54023: अनन्तावसथेतिहभेषजाञ्ञ्यः =============================== **Padacheda:** अनन्त-आवसथ-इतिह-भेषजात् | S | 5 | 1 | ञ्यः | S | 1 | 1 | Sutrartha --------- **अनन्त, आवसथ, इतिह, भेषज - एतेभ्यः शब्देभ्यः स्वार्थे ञ्य-प्रत्ययः भवति ।** अनेन सूत्रेण चतुर्भ्यः शब्देभ्यः स्वार्थे ञ्य-प्रत्ययविधानम् क्रियते । **समर्थानां प्रथमात् वा** (4.1.82) इत्यत्र निर्दिष्टायां महाविभाषायामयम् प्रत्ययः पाठितः अस्ति, अतः अयम् विकल्पेनैव भवति । इत्युक्ते, प्रत्ययं विना अपि शब्दप्रयोगः साधु एव । उदाहरणानि एतानि - 1. अनन्तः (infinite, unlimited, beyond the end) इत्येव = अनन्त + ञ्य → आनन्त + य [**तद्धितेष्वचामादेः**(7.2.117) इति आदिवृद्धिः] → आनन्त् + य [**यस्येति च** (6.4.148) इति अकारलोपः] → आनन्त्य अनन्तः इत्येव आनन्त्यः एवमेव - 2. आवसथः (निवासस्य स्थानम्, यथा गृहम्, आश्रमः, विश्रामगृहम्, hotel etc) इत्येव आवसथ्यः । 3. इतिह (= इति इत्येव) इत्येव = एतिह्य । ज्ञातव्यम् - 'इति' तथा 'ह' एतयोः अव्यययोः एकत्ररूपेण उच्चारणं कृत्वा 'इतिह' अयं शब्दः जायते । 'ह' इत्यस्य अत्र कोऽपि विशिष्टः अर्थः नास्ति । यथा 'ननु', 'किल', 'अपिच' , 'स्म' एतादृशाः शब्दाः अर्थम् विना अपि वाक्यनिर्माणे प्रयुज्यन्ते, तथैव 'ह' अयम् शब्दः अपि प्रयुक्तः दृश्यते । 4. भेषजम् (औषधम्, medicine) इत्येव भैषज्यम् । अत्र महाविभाषया प्रत्ययः विकल्पेन विधीयते इति स्मर्तव्यम् । Vasu English Summary -------------------- The affix ञ्य comes without changing sense, after the words 1. अनन्ता 2. आवसथ 3. इतिह and 4. भेषजा। Vasu English Translation ------------------------ The affix ञ्य comes without changing sense, after the words 1. अनन्ता 2. आवसथ 3. इतिह and 4. भेषजा। Thus आनन्त्यम् = अनन्तः, आवसथ्यम् = आवसथः 'dwelling place, a sanctuary for sacred fire'. ऐतिह्यम् = इति ह 'traditional account', the affix here is added to a word which is not a *pratipadika*. The word इति ह means tradition, as इति ह स्मोपाध्यायाः कथयन्ति ॥ भैषज्यम् = भैषजम् ॥ It is optional to add this affix, owing to the general optional nature of all *taddhita* affixes. See (4.1.82). Kashika ------- अनन्तादिभ्यः स्वार्थे ञ्यः प्रत्ययो भवति। अनन्त एव आनन्त्यम्। आवसथ एवावसथ्यम्। इति ह ऐतिह्यम्। निपातसमुदायोऽयमुपदेशपारम्पर्ये वर्तते। भेषजमेव भैषज्यम्। महाविभाषया विकल्पते प्रत्ययः॥ Siddhanta Kaumudi ----------------- अनन्त एवानन्त्यम् । आवसथ एवावसथ्यम् । इतिहेति निपातसमुदायः । ऐतिह्यम् । भेषजमेव भैषज्यम् ॥ Balamanorama ------------ **अनन्तावसथेतिहभेषजाञ्ञ्यः** - अनन्तावथेतिह । अनन्त, आवसथ, इतिह, भेषज एभ्यः स्वार्थे ञ्यप्रत्ययः स्यादित्यर्थः । अनन्त एवेति । अन्तोनाशः । तस्याऽभावः अनन्तः । अर्थाऽभावे अव्ययीभावेन तद्विकल्पस्योक्तत्वात् । आनन्त्यमिति । स्वार्थिकत्वेऽपि प्रकृतिलिङ्गव्यतिक्रम । आवसथो-गृहम् । निपातसमुदाय इति । स च उपदेश परम्पर्ये वर्तते । तस्मात्स्वार्थे ञ्यः ।पारम्पर्योपदेशे स्यादैतिह्रमितिहाव्यय॑मित्यमरः । भैषज्यमिति । भैषजम्ौषधम्, तदेव भैषज्यम् ।भेषजौषधभैषज्यानी॑त्यमरः । Tattvabodhini ------------- **अनन्तावसथेतिहभेषजाञ्ञ्यः** - आवसथ इति ।उपसर्गे वसेः॑इत्यथप्रत्ययः । निपातसमुदाय इति । उपदेश पारम्पर्ये वर्तते, वचनाच्चाऽप्रातिपदिकादेव प्रत्ययः ।ऐतिह्रमितिहाऽव्यय॑मिति कोशः । भेषजमिति । भिषज्यतेः कण्ड्वादियगन्तत्क्विपे । भिषक् । भिषजामिदं भेषजम् । अस्मादेव निपातनादेकारः । Padamanjari ----------- आवसन्त्येतमित्यावसथः, ठुपसर्गे वसेःऽ इत्यथप्रत्ययः। निपातसमुदायोऽयमिति। वचनाच्चाप्रातिपदिकादपि प्रत्ययः। उपदेशपारम्पर्ये वर्तते इति। तद्यथा - इति ह स्मोपाध्याः कथयन्तीति। भिषज्यतेः कण्ड्वादियगन्तात्किवपि भिषक, भिषज इदमित्यण् - भेषजम्, अस्मादेव निपातनादेकारः ॥ Nyaas ----- `उपदेशपारम्पर्ये वर्तते` इति। ह स्मोपाध्यायः कथयति, इति ह स्म पिता कययतीत्यत्रैवा प्रयोगदर्शनात्॥ Prakriyasarvasvam ----------------- अनन्तमेवानन्त्यम् । आवसथ्यं गृहम् । इतिहेत्युपदेशपरम्परा । तदेवैतिह्यम् । भैषज्यम् ॥