54023: अनन्तावसथेतिहभेषजाञ्ञ्यः¶
Padacheda: अनन्त-आवसथ-इतिह-भेषजात् | S | 5 | 1 |
ञ्यः | S | 1 | 1 |
Sutrartha¶
अनन्त, आवसथ, इतिह, भेषज - एतेभ्यः शब्देभ्यः स्वार्थे ञ्य-प्रत्ययः भवति ।
अनेन सूत्रेण चतुर्भ्यः शब्देभ्यः स्वार्थे ञ्य-प्रत्ययविधानम् क्रियते । समर्थानां प्रथमात् वा (4.1.82) इत्यत्र निर्दिष्टायां महाविभाषायामयम् प्रत्ययः पाठितः अस्ति, अतः अयम् विकल्पेनैव भवति । इत्युक्ते, प्रत्ययं विना अपि शब्दप्रयोगः साधु एव । उदाहरणानि एतानि - 1. अनन्तः (infinite, unlimited, beyond the end) इत्येव = अनन्त + ञ्य → आनन्त + य [तद्धितेष्वचामादेः**(7.2.117) इति आदिवृद्धिः] → आनन्त् + य [**यस्येति च (6.4.148) इति अकारलोपः] → आनन्त्य अनन्तः इत्येव आनन्त्यः एवमेव - 2. आवसथः (निवासस्य स्थानम्, यथा गृहम्, आश्रमः, विश्रामगृहम्, hotel etc) इत्येव आवसथ्यः । 3. इतिह (= इति इत्येव) इत्येव = एतिह्य । ज्ञातव्यम् - ‘इति’ तथा ‘ह’ एतयोः अव्यययोः एकत्ररूपेण उच्चारणं कृत्वा ‘इतिह’ अयं शब्दः जायते । ‘ह’ इत्यस्य अत्र कोऽपि विशिष्टः अर्थः नास्ति । यथा ‘ननु’, ‘किल’, ‘अपिच’ , ‘स्म’ एतादृशाः शब्दाः अर्थम् विना अपि वाक्यनिर्माणे प्रयुज्यन्ते, तथैव ‘ह’ अयम् शब्दः अपि प्रयुक्तः दृश्यते । 4. भेषजम् (औषधम्, medicine) इत्येव भैषज्यम् । अत्र महाविभाषया प्रत्ययः विकल्पेन विधीयते इति स्मर्तव्यम् ।
Vasu English Summary¶
The affix ञ्य comes without changing sense, after the words 1. अनन्ता 2. आवसथ 3. इतिह and 4. भेषजा।
Vasu English Translation¶
The affix ञ्य comes without changing sense, after the words 1. अनन्ता 2. आवसथ 3. इतिह and 4. भेषजा। Thus आनन्त्यम् = अनन्तः, आवसथ्यम् = आवसथः ‘dwelling place, a sanctuary for sacred fire’. ऐतिह्यम् = इति ह ‘traditional account’, the affix here is added to a word which is not a pratipadika. The word इति ह means tradition, as इति ह स्मोपाध्यायाः कथयन्ति ॥ भैषज्यम् = भैषजम् ॥
It is optional to add this affix, owing to the general optional nature of all taddhita affixes. See (4.1.82).
Kashika¶
अनन्तादिभ्यः स्वार्थे ञ्यः प्रत्ययो भवति। अनन्त एव आनन्त्यम्। आवसथ एवावसथ्यम्। इति ह ऐतिह्यम्। निपातसमुदायोऽयमुपदेशपारम्पर्ये वर्तते। भेषजमेव भैषज्यम्। महाविभाषया विकल्पते प्रत्ययः॥
Siddhanta Kaumudi¶
अनन्त एवानन्त्यम् । आवसथ एवावसथ्यम् । इतिहेति निपातसमुदायः । ऐतिह्यम् । भेषजमेव भैषज्यम् ॥
Balamanorama¶
अनन्तावसथेतिहभेषजाञ्ञ्यः - अनन्तावथेतिह । अनन्त, आवसथ, इतिह, भेषज एभ्यः स्वार्थे ञ्यप्रत्ययः स्यादित्यर्थः । अनन्त एवेति । अन्तोनाशः । तस्याऽभावः अनन्तः । अर्थाऽभावे अव्ययीभावेन तद्विकल्पस्योक्तत्वात् । आनन्त्यमिति । स्वार्थिकत्वेऽपि प्रकृतिलिङ्गव्यतिक्रम । आवसथो-गृहम् । निपातसमुदाय इति । स च उपदेश परम्पर्ये वर्तते । तस्मात्स्वार्थे ञ्यः ।पारम्पर्योपदेशे स्यादैतिह्रमितिहाव्यय॑मित्यमरः । भैषज्यमिति । भैषजम्ौषधम्, तदेव भैषज्यम् ।भेषजौषधभैषज्यानी॑त्यमरः ।
Tattvabodhini¶
अनन्तावसथेतिहभेषजाञ्ञ्यः - आवसथ इति ।उपसर्गे वसेः॑इत्यथप्रत्ययः । निपातसमुदाय इति । उपदेश पारम्पर्ये वर्तते, वचनाच्चाऽप्रातिपदिकादेव प्रत्ययः ।ऐतिह्रमितिहाऽव्यय॑मिति कोशः । भेषजमिति । भिषज्यतेः कण्ड्वादियगन्तत्क्विपे । भिषक् । भिषजामिदं भेषजम् । अस्मादेव निपातनादेकारः ।
Padamanjari¶
आवसन्त्येतमित्यावसथः, ठुपसर्गे वसेःऽ इत्यथप्रत्ययः। निपातसमुदायोऽयमिति। वचनाच्चाप्रातिपदिकादपि प्रत्ययः। उपदेशपारम्पर्ये वर्तते इति। तद्यथा - इति ह स्मोपाध्याः कथयन्तीति। भिषज्यतेः कण्ड्वादियगन्तात्किवपि भिषक, भिषज इदमित्यण् - भेषजम्, अस्मादेव निपातनादेकारः ॥
Nyaas¶
उपदेशपारम्पर्ये वर्तते इति। ह स्मोपाध्यायः कथयति, इति ह स्म पिता कययतीत्यत्रैवा प्रयोगदर्शनात्॥
Prakriyasarvasvam¶
अनन्तमेवानन्त्यम् । आवसथ्यं गृहम् । इतिहेत्युपदेशपरम्परा । तदेवैतिह्यम् । भैषज्यम् ॥