच्-प्रत्ययः अपि विधीयते, इति अस्य अर्थः ।

Vasu English Summary

The affix डाच् comes after a बहुव्रीहि समास denoting numeral except when the last term of such समास is बहु and गण।

Vasu English Translation

The affix डाच् comes after a बहुव्रीहि समास denoting numeral except when the last term of such समास is बहु and गण। This Bahuvrihi is formed by rule (2.2.25). Thus उपदशाः, उपविंशाः, उपत्रिंशाः, आसप्तदशाः, अदूरदशाः, अधिकदशाः, द्वित्राः, पंचधाः, पंचदशाः ॥

Why do we say ‘denoting a numeral’? Observe चित्रगुः, शबलगुः ॥ Why do we say ‘not after bahu and gana’? Observe, उपबहवः, उपगणाः ॥ The difference here is in the accent for had डच् been added, it would have made the final of उपगण acute, but it not being so, the first member retains its accent, namely acute on the first.

Vart:- The Tatpurusha compouds of numerals like निस्त्रिंश &c, take also the affix डच् ॥ Thus निर्गतानि त्रिंशतः = निस्त्रिंशानि वर्षाणि देवदत्तस्य ‘Devadatta is more than thirty years old’ ॥ निर्गतस्त्रिंशतांगुलिभ्य = निस्त्रिंशः खड्गः ‘the sword is more than thirty fingers long’.

Bhashya

बहुव्रीहौ संख्येये डचबहुगणात् (2350) (समासान्ताधिकरणम्) (5932 उपसंख्यानवार्तिकम्॥ 1 ॥) - डच्प्रकरणे संख्यायास्तत्पुरुषस्योपसंख्यानं निस्त्रिंशद्यार्थम् - (भाष्यम्) डच्प्रकरणे संख्यायास्तत्पुरुषस्योपसंख्यानं कर्तव्यम्। किं प्रयोजनम्? निस्त्रिंशाद्यर्थम्। निस्त्रिंशांनि वर्षाणि, निश्चत्वारिंशानि वर्षाणि॥ (5933 सूत्रपर्युदासवार्तिकम्॥ 2 ॥) - अन्यत्राधिकलोपात् - (भाष्यम्) अन्यत्राधिकलोपादिति वक्तव्यम्। इह मा भूत् - एकाधिका विंशतिरेकविंशतिः। द्व्यधिका विंशतिर्द्वाविंशतिः। (उपसंख्यानभाष्यम्) अव्ययादेरिति च वक्तव्यम्। इह मा भूत् - गोत्रिंशत्, गोचत्वारिंशदिति। तत्तर्हि वक्तव्यम्। यद्यप्येतदुच्यते, अथ वै तर्हि - अन्यत्राधिकलोपादित्येतन्न क्रियते॥

Kashika

संख्येये यो बहुव्रीहिर्वर्तते, तस्मादबहुगणान्ताद् डच् प्रत्ययो भवति। संख्ययाव्ययासन्ना० (२.२.२५) इति यो बहुव्रीहिः, तस्येदं ग्रहणम्। उपदशाः। उपविंशाः। उपत्रिंशाः। आसन्नदशाः। अदूरदशाः। अधिकदशाः। द्वित्राः। पञ्चषाः। पञ्चदशाः। संख्येय इति किम् ? चित्रगुः। शबलगुः। अबहुगणादिति किम्? उपबहवः। उपगणाः। अत्र स्वरे विशेषः॥ डच्प्रकरणे संख्यायास्तत्पुरुषस्योपसंख्यानं कर्तव्यं निस्िंत्रशाद्यर्थम्॥ निर्गतानि त्रिंशतो निस्िंत्रशानि वर्षाणि देवदत्तस्य। निश्चत्वारिंशानि यज्ञदत्तस्य। निर्गतस्िंत्रशतोऽङ्गुलिभ्यो निस्त्रिंशः खड्गः॥

Siddhanta Kaumudi

संख्येये यो बहुव्रीहिस्तस्माड्डच् स्यात् । उपदशाः । अबहुगणात् किम् । उपबहवः । उपगणाः । अत्र स्वरे विशेषः ।<!संख्यायास्तत्पुरुषस्य वाच्यः !> (वार्तिकम्) ॥ निर्गतानि त्रिंशतो निस्त्रिंशानि वर्षाणि चैत्रस्य । निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खङ्गः ॥

Balamanorama

बहुव्रीहौ संख्येये डजबहुगणात् - अथ बहुव्रीहावसाधारणसमासान्तानाह — बहुव्रीहौ । सङ्ख्येये यो बहुव्रीहिरिति ।सङ्ख्ययाव्यये॑ति विहित॑ इति शेषः । तस्मादिति । बहुव्रीहाविति । पञ्चम्यर्ते सप्तमीति भावः । डच्स्यादिति । समासान्तस्तद्धितश्चेति ज्ञेयम् । उपदशा इति । दशानां समीपे ये सन्तीति विग्रहः ।सङ्ख्ययाऽव्यये॑ति बहुव्रीहिः । सुब्लुक् । उपदशन्शब्दाड्डचि ‘नस्तद्धिते’ इति टिलोपः । उपबहवः । उपगणा इति । बहूनां समीपे ये सन्तीति, गणस्य समीपे ये सन्तीति च विग्रहः ।बहुगणवतुडति सङ्ख्ये॑ति सङ्ख्यात्वात्सङ्ख्ययाव्यये॑ति समासः । अबहुगणादिति निषेधान्न डच् । ननूपगणा इत्यत्र डचि सत्यसति च रूपसाम्यात्क तन्निषेधेनेत्यत आह — स्वरेविशेष इति । डचि सति ‘चित’ इति अन्तोदात्तत्वं स्यादित्यर्थः । सङ्ख्याया इति । सङ्ख्यान्तत्पुरुषस्य समासान्तो डज्वक्तव्य इत्यर्थः । निस्त्रशानीति ।निरादयः क्रान्ते॑ति तत्पुरुषः, डच्,टे॑रिति टिलोपः । तिंरशतोऽधिकानीति यावत् । निस्त्रश इति । समासादि पूर्ववत् । तिंरशदधिकाङ्गुलिरित्यर्थः । न च गवां विंशतिर्गोविंशतिरित्यत्रातिप्रसङ्गः शङ्क्यः,अव्ययादे॑रिति विशेषणादिति भाष्ये स्पष्टम् । नचैकाधिका विंशतिरेकविंशतिरित्यत्रसङ्ख्ययाव्यये॑ति समासे सतिबहुव्रीहौ सङ्ख्येये॑ इति डच्शङ्क्यः,अन्यत्राधिकलोपा॑दिति वार्तिकादित्यास्तां तावत् ।

Tattvabodhini

बहुव्रीहौ संख्येये डजबहुगणात् - बहुव्रीहौ सङ्ख्येये । व्यत्ययेन पञ्चम्यर्थे सप्तमीत्याह -यो बहुव्रीहिस्तस्मादिति ।उपगणा॑इत्यत्र डचि सत्यसति च रूपे विशेषो नास्तीत्यत आह — स्वरे विशेष इति । डचि सतिचितः॑ इत्यन्तोदात्तत्वं स्यात्, असति तु पूर्वपदप्रकृतिस्वर इत्यर्थः । न च सत्यपि डचि परत्वात्पूर्वपदप्रकृतिस्वर एव स्यादिति शङ्क्यमं,चितः॑इति स्वरस्य सतिशिष्टत्वात्, डचश्चित्करणस्य वैयथ्र्यापत्तेश्च ।सङ्ख्यायास्तत्पुरुषस्य वाच्यः । सङ्ख्याया इति । सङ्ख्यान्तस्य तत्पुरुषस्य चरमावयवो डज्वक्तव्य इत्यर्थः ।एकविंशति॑रित्यादौ तु न भवति,अन्यत्राधिकलोपा॑दिति वार्तिककारोक्तेः ।

Padamanjari

‘बहुव्रीहौ’ इति सुब्ब्यत्ययेन पञ्चम्यर्थे सप्तमी। तस्येदं ग्रहणमिति। तस्यैव संख्येये वृतेः। योऽपि वार्थे वर्तते-द्वित्राः, पञ्चषा इति, योऽपि ,सुजर्थे-द्विदशास्त्रिदशा इति; तावुभावपि संख्येय एव वर्तेते; संख्येयस्यैव वार्थस्य सुजर्थस्य चाभिधानात्। उपदशा इत्यादौ टिलोपः। उपविंशा इत्यत्र’तिविंशतेर्डिति’ इति तिलोपः द्वयोरकारयोः ठतो गुणेऽ पररूपत्वम्। संख्येय इति शक्यमवक्तुम्। इह कस्मान्न भवति - चित्रगुरिति? नत्रिवयुक्तन्यायेन बहुगणप्रतिषेधातत्सदृशविज्ञाने सति संख्योतरपदो बहुव्रीहिर्ग्रहीष्यते। स्यादेतत् - वैपुल्यवचनोऽपि बहुशब्दोऽस्ति, न संख्यापदमेव, गणशब्दोऽपि सङ्घवचनोऽप्यस्ति, तस्मादशक्यं बहुगणसादृश्येन संख्योतरपदं ग्रहीतुमिति ? तन्न; परस्परसाहचर्यात्संख्यापदयोरेव पर्युदासात्। तस्मात् प्रसज्यप्रतिषेधेऽपि समाससम्भवात्सादृश्यस्य चानवस्थितत्वात् संख्येयग्रहणं कृतम्। उपबहवः, उपगणा इति। अनियतप्रचयवचनयोरपि बहुगणशब्दयोरर्थप्रकरणादिना यदा विशिष्टेष्वेव दशादिषु वृत्तिस्तदा तत्समीपगता नवादय उपबहव इत्यविरुद्धं बहुवचनम्। अत्रेति। उपगणा इत्यत्र स्वरे विशेष इति। डचि सत्यन्तोदातत्वं स्यात्, तस्मि, तस्मिस्त्वसति पूर्वपदप्रकृतिस्वरेणाद्यौदातत्वमेव भवति। संख्यायास्तत्पुरुषस्येति। तत्पुरुषस्यावयवभूतं यत्संख्यावाच्युतपरपदं तस्मादित्यर्थः। निस्त्रिशाद्यथमिति। आदिशब्दः प्रकारे, अव्ययादयः संख्यान्तास्तत्पुरुषा निस्त्रिंशप्रकाराः। गोविंशतिरित्यादौ न भवति। निस्त्रिशानिवर्षाणीति। त्रिंशल्लाक्षणायाः संख्याया निर्गतानि अधिकानिं एकत्रिंशदादीनीत्यर्थः। निर्गतस्त्रिशतोऽङ्गूलिभ्य इति। ततोऽपि दीर्घतर इत्यर्थः। रूढिशब्दस्येयं यथाकथञ्चिद्व्युत्पत्तिः। डचश्चित्करणं स्वरार्थम्; अन्यथा समासार्थादुतरपदात्प्रत्यये कृते पश्चाद्वहुव्रीहौ सतिशिष्टः पूर्वपदप्रकृतिस्वरः स्यात्। इदमेव चित्करणं लिङ्गम्-समासार्थादुतरपदात्समासान्ते कृते पश्चात्समासः इति, अन्यथा प्रत्ययस्वर एव सतिशिष्टः स्वरः स्यात्। यस्तु मन्यते -‘कृते समासे समासान्तग्रहणसामर्थ्याच्चागमवतद्ग्रहणेन गृह्यते’ इति, तस्यापि ज्ञापकार्थं चित्करणम्; स्वरविधेः प्रागेव समासान्तो भवतीति। तेन महाधुर इत्यादौ बहुव्रीहिस्वरो भवति ॥

Nyaas

बहुव्रीहाविति सुब्व्यत्ययेन पञ्चम्यर्थे सप्तमी। संख्याव्ययासन्न (2.2.25) इत्यादिना यो बहुव्रीहिः, तस्येदं ग्रहणमिति। तस्यैव संख्येये वृत्तिः। यत्तर्हि वार्थे वर्तते - द्वित्राः, पञ्चषा इति, यश्च सुजर्थे - द्विदशाः, त्रिदशा इति, तत्र न प्राप्नोति? नैष दोषः; तावपि संख्येये वर्तत एव; संख्येयतयैव वार्थस्य सुजर्थस्य चाभिधानात्। दशानां च समीपे उपदशाः। विशतेः समीपे उपविंशाः। विशतेः समीपे उपविंशाः। तिविंशतेडिति (6.4.142) इति तिलोपः, द्वयोरप्यकारयोः अतो गुणे (6.1.97) पररूपत्वम्। दशानामासन्ना आसन्नदशाः। दशानामदूरा अदूरदशाः दशानामधिका अधिकदशाः द्वौ वा त्रयो वा द्वित्रा। पञ्च वा षङ्वा पञ्चषाः। सर्वत्र संख्याव्ययासन्न (2.2.24) इत्यादिना बहुव्रीहिः। चित्रगुः इति। **गोस्त्रियोरुपसर्जनस्य** (1.2.48) इति ह्रस्वः। ननु च नञिवयुक्तन्यायेन (व्या।प।65) बहुगणपरतिषेधात्? तत्सदृशविज्ञानेन संख्योत्तरपद एव बहुव्रीहिविज्ञास्यते, एवञ्च चित्रगुप्रभृतिषु प्राप्तिरेव नास्तीति किं संख्याग्रहणेन? स्यादेतदेवं यदि बहुशब्दः संख्येयपदमेव स्यात्; स च वैपुल्यवचनोऽप्यस्ति, तेनासति संख्येयग्रहणे संख्योत्तरपदग्रहणं न स्यात्। `उपबहवः, उपगणाः इति पूर्ववद्वहुव्रीहीः। अत्र इत्यादि। उपगणा इत्यत्र सत्यसति वा डाचि रूपं प्रति विशेषो नास्तीति। स्वरे तु विद्यते - डचि हि सत्यन्तोदात्तत्वं स्यात्, तस्मिन्नसति पूर्वपदप्रकृतिभावेनाद्युदात्तं भवति। संख्यायाः इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्पुरुषस्य संख्यावाचि यदुत्तरपदं ततो डचः प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - संख्यायाश्च गुणान्तायाः (5.4.59) इत्यतश्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः तेन संख्यायास्तुत्पुरुषस्य डज्भविष्यतीति। निस्त्रशाद्यर्थम्? इति। आदिशब्दः प्रकारे। `निस्त्रिशाः`[`निस्त्रशानि, निस्त्रशः इत्येव मूलोपात्ते पदे] इति। कुगतिप्रादयः (2.2.18) इति तत्पुरुषः। डचश्चित्करणमन्तोदात्तार्थम्। अन्यथा हि प्रत्ययस्य समासैकदेशत्वात्? प्रत्यस्वरो बहुव्रीहिस्वरेण बाध्यते॥

Prakriyasarvasvam

सङ्ख्येये बहुव्रीहेः डच् स्यात् । बहुगणाभ्यां तु न । डित्त्वाद्विलोपः । दशानां समीपगता उपदशा विप्राः । उपविंशाः । आसन्नविंशाः । अदूरत्रिंशाः । एषामेको- नत्वमेकाधिकत्वं वार्थः । अधिकचत्वारिंशाः । अत्रैकाधिकत्वमेव । सङ्ख्या तु संशयार्थे सुजर्थे च समस्यते । द्वौ त्रयो वा सङ्ख्या येषां ते द्वित्राः । द्विरावृत्तदश- सङ्ख्या द्विदशा विप्राः । विंशतिरित्यर्थः । एवं त्रिदशाः । बहुगणाभ्यां तु न डच् ॥ <karika>त्वां हत्वोपबहून् कुर्वें कुरूनेवं गणादपि । पूर्वस्मादूनसङ्ख्यानित्यर्थोऽन्त्यस्य स्वरे भिदा ॥ ३९६ ॥</karika> ‘अव्ययादेः सङ्ख्यान्तात् तत्पुरुषादपि डजि’ति रामः । निरादयः क्रान्ताद्यर्थे । त्रिंशतो निर्गतानि निस्त्रिंशानि वर्षाण्यस्य । निश्चत्वारिंशानि । ततोधिकानीत्यर्थः । निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः । खड्गः ॥

Vartika

संख्यायास्तत्पुरुषस्य वाच्यः ।

Sutra Prayogas

  • द्वित्राणि (रघुवंशम्): बहुव्रीहौ संख्येये डजबहुगणात् इति डच्प्रत्ययः समासान्तः।

  • त्रिदशान् (कुमारसम्भवम्): बहुव्रीहौ संख्येये डजबहुगणात् इति डच्प्रत्ययः।

  • त्रिदशैः (शिशुपालवधम्): बहुव्रीहौ संख्येये डजबहुगणात् इति समासान्तः ।